Ashtakam Collection

    Shri Ganesha Ashtakam (श्री गणेशाष्टक) यतोऽनन्तशक्तेरनन्ताश्च जीवा

    श्री गणेशाष्टकम् (Shri Ganesha Ashtakam) ॥ अथ श्री गणेशाष्टकम् ॥ श्री गणेशाय नमः। सर्वे उचुः। यतोऽनन्तशक्तेरनन्ताश्च जीवायतो निर्गुणादप्रमेया गुणास्ते। यतो भाति सर्वं त्रिधा भेदभिन्नंसदा तं गणेशं नमामो भजामः॥1॥ यतश्चाविरासीज्जगत्सर्वमेतत्तथाऽब्जासनोविश्वगो विश्वगोप्ता। तथेन्द्रादयो देवसङ्घा मनुष्याःसदा तं गणेशं नमामो भजामः॥2॥ यतो वह्निभानू भवो भूर्जलं चयतः सागराश्चन्द्रमा व्योम वायुः। यतः स्थावरा जङ्गमा वृक्षसङ्घासदा तं गणेशं नमामो भजामः॥3॥ यतो दानवाः किन्नरा यक्षसङ्घायतश्चारणा वारणाः श्वापदाश्च। यतः पक्षिकीटा यतो वीरूधश्चसदा तं गणेशं नमामो भजामः॥4॥ यतो बुद्धिरज्ञाननाशो मुमुक्षोर्यतःसम्पदो भक्तसन्तोषिकाः स्युः। यतो विघ्ननाशो यतः कार्यसिद्धिःसदा तं गणेशं नमामो भजामः॥5॥ यतः पुत्रसम्पद्यतो वाञ्छितार्थोयतोऽभक्तविघ्नास्तथाऽनेकरूपाः। यतः शोकमोहौ यतः काम एवसदा तं गणेशं नमामो भजामः॥6॥ यतोऽनन्तशक्तिः स शेषो बभूवधराधारणेऽनेकरूपे च शक्तः। यतोऽनेकधा स्वर्गलोका हि नानासदा तं गणेशं नमामो भजामः॥7॥ यतो वेदवाचो विकुण्ठा मनोभिःसदा नेति नेतीति यत्ता गृणन्ति। परब्रह्मरूपं चिदानन्दभूतंसदा तं गणेशं नमामो भजामः॥8॥ ॥ फल श्रुति ॥ श्रीगणेश उवाच। पुनरूचे गणाधीशःस्तोत्रमेतत्पठेन्नरः। त्रिसन्ध्यं त्रिदिनं तस्यसर्वं कार्यं भविष्यति॥9॥ यो जपेदष्टदिवसंश्लोकाष्टकमिदं शुभम्। अष्टवारं चतुर्थ्यां तुसोऽष्टसिद्धिरवानप्नुयात्॥10॥ यः पठेन्मासमात्रं तुदशवारं दिने दिने। स मोचयेद्वन्धगतंराजवध्यं न संशयः॥11॥ विद्याकामो लभेद्विद्यांपुत्रार्थी पुत्रमाप्नुयात्। वाञ्छितांल्लभतेसर्वानेकविंशतिवारतः॥12॥ यो जपेत्परया भक्तयागजाननपरो नरः। एवमुक्तवा ततोदेवश्चान्तर्धानं गतः प्रभुः॥13॥ ॥ इति श्रीगणेशपुराणे उपासनाखण्डे श्रीगणेशाष्टकं सम्पूर्णम् ॥

    Krishna Ashtakam (कृष्णाष्टकम्) वसुदेव सुतं देवं कंस चाणूर मर्दनम्

    कृष्णाष्टकम् (Krishna Ashtakam) ॥ अथ श्री कृष्णाष्टकम् ॥ वसुदेव सुतं देवंकंस चाणूर मर्दनम्। देवकी परमानन्दंकृष्णं वन्दे जगद्गुरुम्॥1॥ अतसी पुष्प सङ्काशम्हार नूपुर शोभितम्। रत्न कङ्कण केयूरंकृष्णं वन्दे जगद्गुरुम्॥2॥ कुटिलालक संयुक्तंपूर्णचन्द्र निभाननम्। विलसत् कुण्डलधरंकृष्णं वन्दे जगद्गुरुम्॥3॥ मन्दार गन्ध संयुक्तंचारुहासं चतुर्भुजम्। बर्हि पिञ्छाव चूडाङ्गंकृष्णं वन्दे जगद्गुरुम्॥4॥ उत्फुल्ल पद्मपत्राक्षंनील जीमूत सन्निभम्। यादवानां शिरोरत्नंकृष्णं वन्दे जगद्गुरुम्॥5॥ रुक्मिणी केलि संयुक्तंपीताम्बर सुशोभितम्। अवाप्त तुलसी गन्धंकृष्णं वन्दे जगद्गुरुम्॥6॥ गोपिकानां कुचद्वन्द्वकुङ्कुमाङ्कित वक्षसम्। श्रीनिकेतं महेष्वासंकृष्णं वन्दे जगद्गुरुम्॥7॥ श्रीवत्साङ्कं महोरस्कंवनमाला विराजितम्। शङ्खचक्रधरं देवंकृष्णं वन्दे जगद्गुरुम्॥8॥ कृष्णाष्टक मिदं पुण्यंप्रातरुत्थाय यः पठेत्। कोटिजन्म कृतं पापंस्मरणेन विनश्यति॥ ॥ इति श्री कृष्णाष्टकम् सम्पूर्णम् ॥ Bhagwan Krishna

    Madhura Ashtakam (मधुरा अष्टकम्) अधरं मधुरं वदनं मधुरं

    मधुरा अष्टकम् (Madhura Ashtakam) ॥ मधुराष्टकम् ॥ अधरं मधुरं वदनं मधुरंनयनं मधुरं हसितं मधुरम्। हृदयं मधुरं गमनं मधुरंमधुराधिपतेरखिलं मधुरम्॥1॥ वचनं मधुरं चरितं मधुरंवसनं मधुरं वलितं मधुरम्। चलितं मधुरं भ्रमितं मधुरंमधुराधिपतेरखिलं मधुरम्॥2॥ वेणुर्मधुरो रेणुर्मधुरःपाणिर्मधुरः पादौ मधुरौ। नृत्यं मधुरं सख्यं मधुरंमधुराधिपतेरखिलं मधुरम्॥3॥ गीतं मधुरं पीतं मधुरंभुक्तं मधुरं सुप्तं मधुरम्। रूपं मधुरं तिलकं मधुरंमधुराधिपतेरखिलं मधुरम्॥4॥ करणं मधुरं तरणं मधुरंहरणं मधुरं रमणं मधुरम्। वमितं मधुरं शमितं मधुरंमधुराधिपतेरखिलं मधुरम्॥5॥ गुञ्जा मधुरा माला मधुरायमुना मधुरा वीची मधुरा। सलिलं मधुरं कमलं मधुरंमधुराधिपतेरखिलं मधुरम्॥6॥ गोपी मधुरा लीला मधुरायुक्तं मधुरं मुक्तं मधुरम्। दृष्टं मधुरं शिष्टं मधुरंमधुराधिपतेरखिलं मधुरम्॥7॥ गोपा मधुरा गावो मधुरायष्टिर्मधुरा सृष्टिर्मधुरा। दलितं मधुरं फलितं मधुरंमधुराधिपतेरखिलं मधुरम्॥8॥ ॥ इति श्रीमद्वल्लभाचार्यकृतं मधुराष्टकं सम्पूर्णम् ॥ Bhagwan Krishna

    Shri Govinda Ashtakam (श्री गोविन्द अष्टकम्) त्यं ज्ञानमनन्तं नित्यमनाकाशं परमाकाशं

