Raghav Stuti (राघव स्तुति)

|| राघव स्तुति || (Raghav Stuti) आञ्जनेयार्चितं जानकीरञ्जनं भञ्जनारातिवृन्दारकञ्जाखिलम्। कञ्जनानन्तखद्योतकञ्जारकं गञ्जनाखण्डलं खञ्जनाक्षं भज कुञ्जरास्यार्चितं कञ्जजेन स्तुतं पिञ्जरध्वंसकञ्जारजाराधितम्। कुञ्जगञ्जातकञ्जाङ्गजाङ्गप्रदं मञ्जुलस्मेरसम्पन्नवक्त्रं भजे। बालदूर्वादलश्यामलश्रीतनुं विक्रमेणावभग्नत्रिशूलीधनुम्। तारकब्रह्मनामद्विवर्णीमनुं चिन्तयाम्येकतारिन्तनूभूदनुम्। कोशलेशात्मजानन्दनं चन्दना- नन्ददिक्स्यन्दनं वन्दनानन्दितम्। क्रन्दनान्दोलितामर्त्यसानन्ददं मारुतिस्यन्दनं रामचन्द्रं भजे। भीदरन्ताकरं हन्तृदूषिन्खरं चिन्तिताङ्घ्र्याशनीकालकूटीगरम्। यक्षरूपे हरामर्त्यदम्भज्वरं हत्रियामाचरं नौमि सीतावरम्। शत्रुहृत्सोदरं लग्नसीताधरं पाणवैरिन् सुपर्वाणभेदिन् शरम्। रावणत्रस्तसंसारशङ्काहरं वन्दितेन्द्रामरं नौमि स्वामिन्नरम्।