    श्री गोविन्द अष्टकम् (Shri Govinda Ashtakam) ॥ श्रीगोविन्दाष्टकम् ॥ सत्यं ज्ञानमनन्तं नित्यमनाकाशं परमाकाशं गोष्ठप्राङ्गणरिङ्गणलोलमनायासं परमायासम्। मायाकल्पितनानाकारमनाकारं भुवनाकारं क्ष्मामा नाथमनाथं प्रणमत गोविन्दं परमानन्दम्॥1॥ मृत्स्नामत्सीहेति यशोदाताडनशैशवसंत्रासं व्यादितवक्त्रालोकितलोकालोकचतुर्दशलोकालिम्। लोकत्रयपुरमूलस्तम्भं लोकालोकमनालोकं लोकेशं परमेशं प्रणमत गोविन्दं परमानन्दम्॥2॥ त्रैविष्टपरिपुवीरघ्नं क्षितिभारघ्नं भवरोगघ्नं कैवल्यं नवनीताहारमनाहारं भुवनाहारम्। वैमल्यस्फुटचेतोवृत्तिविशेषाभासमनाभासं शैवं केवलशान्तं प्रणमत गोविन्दं परमानन्दम्॥3॥ गोपालं भुलीलाविग्रहगोपालं कुलगोपालं गोपीखेलनगोवर्धनधृतिलीलालालितगोपालम्। गोभिर्निगदितगोविन्दस्फुटनामानं बहुनामानं गोपीगोचरदूरं प्रणमत गोविन्दं परमानन्दम्॥4॥ गोपीमण्डलगोष्ठीभेदं भेदावस्थमभेदाभं शश्वद्गोखुरनिर्धूतोद्धतधूलीधूसरसौभाग्यम्। श्रद्धाभक्तिगृहीतानन्दमचिन्त्यं चिन्तितसद्भावं चिन्तामणिमहिमानं प्रणमत गोविन्दं परमानन्दम्॥5॥ स्नानव्याकुलयोषिद्वस्त्रमुपादायागमुपारूढं व्यादित्सन्तीरथ दिग्वस्त्रा ह्युपदातुमुपाकर्षन्तम्। निर्धूतद्वयशोकविमोहं बुद्धं बुद्धेरन्तःस्थं सत्तामात्रशरीरं प्रणमत गोविन्दं परमानन्दम्॥6॥ कान्तं कारणकारणमादिमनादिं कालमनाभासं कालिन्दीगतकालियशिरसि मुहुर्नृत्यन्तं नृत्यन्तम्। कालं कालकलातीतं कलिताशेषं कलिदोषघ्नं कालत्रयगतिहेतुं प्रणमत गोविन्दं परमानन्दम्॥7॥ वृन्दावनभुवि वृन्दारकगणवृन्दाराध्यं वन्देऽहं कुन्दाभामलमन्दस्मेरसुधानन्दं सुहृदानन्दम्। वन्द्याशेषमहामुनिमानसवन्द्यानन्दपदद्वन्द्वं वन्द्याशेषगुणाब्धिं प्रणमत गोविन्दं परमानन्दम्॥8॥ गोविन्दाष्टकमेतदधीते गोविन्दार्पितचेता यो गोविन्दाच्युत माधवविष्णो गोकुलनायक कृष्णेति। गोविन्दाङ्घ्रिसरोजध्यानसुधाजलधौतसमस्ताघो गोविन्दं परमानन्दामृतमन्तःस्थं स समभ्येति॥9॥ ॥ इति श्रीमच्छङ्कराचार्यविरचितं श्रीगोविन्दाष्टकं सम्पूर्णम् ॥ Bhagwan Krishna

    Shri Nandakumar Ashtakam (श्री नन्दकुमार अष्टकम् ) सुन्दरगोपालम् उरवनमालं नयनविशालं दुःखहरं

    श्री नन्दकुमार अष्टकम् (Shri Nandakumar Ashtakam) ॥ श्रीनन्दकुमाराष्टकम् ॥ सुन्दरगोपालम् उरवनमालंनयनविशालं दुःखहरं। वृन्दावनचन्द्रमानन्दकन्दंपरमानन्दं धरणिधर वल्लभघनश्यामं पूर्णकामंअत्यभिरामं प्रीतिकरं। भज नन्दकुमारं सर्वसुखसारंतत्त्वविचारं ब्रह्मपरम्॥1॥ सुन्दरवारिजवदनं निर्जितमदनंआनन्दसदनं मुकुटधरं। गुञ्जाकृतिहारं विपिनविहारंपरमोदारं चीरहर वल्लभपटपीतं कृतउपवीतंकरनवनीतं विबुधवरं। भज नन्दकुमारं सर्वसुखसारंतत्त्वविचारं ब्रह्मपरम्॥2॥ शोभितमुखधूलं यमुनाकूलंनिपटअतूलं सुखदतरं। मुखमण्डितरेणुं चारितधेनुंवादितवेणुं मधुरसुर वल्लभमतिविमलं शुभपदकमलंनखरुचिअमलं तिमिरहरं। भज नन्दकुमारं सर्वसुखसारंतत्त्वविचारं ब्रह्मपरम्॥3॥ शिरमुकुटसुदेशं कुञ्चितकेशंनटवरवेशं कामवरं। मायाकृतमनुजं हलधरअनुजंप्रतिहतदनुजं भारहर वल्लभव्रजपालं सुभगसुचालंहितमनुकालं भाववरं। भज नन्दकुमारं सर्वसुखसारंतत्त्वविचारं ब्रह्मपरम्॥4॥ इन्दीवरभासं प्रकटसुरासंकुसुमविकासं वंशिधरं। हृतमन्मथमानं रूपनिधानंकृतकलगानं चित्तहर वल्लभमृदुहासं कुञ्जनिवासंविविधविलासं केलिकरं। भज नन्दकुमारं सर्वसुखसारंतत्त्वविचारं ब्रह्मपरम्॥5॥ अतिपरप्रवीणं पालितदीनंभक्ताधीनं कर्मकरं। मोहनमतिधीरं फणिबलवीरंहतपरवीरं तरलतर वल्लभव्रजरमणं वारिजवदनंहलधरशमनं शैलधरं। भज नन्दकुमारं सर्वसुखसारंतत्त्वविचारं ब्रह्मपरम्॥6॥ जलधरद्युतिअङ्गं ललितत्रिभङ्गंबहुकृतरङ्गं रसिकवरं। गोकुलपरिवारं मदनाकारंकुञ्जविहारं गूढतर वल्लभव्रजचन्द्रं सुभगसुछन्दंकृतआनन्दं भ्रान्तिहरं। भज नन्दकुमारं सर्वसुखसारंतत्त्वविचारं ब्रह्मपरम्॥7॥ वन्दितयुगचरणं पावनकरणंजगदुद्धरणं विमलधरं। कालियशिरगमनं कृतफणिनमनंघातितयमनं मृदुलतर वल्लभदुःखहरणं निर्मलचरणम्अशरणशरणं मुक्तिकरं। भज नन्दकुमारं सर्वसुखसारंतत्त्वविचारं ब्रह्मपरम्॥8॥ ॥ इति श्रीमहाप्रभुवल्लभाचार्यविरचितं श्रीनन्दकुमाराष्टकं सम्पूर्णम् ॥ Bhagwan Krishna

    Shankaracharya Krit Shiva Ashtakam (शंकराचार्य कृत शिव अष्टकम्) तस्मै नम: परमकारणकारणाय

    शंकराचार्य कृत शिव अष्टकम् (Shankaracharya Krit Shiva Ashtakam) ॥ शिवाष्टकम् ॥ तस्मै नमः परमकारणकारणाय दीप्तोज्ज्वलज्ज्वलितपिङ्गललोचनाय। नागेन्द्रहारकृतकुण्डलभूषणाय ब्रह्मेन्द्रविष्णुवरदाय नमः शिवाय॥1॥ श्रीमत्प्रसन्नशशिपन्नगभूषणाय शैलेन्द्रजावदनचुम्बितलोचनाय। कैलासमन्दरमहेन्द्रनिकेतनाय लोकत्रयार्तिहरणाय नमः शिवाय॥2॥ पद्मावदातमणिकुण्डलगोवृषाय कृष्णागरुप्रचुरचन्दनचर्चिताय। भस्मानुषक्तविकचोत्पलमल्लिकाय नीलाब्जकण्ठसदृशाय नमः शिवाय॥3॥ लम्बत्सपिङ्गलजटामुकुटोत्कटाय दंष्ट्राकरालविकटोत्कटभैरवाय। व्याघ्राजिनाम्बरधराय मनोहराय त्रैलोक्यनाथनमिताय नमः शिवाय॥4॥ दक्षप्रजापतिमहामखनाशनाय क्षिप्रं महात्रिपुरदानवघातनाय। ब्रह्मोर्जितोर्ध्वगकरोटिनिकृन्तनाय योगाय योगनमिताय नमः शिवाय॥5॥ संसारसृष्टिघटनापरिवर्तनाय रक्षः पिशाचगणसिद्धसमाकुलाय। सिद्धोरगग्रहगणेन्द्रनिषेविताय शार्दूलचर्मवसनाय नमः शिवाय॥6॥ भस्माङ्गरागकृतरूपमनोहराय सौम्यावदातवनमाश्रितमाश्रिताय। गौरीकटाक्षनयनार्धनिरीक्षणाय गोक्षीरधारधवलाय नमः शिवाय॥7॥ आदित्यसोमवरुणानिलसेविताय यज्ञाग्निहोत्रवरधूमनिकेतनाय। ऋक्सामवेदमुनिभिः स्तुतिसंयुताय गोपाय गोपनमिताय नमः शिवाय॥8॥ शिवाष्टकमिदं पुण्यं यः पठेत् शिवसन्निधौ। शिवलोकमवाप्नोति शिवेन सह मोदते॥ ॥ इति श्री शङ्कराचार्यकृतं शिवाष्टकं सम्पूर्णम् ॥ Bhagwan shiva

    Shiva Ashtakam (शिव अष्टकम्) प्रभुं प्राणनाथं विभुं विश्वनाथं

    शिव अष्टकम् (Shiva Ashtakam) ॥ अथ श्री शिवाष्टकम् ॥ प्रभुं प्राणनाथं विभुं विश्वनाथंजगन्नाथ नाथं सदानन्द भाजाम्। भवद्भव्य भूतेश्वरं भूतनाथं,शिवं शङ्करं शम्भु मीशानमीडे॥1॥ गले रुण्डमालं तनौ सर्पजालंमहाकाल कालं गणेशादि पालम्। जटाजूट गङ्गोत्तरङ्गै र्विशालं,शिवं शङ्करं शम्भु मीशानमीडे॥2॥ मुदामाकरं मण्डनं मण्डयन्तंमहा मण्डलं भस्म भूषाधरं तम्। अनादिं ह्यपारं महा मोहमारं,शिवं शङ्करं शम्भु मीशानमीडे॥3॥ वटाधो निवासं महाट्टाट्टहासंमहापाप नाशं सदा सुप्रकाशम्। गिरीशं गणेशं सुरेशं महेशं,शिवं शङ्करं शम्भु मीशानमीडे॥4॥ गिरीन्द्रात्मजा सङ्गृहीतार्धदेहंगिरौ संस्थितं सर्वदापन्न गेहम्। परब्रह्म ब्रह्मादिभिर्-वन्द्यमानं,शिवं शङ्करं शम्भु मीशानमीडे॥5॥ कपालं त्रिशूलं कराभ्यां दधानंपदाम्भोज नम्राय कामं ददानम्। बलीवर्धमानं सुराणां प्रधानं,शिवं शङ्करं शम्भु मीशानमीडे॥6॥ शरच्चन्द्र गात्रं गणानन्दपात्रंत्रिनेत्रं पवित्रं धनेशस्य मित्रम्। अपर्णा कलत्रं सदा सच्चरित्रं,शिवं शङ्करं शम्भु मीशानमीडे॥7॥ हरं सर्पहारं चिता भूविहारंभवं वेदसारं सदा निर्विकारं। श्मशाने वसन्तं मनोजं दहन्तं,शिवं शङ्करं शम्भु मीशानमीडे॥8॥ स्वयं यः प्रभाते नरश्शूल पाणेपठेत् स्तोत्ररत्नं त्विहप्राप्यरत्नम्। सुपुत्रं सुधान्यं सुमित्रं कलत्रंविचित्रैस्समाराध्य मोक्षं प्रयाति॥ ॥ इति श्रीशिवाष्टकं सम्पूर्णम् ॥ Bhagwan Shiva

    Shri Gaurisha Ashtakam (श्री गौरीश अष्टकम्) भज गौरीशं भज गौरीशं गौरीशं भज मन्दमते

    श्री गौरीश अष्टकम् (Shri Gaurisha Ashtakam) ॥ श्री गौरीशाष्टकम ॥ भज गौरीशं भज गौरीशंगौरीशं भज मन्दमते। जलभवदुस्तरजलधिसुतरणंध्येयं चित्ते शिवहरचरणम्। अन्योपायं न हि न हि सत्यंगेयं शङ्कर शङ्कर नित्यम्। भज गौरीशं भज गौरीशंगौरीशं भज मन्दमते॥1॥ दारापत्यं क्षेत्रं वित्तंदेहं गेहं सर्वमनित्यम्। इति परिभावय सर्वमसारंगर्भविकृत्या स्वप्नविचारम्। भज गौरीशं भज गौरीशंगौरीशं भज मन्दमते॥2॥ मलवैचित्ये पुनरावृत्ति:पुनरपि जननीजठरोत्पत्ति:। पुनरप्याशाकुलितं जठरं किंनहि मुञ्चसि कथयेश्चित्तम्। भज गौरीशं भज गौरीशंगौरीशं भज मन्दमते॥3॥ मायाकल्पितमैन्द्रं जालं नहि तत्सत्यं दृष्टिविकारम्। ज्ञाते तत्त्वे सर्वमसारं माकुरु मा कुरु विषयविचारम्। भज गौरीशं भज गौरीशंगौरीशं भज मन्दमते॥4॥ रज्जौ सर्पभ्रमणा-रोपस्तद्वद्ब्रह्मणि जगदारोप:। मिथ्यामायामोहविकारंमनसि विचारय बारम्बारम्। भज गौरीशं भज गौरीशंगौरीशं भज मन्दमते॥5॥ अध्वरकोटीगङ्गागमनं कुरुतेयोगं चेन्द्रियदमनम्। ज्ञानविहीन: सर्वमतेन नभवति मुक्तो जन्मशतेन। भज गौरीशं भज गौरीशंगौरीशं भज मन्दमते॥6॥ सोऽहं हंसो ब्रह्मैवाहंशुद्धानन्दस्तत्त्वपरोऽहम्। अद्वैतोऽहं सङ्गविहीनेचेन्द्रिय आत्मनि निखिले लीने। भज गौरीशं भज गौरीशंगौरीशं भज मन्दमते॥7॥ शङ्करकिंङ्कर मा कुरु चिन्तांचिंतामणिना विरचितमेतत्। य: सद्भक्त्या पठति हि नित्यंब्रह्मणि लीनो भवति हि सत्यम्। भज गौरीशं भज गौरीशंगौरीशं भज मन्दमते॥8॥ ॥ इति श्रीचिन्तामणिविरचितं गौरीशाष्टकं सम्पूर्णम् ॥ Bhagwan Shiva

    Shri Dinabandhu Ashtakam (श्री दीनबन्धु अष्टकम्) यस्मादिदं जगदुदेति चतुर्मुखाद्यं

    श्री दीनबन्धु अष्टकम् (Shri Dinabandhu Ashtakam) ॥ श्री दीनबन्ध्वष्टकम् ॥ यस्मादिदं जगदुदेति चतुर्मुखाद्यंयस्मिन्नवस्थितमशेषमशेषमूले। यत्रोपयाति विलयं च समस्तमन्तेदृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥1॥ चक्रं सहस्रकरचारु करारविन्देगुर्वी गदा दरवरश्च विभाति यस्य। पक्षीन्द्रपृष्ठपरिरोपितपादपद्मो।दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥2॥ येनोद्धृता वसुमती सलिले निमग्ना नग्नाच पाण्डववधूः स्थगिता दुकूलैः। संमोचितो जलचरस्य मुखाद्गजेन्द्रो।दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥3॥ यस्यार्द्रदृष्टिवशतस्तु सुराः समृद्धिंकोपेक्षणेन दनुजा विलयं व्रजन्ति। भीताश्चरन्ति च यतोऽर्कयमानिलाद्या।दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥4॥ गायन्ति सामकुशला यमजं मखेषुध्यायन्ति धीरमतयो यतयो विविक्ते। पश्यन्ति योगिपुरुषाः पुरुषं शरीरे।दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥5॥ आकाररूपगुणयोगविवर्जितोऽपि मददभक्तानुकम्पननिमित्तगृहीतमूर्तिः। यः सर्वगोऽपि कृतशेषशरीरशय्यो।दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥6॥ यस्याङ्घ्रिपङ्कजमनिद्रमुनीन्द्रवृन्दैराराध्यते भवदवानलदाहशान्त्यै। सर्वापराधमविचिन्त्य ममाखिलात्मा।दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥7॥ यन्नामकीर्तनपरः श्वपचोऽपि नूनंहित्वाखिलं कलिमलं भुवनं पुनाति। दग्ध्वा ममाघमखिलं करुणेक्षणेन।दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥8॥ दीनबन्ध्वष्टकं पुण्यंब्रह्मानन्देन भाषितम्। यः पठेत् प्रयतो नित्यंतस्य विष्णुः प्रसीदति॥9॥ ॥ इति श्रीमत्परमहंसस्वामिब्रह्मानन्दविरचितं श्रीदीनबन्ध्वष्टकं सम्पूर्णम् ॥ Bhagwan Vishnu

    Shri Kamalapati Ashtakam (श्री कमलापति अष्टकम् ) भुजगतल्यगतं घनसुन्दरं

    श्री कमलापति अष्टकम् (Shri Kamalapati Ashtakam) ॥ श्री कमलापत्यष्टकम् ॥ भुजगतल्पगतं घनसुन्दरंगरुडवाहनमम्बुजलोचनम्। नलिनचक्रगदाकरमव्ययंभजत रे मनुजाः कमलापतिम्॥1॥ अलिकुलासितकोमलकुन्तलंविमलपीतदुकूलमनोहरम्। जलधिजाङ्कितवामकलेवरंभजत रे मनुजाः कमलापतिम्॥2॥ किमु जपैश्च तपोभिरुताध्वरैरपिकिमुत्तमतीर्थनिषेवणैः। किमुत शास्त्रकदम्बविलोकनैर्भजतरे मनुजाः कमलापतिम्॥3॥ मनुजदेहमिमं भुवि दुर्लभंसमधिगम्य सुरैरपि वाञ्छितम्। विषयलम्पटतामपहाय वैभजत रे मनुजाः कमलापतिम्॥4॥ न वनिता न सुतो न सहोदरो नहि पिता जननी न च बान्धवः। व्रजति साकमनेन जनेन वैभजत रे मनुजाः कमलापतिम्॥5॥ सकलमेव चलं सचराचरंजगदिदं सुतरां धनयौवनम्। समवलोक्य विवेकदृशा द्रुतंभजत रे मनुजाः कमलापतिम्॥6॥ विविधरोगयुतं क्षणभंगुरंपरवशं नवमार्गमलाकुलम्। परिनिरीक्ष्य शरीरमिदं स्वकंभजत रे मनुजाः कमलापतिम्॥7॥ मुनिवरैरनिशं हृदि भावितंशिवविरिञ्चिमहेन्द्रनुतं सदा। मरणजन्मजराभयमोचनंभजत रे मनुजाः कमलापतिम्॥8॥ हरिपदाष्टकमेतदनुत्तमंपरमहंसजनेन समीरितम्। पठति यस्तु समाहितचेतसाव्रजति विष्णुपदं स नरो ध्रुवम्॥9॥ ॥ इति श्रीमत्परमहंसस्वामिब्रह्मानन्दविरचितं श्रीकमलापत्यष्टकं सम्पूर्णम् ॥ Bhagwan Vishnu

    Shri Narayana Ashtakam (श्री नारायण अष्टकम् ) वात्सल्यादभयप्रदानसमयादार्तिनिर्वापणा

    श्री नारायण अष्टकम् (Shri Narayana Ashtakam) ॥ श्री नारायणाष्टकम् ॥ वात्सल्यादभयप्रदान-समयादार्तिनिर्वापणा- दौदार्यादघशोषणाद-गणितश्रेयःपदप्रापणात्। सेव्यः श्रीपतिरेक एवजगतामेतेऽभवन्साक्षिणः प्रह्लादश्च विभीषणश्चकरिराट् पाञ्चाल्यहल्या ध्रुवः॥1॥ प्रह्लादास्ति यदीश्वरो वदहरिः सर्वत्र मे दर्शय स्तम्भे चैवमितिब्रुवन्तमसुरं तत्राविरासीद्धरिः। वक्षस्तस्य विदारयन्निजन-खैर्वात्सल्यमापाद- यन्नार्तत्राणपरायणः सभगवान्नारायणो मे गतिः॥2॥ श्रीरामात्र विभीषणोऽयमनघोरक्षोभयादागतः सुग्रीवानय पालयैनमधुनापौलस्त्यमेवागतम्। इत्युक्त्वाभयमस्यसर्वविदितं यो राघवो दत्तवानार्तत्राणपरायणः सभगवान्नारायणो मे गतिः॥3॥ नक्रग्रस्तपदं समुद्धतकरंब्रह्मादयो भो सुराः पाल्यन्तामिति दीनवाक्यकरिणंदेवेष्वशक्तेषु यः। मा भैषीरिति यस्यनक्रहनने चक्रायुधः श्रीधर। आर्तत्राणपरायणः सभगवान्नारायणो मे गतिः॥4॥ भो कृष्णाच्युत भो कृपालयहरे भो पाण्डवानां सखे क्वासि क्वासि सुयोधनादपहृतांभो रक्ष मामातुराम्। इत्युक्तोऽक्षयवस्त्रसंभृततनुंयोऽपालयद्द्रौपदी- मार्तत्राणपरायणः सभगवान्नारायणो मे गतिः॥5॥ यत्पादाब्जनखोदकं त्रिजगतांपापौघविध्वंसनं यन्नामामृतपूरकं चपिबतां संसारसन्तारकम्। पाषाणोऽपि यदङ्घ्रिपद्मरजसाशापान्मुनेर्मोचित। आर्तत्राणपरायणः सभगवान्नारायणो मे गतिः॥6॥ पित्रा भ्रातरमुत्तमासनगतंचौत्तानपादिध्रुवो दृष्ट्वा तत्सममारुरुक्षुरधृतोमात्रावमानं गतः। यं गत्वा शरणं यदापतपसा हेमाद्रिसिंहासन- मार्तत्राणपरायणः सभगवान्नारायणो मे गतिः॥7॥ आर्ता विषण्णाः शिथिलाश्च भीताघोरेषु च व्याधिषु वर्तमानाः। सङ्कीर्त्य नारायणशब्दमात्रंविमुक्तदुःखाः सुखिनो भवन्ति॥8॥ ॥ इति श्रीकूरेशस्वामिविरचितं श्रीनारायणाष्टकं सम्पूर्णम् ॥

    Shri Hari Sharanashtakam (श्री हरि शरणाष्टकम् ) ध्येयं वदन्ति शिवमेव हि केचिदन्ये

    श्री हरि शरणाष्टकम् (Shri Hari Sharanashtakam) ॥ श्री हरि शरणाष्टकम् ॥ ध्येयं वदन्ति शिवमेव हि केचिदन्येशक्तिं गणेशमपरे तु दिवाकरं वै। रूपैस्तु तैरपि विभासि यतस्त्वमेवतस्मात्त्वमेव शरणं मम दीनबन्धो॥1॥ नो सोदरो न जनको जननी न जायानैवात्मजो न च कुलं विपुलं बलं वा। संदृष्यते न किल कोऽपि सहायको मेतस्मात्त्वमेव शरणं मम दीनबन्धो॥2॥ नोपासिता मदमपास्य मया महान्तस्तीर्थानिचास्तिकधिया न हि सेवितानि। देवार्चनं च विधिवन्न कृतं कदापितस्मात्त्वमेव शरणं मम दीनबन्धो॥3॥ दुर्वासना मम सदा परिकर्षयन्तिचित्तं शरीरमपि रोगगणा दहन्ति। सञ्जीवनं च परहस्तगतं सदैवतस्मात्त्वमेव शरणं मम दीनबन्धो॥4॥ पूर्वं कृतानि दुरितानि मया तु यानिस्मृत्वाखिलानि ह्रदयं परिकम्पते मे। ख्याता च ते पतितपावनता तु यस्मात्तस्मात्त्वमेव शरणं मम दीनबन्धो॥5॥ दुःखं जराजननजं विविधाश्च रोगा:काकश्वसूकरजनिर्निरय च पात:। त्वद्विस्मॄतेः फलमिदं विततं हि लोकेतस्मात्त्वमेव शरणं मम दीनबन्धो॥6॥ नीचोऽपि पापवलितोऽपि विनिन्दितोऽपिब्रूयात्तवाहमिति यस्तु किलैकवारम्। तं यच्छसीश निजलोकमिति व्रतं तेतस्मात्त्वमेव शरणं मम दीनबन्धो॥7॥ वेदेषु धर्मवचनेषु तथागमेषुरामायणेऽपि च पुराणकदम्बके वा। सर्वत्र सर्वविधिना गदितस्त्वमेवतस्मात्त्वमेव शरणं मम दीनबन्धो॥8॥ ॥ इति श्रीमत्परमहंसस्वामिब्रह्मानन्दविरचितं श्रीहरिशरणाष्टकं सम्पूर्णम् ॥ Bhagwan Vishnu

    Shri Ram Ashtakam (श्री राम अष्टकम्) कृतार्तदेववन्दनं दिनेशवंशनन्दनम्

    श्री राम अष्टकम् (Shri Ram Ashtakam) ॥ श्रीरामाष्टकम् ॥ कृतार्तदेववन्दनंदिनेशवंशनन्दनम्। सुशोभिभालचन्दनंनमामि राममीश्वरम्॥1॥ मुनीन्द्रयज्ञकारकंशिलाविपत्तिहारकम्। महाधनुर्विदारकंनमामि राममीश्वरम्॥2॥ स्वतातवाक्यकारिणंतपोवने विहारिणम्। करे सुचापधारिणंनमामि राममीश्वरम्॥3॥ कुरङ्गमुक्तसायकंजटायुमोक्षदायकम्। प्रविद्धकीशनायकंनमामि राममीश्वरम्॥4॥ प्लवङ्गसङ्गसम्मतिंनिबद्धनिम्नगापतिम्। दशास्यवंशसङ्क्षतिंनमामि राममीश्वरम्॥5॥ विदीनदेवहर्षणंकपीप्सितार्थवर्षणम्। स्वबन्धुशोककर्षणंनमामि राममीश्वरम्॥6॥ गतारिराज्यरक्षणंप्रजाजनार्तिभक्षणम्। कृतास्तमोहलक्षणंनमामि राममीश्वरम्॥7॥ हृताखिलाचलाभरंस्वधामनीतनागरम्। जगत्तमोदिवाकरंनमामि राममीश्वरम्॥8॥ इदं समाहितात्मनानरो रघूत्तमाष्टकम्। पठन्निरन्तरं भयंभवोद्भवं न विन्दते॥9॥ ॥ इति श्रीपरमहंसस्वामिब्रह्मानन्दविरचितं श्रीरामाष्टकं सम्पूर्णम् ॥ Bhagwan Ram

    Shri Rama Chandra Ashtakam (श्री रामचन्द्र अष्टकम्)

    श्री रामचन्द्र अष्टकम् (Shri Rama Chandra Ashtakam) ॥ श्रीरामचन्द्राष्टकम् ॥ चिदाकारो धातापरमसुखदः पावन- तनुर्मुनीन्द्रैर्यो-गीन्द्रैर्यतिपतिसुरेन्द्रैर्हनुमता। सदा सेव्यः पूर्णोजनकतनयाङ्गः सुरगुरू रमानाथो रामो रमतुमम चित्ते तु सततम्॥1॥ मुकुन्दो गोविन्दोजनकतनयालालितपदः पदं प्राप्तायस्याधमकुलभवा चापि शबरी। गिरातीतोऽगम्योविमलधिषणैर्वेदवचसा रमानाथो रामो रमतुमम चित्ते तु सततम्॥2॥ धराधीशोऽधीशःसुरनरवराणां रघुपतिः किरीटी केयूरीकनककपिशः शोभितवपुः। समासीनः पीठेरविशतनिभे शान्तमनसो रमानाथो रामो रमतुमम चित्ते तु सततम्॥3॥ वरेण्यः शारण्यःकपिपतिसखश्चान्तविधुरो ललाटे काश्मीरोरुचिरगतिभङ्गः शशिमुखः। नराकारो रामोयतिपतिनुतः संसृतिहरो रमानाथो रामो रमतुमम चित्ते तु सततम्।॥4॥ विरूपाक्षः कश्यामुपदिशियन्नाम शिवदं सहस्रं यन्नाम्नां पठतिगिरिजा प्रत्युषसि वै। स्वलोके गायन्तीश्वरविधिमुखायस्य चरितं रमानाथो रामो रमतुमम चित्ते तु सततम्॥5॥ परो धीरोऽधीरोऽसुरकुल-भवश्चासुरहरः परात्मा सर्वज्ञोनरसुरगणैर्गीतसुयशाः। अहल्याशापघ्नःशरकरऋजुः कौशिकसखो रमानाथो रामो रमतुमम चित्ते तु सततम्॥6॥ हृषीकेशः शौरिर्धरणि-धरशायी मधुरिपु- रुपेन्द्रोवैकुण्ठोगजरिपुहरस्तुष्टमनसा। बलिध्वंसी वीरोदशरथसुतो नीतिनिपुणो रमानाथो रामो रमतुमम चित्ते तु सततम्॥7॥ कविः सौमित्रीड्यःकपटमृगघाती वनचरो रणश्लाघी दान्तोधरणिभरहर्ता सुरनुतः। अमानी मानज्ञोनिखिलजनपूज्यो हृदिशयो रमानाथो रामो रमतुमम चित्ते तु सततम्॥8॥ इदं रामस्तोत्रंवरममरदासेन रचितमुषः काले भक्त्या यदिपठति यो भावसहितम्। मनुष्यः स क्षिप्रंजनिमृतिभयं तापजनकं परित्यज्य श्रेष्ठंरघुपतिपदं याति शिवदम्॥9॥ ॥ इति श्रीमद्रामदासपूज्यपादशिष्य श्रीमद्धंसदासशिष्येणामरदासाख्यकविना विरचितं श्रीरामचन्द्राष्टकं समाप्तम् ॥ Bhagwan

    Sankat Mochan Hanuman Ashtakam (संकट मोचन हनुमान अष्टकम्) बाल समय रवि भक्षि लियो तब

    संकट मोचन हनुमान अष्टकम् (Sankat Mochan Hanuman Ashtakam) ॥ संकट मोचन हनुमानाष्टक ॥ ॥ मत्तगयन्द छन्द ॥ बाल समय रवि भक्षि लियोतब तीनहुँ लोक भयो अँधियारो। ताहि सों त्रास भयो जग कोयह संकट काहु सों जात न टारो। देवन आनि करी बिनतीतब छाँड़ि दियो रबि कष्ट निवारो। को नहिं जानत है जग मेंकपि संकटमोचन नाम तिहारो॥1॥ बालि की त्रास कपीस बसैगिरि जात महाप्रभु पंथ निहारो। चौंकि महा मुनि साप दियोतब चाहिय कौन बिचार बिचारो। कै द्विज रूप लिवाय महाप्रभुसो तुम दास के सोक निवारो। को नहिं जानत है जग मेंकपि संकटमोचन नाम तिहारो॥2॥ अंगद के सँग लेन गये सियखोज कपीस यह बैन उचारो। जीवत ना बचिहौ हम सो जुबिना सुधि लाए इहाँ पगु धारो। हेरि थके तट सिंधु सबैतब लाय सिया-सुधि प्रान उबारो। को नहिं जानत है जग मेंकपि संकटमोचन नाम तिहारो॥3॥ रावन त्रास दई सिय कोसब राक्षसि सों कहि सोक निवारो। ताहि समय हनुमान महाप्रभुजाय महा रजनीचर मारो। चाहत सीय असोक सों आगि सुदै प्रभु मुद्रिका सोक निवारो। को नहिं जानत है जग मेंकपि संकटमोचन नाम तिहारो॥4॥ बान लग्यो उर लछिमन केतब प्रान तजे सुत रावन मारो। लै गृह बैद्य सुषेन समेत तबैगिरि द्रोन सु बीर उपारो। आनि सजीवन हाथ दईतब लछिमन के तुम प्रान उबारो। को नहिं जानत है जग मेंकपि संकटमोचन नाम तिहारो॥5॥ रावन जुद्ध अजान कियो तबनाग कि फाँस सबै सिर डारो। श्रीरघुनाथ समेत सबै दलमोह भयो यह संकट भारो। आनि खगेस तबै हनुमान जुबंधन काटि सुत्रास निवारो। को नहिं जानत है जग मेंकपि संकटमोचन नाम तिहारो॥6॥ बंधु समेत जबै अहिरावनलै रघुनाथ पताल सिधारो। देबिहिं पूजि भली बिधि सोंबलि देउ सबै मिलि मंत्र बिचारो। जाय सहाय भयो तब हीअहिरावन सैन्य समेत सँहारो। को नहिं जानत है जग मेंकपि संकटमोचन नाम तिहारो॥7॥ काज कियो बड़ देवन के तुमबीर महाप्रभु देखि बिचारो। कौन सो संकट मोर गरीब कोजो तुमसों नहिं जात है टारो। बेगि हरो हनुमान महाप्रभुजो कुछ संकट होय हमारो। को नहिं जानत है जग मेंकपि संकटमोचन नाम तिहारो॥8॥ ॥ दोहा ॥ लाल देह लाली लसे,अरू धरि लाल लँगूर। बज्र देह दानव दलन,जय जय कपि सूर॥ Bhagwan Hanuman

    Shri Surya Ashtakam (श्री सूर्य अष्टकम्) आदिदेव नमस्तुभ्यंप्रसीद मम भास्कर

    श्री सूर्य अष्टकम् (Shri Surya Ashtakam) ॥ सूर्याष्टकम् ॥ आदिदेव नमस्तुभ्यंप्रसीद मम भास्कर। दिवाकर नमस्तुभ्यंप्रभाकर नमोऽस्तुते॥1॥ सप्ताश्वरथमारूढंप्रचण्डं कश्यपात्मजम्। श्वेतपद्मधरं देवं तंसूर्यं प्रणमाम्यहम्॥2॥ लोहितं रथमारूढंसर्वलोकपितामहम्। महापापहरं देवं तंसूर्यं प्रणमाम्यहम्॥3॥ त्रैगुण्यं च महाशूरंब्रह्माविष्णुमहेश्वरम्। महापापहरं देवं तंसूर्यं प्रणमाम्यहम्॥4॥ बृंहितं तेजःपुञ्जं चवायुमाकाशमेव च। प्रभुं च सर्वलोकानांतं सूर्यं प्रणमाम्यहम्॥5॥ बन्धूकपुष्पसङ्काशंहारकुण्डलभूषितम्। एकचक्रधरं देवंतं सूर्यं प्रणमाम्यहम्॥6॥ तं सूर्यं जगत्कर्तारंमहातेजःप्रदीपनम्। महापापहरं देवंतं सूर्यं प्रणमाम्यहम्॥7॥ तं सूर्यं जगतां नाथंज्ञानविज्ञानमोक्षदम्। महापापहरं देवंतं सूर्यं प्रणमाम्यहम्॥8॥ ॥ इति श्रीशिवप्रोक्तं सूर्याष्टकं सम्पूर्णम् ॥ Bhagwan Surya

    Mahalakshmi Ashtakam (महालक्ष्मी अष्टकम् ) नमस्तेस्तु महामाये श्रीपीठे सुरपूजिते

    महालक्ष्मी अष्टकम् (Mahalakshmi Ashtakam) ॥ महालक्ष्म्यष्टकम् ॥ नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते। शङ्खचक्रगदाहस्ते महालक्ष्मि नमोऽस्तुते॥1॥ नमस्ते गरुडारूढे कोलासुरभयङ्करि। सर्वपापहरे देवि महालक्ष्मि नमोऽस्तुते॥2॥ सर्वज्ञे सर्ववरदे सर्वदुष्टभयङ्करि। सर्वदुःखहरे देवि महालक्ष्मि नमोऽस्तुते॥3॥ सिद्धिबुद्धिप्रदे देवि भुक्तिमुक्तिप्रदायिनि। मन्त्रमूर्ते सदा देवि महालक्ष्मि नमोऽस्तुते॥4॥ आद्यन्तरहिते देवि आद्यशक्तिमहेश्वरि। योगजे योगसम्भूते महालक्ष्मि नमोऽस्तुते॥5॥ स्थूलसूक्ष्ममहारौद्रे महाशक्तिमहोदरे। महापापहरे देवि महालक्ष्मि नमोऽस्तुते॥6॥ पद्मासनस्थिते देवि परब्रह्मस्वरूपिणि। परमेशि जगन्मातर्महालक्ष्मि नमोऽस्तुते॥7॥ श्वेताम्बरधरे देवि नानालङ्कारभूषिते। जगत्स्थिते जगन्मातर्महालक्ष्मि नमोऽस्तुते॥8॥ महालक्ष्म्यष्टकं स्तोत्रं यः पठेद्भक्तिमान्नरः। सर्वसिद्धिमवाप्नोति राज्यं प्राप्नोति सर्वदा॥9॥ एककाले पठेन्नित्यं महापापविनाशनम्। द्विकालं यः पठेन्नित्यं धनधान्यसमन्वितः॥10॥ त्रिकालं यः पठेन्नित्यं महाशत्रुविनाशनम्। महालक्ष्मीर्भवेन्नित्यं प्रसन्ना वरदा शुभा॥11॥ ॥ इति इन्द्रकृतं महालक्ष्म्यष्टकं सम्पूर्णम् ॥ Devi Lakshmi

    Saraswati Ashtakam (सरस्वती अष्टकम्)

    सरस्वती अष्टकम् (Saraswati Ashtakam) ॥ श्री सरस्वती अष्टकम् ॥ ॥ शतानीक उवाच ॥ महामते महाप्राज्ञसर्वशास्त्रविशारद। अक्षीणकर्मबन्धस्तुपुरुषो द्विजसत्तम॥1॥ मरणे यज्जोपेज्जाप्यंयं च भावमनुस्मरन्। परं पदमवाप्नोतितन्मे ब्रूहि महामुने॥2॥ ॥ शौनक उवाच ॥ इदमेव महाराजपृष्टवांस्ते पितामहः। भीष्मं धर्मविदां श्रेष्ठंधर्मपुत्रो युधिष्ठिरः॥3॥ ॥ युधिष्ठिर उवाच ॥ पितामह महाप्राज्ञसर्वशास्त्रविशारदः। बृहस्पतिस्तुता देवीवागीशेन महात्मना। आत्मायं दर्शयामासंसूर्य कोटिसमप्रभम्॥4॥ ॥ सरस्वत्युवाच ॥ वरं वृणीष्व भद्रंते यत्ते मनसि विद्यते। ॥ बृहस्पतिरूवाच ॥ यदि मे वरदा देविदिव्यज्ञानं प्रयच्छ नः॥5॥ ॥ देव्युवाच ॥ हन्त ते निर्मलज्ञानंकुमतिध्वंसकारणम्। स्तोत्रणानेन यो भक्तयामां स्तुवन्ति मनीषिण॥6॥ ॥ बृहस्पतिरूवाच ॥ लभते परमं ज्ञानंयतपरैरपि दुर्लभम्। प्राप्नोति पुरुषो नित्यंमहामाया प्रसादतः॥7॥ ॥ सरस्वत्युवाच ॥ त्रिसन्ध्यं प्रयतो नित्यंपठेदष्टकमुत्तमम्। तस्य कण्ठे सदा वासंकरिष्यामि न संशयः॥8॥ ॥ इति श्रीपद्मपुराणे सरस्वती अष्टकम् सम्पूर्णम् ॥

    Shri Bhavani Ashtakam (श्री भवानी अष्टकम्) न तातो न माता न बन्धुर्न दाता

    श्री भवानी अष्टकम् (Shri Bhavani Ashtakam) ॥ श्री भवान्यष्टकम् ॥ न तातो न माता न बन्धुर्न दातान पुत्रो न पुत्री न भृत्यो न भर्ता। न जाया न विद्या न वृत्तिर्ममैवगतिस्त्वं गतिस्त्वं त्वमेका भवानि॥1॥ भवाब्धावपारे महादुःखभीरुःपपात प्रकामी प्रलोभी प्रमत्तः। कुसंसारपाशप्रबद्धः सदाहंगतिस्त्वं गतिस्त्वं त्वमेका भवानि॥2॥ न जानामि दानं न च ध्यानयोगंन जानामि तन्त्रं न च स्तोत्रमन्त्रम्। न जानामि पूजां न च न्यासयोगम्गतिस्त्वं गतिस्त्वं त्वमेका भवानि॥3॥ न जानामि पुण्यं न जानामि तीर्थंन जानामि मुक्ति लयं वा कदाचित्। न जानामि भक्ति व्रतं वापिमातर्गतिस्त्वं गतिस्त्वं त्वमेका भवानि॥4॥ कुकर्मी कुसङ्गी कुबुद्धिः कुदासःकुलाचारहीनः कदाचारलीनः। कुदृष्टि: कुवाक्यप्रबन्धः सदाहम्गतिस्त्वं गतिस्त्वं त्वमेका भवानि॥5॥ प्रजेशं रमेशं महेशं सुरेशंदिनेशं निशीथेश्वरं वा कदाचित्। न जानामि चान्यत् सदाहं शरण्येगतिस्त्वं गतिस्त्वं त्वमेका भवानि॥6॥ विवादे विषादे प्रमादे प्रवासेजले चानले पर्वते शत्रुमध्ये। अरण्ये शरण्ये सदा मां प्रपाहिगतिस्त्वं गतिस्त्वं त्वमेका भवानि॥7॥ अनाथो दरिद्रो जरारोगयुक्तोमहाक्षीणदीनः सदा जाड्यवक्त्रः। विपत्तौ प्रविष्टः प्रणष्ट: सदाहंगतिस्त्वं गतिस्त्वं त्वमेका भवानि॥8॥ ॥ इति श्रीमच्छङ्कराचार्यकृतं भवान्यष्टकं सम्पूर्णम् ॥ Shri Bhavani Ashtakam

    Shri Kalika Ashtakam (श्री कालिका अष्टकम्) गलद्रक्तमुण्डावलीकण्ठमाला

    श्री कालिका अष्टकम् (Shri Kalika Ashtakam) ॥ श्री कालिकाष्टकम् ॥ गलद्रक्तमुण्डावलीकण्ठमालामहोघोररावा सुदंष्ट्रा कराला। विवस्त्रा श्मशानालया मुक्तकेशीमहाकालकामाकुला कालिकेयम्॥1॥ भुजे वामयुग्मे शिरोऽसिं दधानावरं दक्षयुग्मेऽभयं वै तथैव। सुमध्याऽपि तुङ्गस्तनाभारनम्रालसद्रक्तसृक्कद्वया सुस्मितास्या॥2॥ शवद्वन्द्वकर्णावतंसा सुकेशीलसत्प्रेतपाणिं प्रयुक्तैककाञ्ची। शवाकारमञ्चाधिरूढा शिवाभिश्-चतुर्दिक्षुशब्दायमानाऽभिरेजे॥3॥ विरञ्च्यादिदेवास्त्रयस्ते गुणांस्त्रीन्समाराध्य कालीं प्रधाना बभूबुः। अनादिं सुरादिं मखादिं भवादिंस्वरूपं त्वदीयं न विन्दन्ति देवाः॥4॥ जगन्मोहनीयं तु वाग्वादिनीयंसुहृत्पोषिणीशत्रुसंहारणीयम्। वचस्तम्भनीयं किमुच्चाटनीयंस्वरूपं त्वदीयं न विन्दन्ति देवाः॥5॥ इयं स्वर्गदात्री पुनः कल्पवल्लीमनोजांस्तु कामान् यथार्थं प्रकुर्यात्। तथा ते कृतार्था भवन्तीति नित्यं-स्वरूपं त्वदीयं न विन्दन्ति देवाः॥6॥ सुरापानमत्ता सुभक्तानुरक्तालसत्पूतचित्ते सदाविर्भवत्ते। जपध्यानपूजासुधाधौतपङ्कास्वरूपं त्वदीयं न विन्दन्ति देवाः॥7॥ चिदानन्दकन्दं हसन् मन्दमन्दंशरच्चन्द्रकोटिप्रभापुञ्जबिम्बम्। मुनीनां कवीनां हृदि द्योतयन्तंस्वरूपं त्वदीयं न विन्दन्ति देवाः॥8॥ महामेघकाली सुरक्तापि शुभ्राकदाचिद् विचित्राकृतिर्योगमाया। न बाला न वृद्धा न कामातुरापिस्वरूपं त्वदीयं न विन्दन्ति देवाः॥9॥ क्षमस्वापराधं महागुप्तभावं मयालोकमध्ये प्रकाशिकृतं यत्। तव ध्यानपूतेन चापल्यभावात्स्वरूपं त्वदीयं न विन्दन्ति देवाः॥10॥ यदि ध्यानयुक्तं पठेद् यो मनुष्यस्तदासर्वलोके विशालो भवेच्च। गृहे चाष्टसिद्धिर्मृते चापि मुक्तिःस्वरूपं त्वदीयं न विन्दन्ति देवाः॥11॥ ॥ इति श्रीमच्छङ्कराचार्यविरचितं श्रीकालिकाष्टकं सम्पूर्णम् ॥

    Shri Amarnath Ashtakam (श्री अमरनाथाष्टकम्)

    || श्री अमरनाथाष्टकम् || (Shri Amarnath Ashtakam) भागीरथीसलिलसान्द्रजटाकलापम् शीतांशुकान्ति-रमणीय-विशाल-भालम् । कर्पूरदुग्धहिमहंसनिभं स्वतोजम् नित्यं भजाम्यऽमरनाथमहं दयालुम् ॥ गौरीपतिं पशुपतिं वरदं त्रिनेत्रम् भूताधिपं सकललोकपतिं सुरेशम् । शार्दूलचर्मचितिभस्मविभूषिताङ्गम् नित्यं भजाम्यऽमरनाथमहं दयालुम् ॥ गन्धर्वयक्षरसुरकिन्नर-सिद्धसङ्घैः संस्तूयमानमनिशं श्रुतिपूतमन्त्रैः । सर्वत्रसर्वहृदयैकनिवासिनं तम् नित्यं भजाम्यऽमरनाथमहं दयालुम् ॥ व्योमानिलानलजलावनिसोमसूर्य होत्रीभिरष्टतनुभिर्जगदेकनाथः । यस्तिष्ठतीह जनमङ्गलधारणाय तं प्रार्थयाम्यऽमरनाथमहं दयालुम् ॥ शैलेन्द्रतुङ्गशिखरे गिरिजासमेतम् प्रालेयदुर्गमगुहासु सदा वसन्तम् । श्रीमद्गजाननविराजित दक्षिणाङ्कम् नित्यं भजाम्यऽमरनाथमहं दयालुम् ॥ वाग्बुद्धिचित्तकरणैश्च तपोभिरुग्रैः शक्यं समाकलयितुं न यदीयरूपम् । तं भक्तिभावसुलभं शरणं नतानाम् नित्य भजाम्यऽमरनाथमहं दयालुम् ॥ आद्यन्तहीनमखिलाधिपतिं गिरीशम् भक्तप्रियं हितकरं प्रभुमद्वयैकम् । सृष्टिस्थितिप्रलयलीलमनन्तशक्तिम् नित्यं भजाम्यऽमरनाथमहं दयालुम् ॥ हे पार्वतीश वृषभध्वज शूलपाणे हे नीलकण्ठ मदनान्तक शुभ्रमूर्ते । हे भक्तकल्पतरुरूप सुखैकसिन्धो मां पाहि पाहि भवतोऽमरनाथ नित्यम् ॥ इति स्वामी वरदानन्दभारतीविरचितं श्रीअमरनाथाष्टकं सम्पूर्णम् ।

    Tripurasundari Ashtakam (त्रिपुरसुंदरी अष्टकम)

    || त्रिपुरसुंदरी अष्टकम || (Tripurasundari Ashtakam) कदम्बवनचारिणीं मुनिकदम्बकादम्बिनीं नितम्बजितभूधरां सुरनितम्बिनीसेविताम्। नवाम्बुरुहलोचनामभिनवाम्बुदश्यामलां त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये। कदम्बवनवासिनीं कनकवल्लकीधारिणीं महार्हमणिहारिणीं मुखसमुल्लसद्वारुणीम्। दयाविभवकारिणीं विशदरोचनाचारिणीं त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये। कदम्बवनशालया कुचभरोल्लसन्मालया कुचोपमितशैलया गुरुकृपलसद्वेलया। मदारुणकपोलया मधुरगीतवाचालया कयापि घनलीलया कवचिता वयं लीलया। कदम्बवनमध्यगां कनकमण्डलोपस्थितां षडम्बुरुवासिनीं सततसिद्धसौदामिनीम्। विडम्बितजपारुचिं विकचचन्द्रचूडामणिं त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये। कुचाञ्चितविपञ्चिकां कुटिलकुन्तलालङ्कृतां कुशेशयनिवासिनीं कुटिलचित्तविद्वेषिणीम्। मदारुणविलोचनां मनसिजारिसम्मोहिनीं मतङ्गमुनिकन्यकां मधुरभाषिणीमाश्रये। स्मरेत्प्रथमपुष्पिणीं रुधिरबिन्दुनीलाम्बरां गृहीतमधुपात्रिकां मदविघूर्णनेत्राञ्चलाम्। घनस्तनभरोन्नतां गलितचूलिकां श्यामलां त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये। सकुङ्कुमविलेपनामलिकचुम्बिकस्तूरिकां समन्दहसितेक्षणां सशरचापपाशाङ्कुशाम्। अशेषजनमोहिनीमरुणमाल्यभूषाम्बरां जपाकुसुरभासुरां जपविधौ स्मराम्यम्बिकाम्। पुरन्दरपुरन्ध्रिकां चिकुरबन्धसैरन्ध्रिकां पितामहपतिव्रतापटुपटीरचर्चारताम्। मुकुन्दरमणीमणीलसदलङ्क्रियाकारिणीं भजामि भुवनम्बिकां सुरवधूटिकाचेटिकाम्।

    Shri Raghunathashtakam (श्री रघुनाथाष्टकम्)

    || श्री रघुनाथाष्टकम् || (Shri Raghunathashtakam) श्री गणेशाय नमः । शुनासीराधीशैरवनितलज्ञप्तीडितगुणं प्रकृत्याऽजं जातं तपनकुलचण्डांशुमपरम् । सिते वृद्धिं ताराधिपतिमिव यन्तं निजगृहे ससीतं सानन्दं प्रणत रघुनाथं सुरनुतम् ॥ १॥ निहन्तारं शैवं धनुरिव इवेक्षुं नृपगणे पथि ज्याकृष्टेन प्रबलभृगुवर्यस्य शमनम् । विहारं गार्हस्थ्यं तदनु भजमानं सुविमलं ससीतं सानन्दं प्रणत रघुनाथं सुरनुतम् ॥ २॥ गुरोराज्ञां नीत्वा वनमनुगतं दारसहितं ससौमित्रिं त्यक्त्वेप्सितमपि सुराणां नृपसुखम् । विरुपाद्राक्षस्याः प्रियविरहसन्तापमनसं ससीतं सानन्दं प्रणत रघुनाथं सुरनुतम् ॥ ३॥ विराधं स्वर्नीत्वा तदनु च कबन्धं सुररिपुं गतं पम्पातीरे पवनसुतसम्मेलनसुखम् । गतं किष्किन्धायां विदितगुणसुग्रीवसचिवं ससीतं सानन्दं प्रणत रघुनाथं सुरनुतम् ॥ ४॥ प्रियाप्रेक्षोत्कण्ठं जलनिधिगतं वानरयुतं जले सेतुं बद्ध्वाऽसुरकुल निहन्तारमनघम् । विशुद्धामर्धाङ्गीं हुतभुजि समीक्षन्तमचलं ससीतं सानन्दं प्रणत रघुनाथं सुरनुतम् ॥ ५॥ विमानं चारुह्याऽनुजजनकजासेवितपद मयोध्यायां गत्वा नृपपदमवाप्तारमजरम् । सुयज्ञैस्तृप्तारं निजमुखसुरान् शान्तमनसं ससीतं सानन्दं प्रणत रघुनाथं सुरनुतम् ॥ ६॥ प्रजां संस्थातारं विहितनिजधर्मे श्रुतिपथं सदाचारं वेदोदितमपि च कर्तारमखिलम् । नृषु प्रेमोद्रेकं निखिलमनुजानां हितकरं सतीतं सानन्दं प्रणत रघुनाथं सुरनुतम् ॥ ७॥ तमः कीर्त्याशेषाः श्रवणगदनाभ्यां द्विजमुखास्तरिष्यन्ति ज्ञात्वा जगति खलु गन्तारमजनम् ॥ अतस्तां संस्थाप्य स्वपुरमनुनेतारमखिलं ससीतं सानन्दं प्रणत रघुनाथं सुरनुतम् ॥ ८॥ रघुनाथाष्टकं हृद्यं रघुनाथेन निर्मितम् । पठतां पापराशिघ्नं भुक्तिमुक्तिप्रदायकम् ॥ ९॥ ॥ इति पण्डित श्रीशिवदत्तमिश्रशास्त्रि विरचितं श्रीरघुनाथाष्टकं सम्पूर्णम् ॥

    Bilva Ashtakam (बिल्वाअष्टकम्)

    || बिल्वाअष्टकम्|| (Bilva Ashtakam) त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधम् । त्रिजन्मपापसंहारं एकबिल्वं शिवार्पणम् ॥ त्रिशाखैः बिल्वपत्रैश्च ह्यच्छिद्रैः कोमलैः शुभैः । शिवपूजां करिष्यामि ह्येकबिल्वं शिवार्पणम् ॥ अखण्ड बिल्व पत्रेण पूजिते नन्दिकेश्वरे । शुद्ध्यन्ति सर्वपापेभ्यो ह्येकबिल्वं शिवार्पणम् ॥ शालिग्राम शिलामेकां विप्राणां जातु चार्पयेत् । सोमयज्ञ महापुण्यं एकबिल्वं शिवार्पणम् ॥ दन्तिकोटि सहस्राणि वाजपेय शतानि च । कोटिकन्या महादानं एकबिल्वं शिवार्पणम् ॥ लक्ष्म्यास्तनुत उत्पन्नं महादेवस्य च प्रियम् । बिल्ववृक्षं प्रयच्छामि ह्येकबिल्वं शिवार्पणम् ॥ दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम् । अघोरपापसंहारं एकबिल्वं शिवार्पणम् ॥ काशीक्षेत्रनिवासं च कालभैरवदर्शनम् । प्रयागमाधवं दृष्ट्वा ह्येकबिल्वं शिवार्पणम् ॥ मूलतो ब्रह्मरूपाय मध्यतो विष्णुरूपिणे । अग्रतः शिवरूपाय ह्येकबिल्वं शिवार्पणम् ॥ बिल्वाष्टकमिदं पुण्यं यः पठेत् शिवसन्निधौ । सर्वपाप विनिर्मुक्तः शिवलोकमवाप्नुयात् ॥ ॥ इति बिल्वाष्टकम् ॥

    Parvativallabh Neelkanthashtakam (पार्वतीवल्लभ नीलकण्ठाष्टकम्)

    ॥ पार्वतीवल्लभ नीलकण्ठाष्टकम् ॥ (Parvativallabh Neelkanthashtakam) नमो भूतनाथं नमो देवदेवं नमः कालकालं नमो दिव्यतेजः । नमः कामभस्मं नमश्शान्तशीलं भजे पार्वतीवल्लभं नीलकण्ठम् ॥ १॥ सदा तीर्थसिद्धं सदा भक्तरक्षं सदा शैवपूज्यं सदा शुभ्रभस्मम् । सदा ध्यानयुक्तं सदा ज्ञानतल्पं भजे पार्वतीवल्लभं नीलकण्ठम् ॥ २॥ श्मशाने शयानं महास्थानवासं शरीरं गजानं सदा चर्मवेष्टम् । पिशाचादिनाथं पशूनां प्रतिष्ठं भजे पार्वतीवल्लभं नीलकण्ठम् ॥ ३॥ फणीनागकण्ठे भुजङ्गाद्यनेकं गले रुण्डमालं महावीर शूरम् । कटिव्याघ्रचर्मं चिताभस्मलेपं भजे पार्वतीवल्लभं नीलकण्ठम् ॥ ४॥ शिरश्शुद्धगङ्गा शिवावामभागं बृहद्दीर्घकेशं सदा मां त्रिनेत्रम् । फणीनागकर्णं सदा भालचन्द्रं भजे पार्वतीवल्लभं नीलकण्ठम् ॥ ५॥ करे शूलधारं महाकष्टनाशं सुरेशं परेशं महेशं जनेशम् । धनेशस्तुतेशं ध्वजेशं गिरीशं भजे पार्वतीवल्लभं नीलकण्ठम् ॥ ६॥ उदानं सुदासं सुकैलासवासं धरा निर्धरं संस्थितं ह्यादिदेवम् । अजं हेमकल्पद्रुमं कल्पसेव्यं भजे पार्वतीवल्लभं नीलकण्ठम् ॥ ७॥ मुनीनां वरेण्यं गुणं रूपवर्णं द्विजानं पठन्तं शिवं वेदशास्त्रम् । अहो दीनवत्सं कृपालुं शिवं तं भजे पार्वतीवल्लभं नीलकण्ठम् ॥ ८॥ सदा भावनाथं सदा सेव्यमानं सदा भक्तिदेवं सदा पूज्यमानम् । मया तीर्थवासं सदा सेव्यमेकं भजे पार्वतीवल्लभं नीलकण्ठम् ॥ ९॥ इति पार्वतीवल्लभनीलकण्ठाष्टकं सम्पूर्णम् ।

    Shri Jagannathashtakam ( श्री जगन्नाथाष्टकम्)

    ॥ श्री जगन्नाथाष्टकम् ॥ (Shri Jagannathashtakam) कदाचित्कालिन्दी तटविपिनसंगीत करबो मुदविरि नारीवदनकमलास्वादमधुपः रमाशम्भुब्रह्माऽमरपतिगणेशाऽर्चितपदो जगन्नाथस्वामी नयनपथगामी भवतु मे ॥ भुजे सव्ये वेणुं शिरसि शिखिपिञ्छं कटितटे दुकूलं नेत्रान्ते सहचरकटाक्षं विदधते सदा श्रीमद्बृन्दावनवसतिलीलापरिचयो जगन्नाथस्वामी नयनपथगामी भवतु मे ॥ महाम्भोधेस्तीरे कनकरुचिरे नीलशिखरे वसन्प्रासादान्तः सहजबलभद्रेण बलिना सुभद्रामध्यस्थः सकलसुरसेवावसरदो जगन्नाथस्वामी नयनपथगामी भवतु मे ॥ कृपापारावारः सजलजलदश्रेणिरुचिरो रमावाणीसोमस्फुरदमलपद्मोद्भवमुखैः सुरेन्द्रैराराध्यः श्रुतिगणशिखागीतचरितो जगन्नाथस्वामी नयनपथगामी भवतु मे ॥ रथारूढो गच्छन्पथि मिलितभूदेवपटलैः स्तुतिप्रादुर्भावं प्रतिपदमुपाकर्ण्य सदयः दयासिन्धुर्बन्धुः सकलजगतां सिन्धुसुतया जगन्नाथस्वामी नयनपथगामी भवतु मे ॥ परब्रह्मापीडः कुवलयदलोत्फुल्लनयनो निवासी नीलाद्रौ निहितचरणोऽनन्तशिरसि रसानन्दो राधासरसवपुरालिङ्गनसुखो जगन्नाथस्वामी नयनपथगामी भवतु मे ॥ न वै प्रार्थ्यं राज्यं न च कनकतां भोगविभवं न याचेऽहं रम्यां निखिलजनकाम्यां वरवधूम् सदा काले काले प्रमथपतिना गीतचरितो जगन्नाथस्वामी नयनपथगामी भवतु मे ॥ हर त्वं संसारं द्रुततरमसारं सुरपते हर त्वं पापानां विततिमपरां यादवपते अहो दीनानाथं निहितमचलं निश्चितपदं जगन्नाथस्वामी नयनपथगामी भवतु मे ॥ ॥ इति श्री जगन्नाथाष्टकम् ॥

    Shri Radhakund Ashtakam (श्री राधाकुण्ड अष्टकम)

    ॥श्री राधाकुण्ड अष्टकम॥ (Shri Radhakund Ashtakam) वृषभदनुजनाशात् नर्मधर्मोक्तिरङ्गैः, निखिलनिजतनूभिर्यत्स्वहस्तेन पूर्णम् । प्रकटितमपि वृन्दारण्यराज्ञा प्रमोदैः, तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ व्रजभुवि मुरशत्रोः प्रेयसीनां निकामैः, असुलभमपि तूर्णं प्रेमकल्पद्रुमं तम् । जनयति हृदि भूमौ स्नातुरुच्चैः प्रियं यत्, तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ अघरिपुरपि यत्नादत्र देव्याः प्रसाद-, प्रसरकृतकटाक्षप्राप्तिकामः प्रकामम् । अनुसरति यदुच्चैः स्नानसेवानुबन्धैः, तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ व्रजभुवनसुधांशोः प्रेमभूमिर्निकामं, व्रजमधुरकिशोरीमौलिरत्नप्रियेव । परिचितमपि नाम्ना यच्च तेनैव तस्याः, तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ अपि जन इह कश्चिद्यस्य सेवाप्रसादैः, प्रणयसुरलता स्यात्तस्य गोष्ठेन्द्रसूनोः । सपदि किल मदीशा दास्यपुष्पप्रशस्या, तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ ततमधुरनिकुञ्जाः क्लृप्तनामान उच्चैः, निजपरिजनवर्गैः संविभज्याश्रितास्तैः । मधुकररुतरम्या यस्य राजन्ति काम्याः, तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ ततभुवि वरवेद्यं यस्य नर्मातिहृद्यं, मधुरमधुरवार्तां गोष्ठचन्द्रस्य भङ्ग्या । प्रथयितुमित ईशप्राणसख्यालिभिः सा, तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ अनुदिनमतिरङ्गैः प्रेममत्तालिसङ्घैः, वरसरसिजगन्धैः हारिवारिप्रपूर्णे । विहरत इह यस्मन् दम्पती तौ प्रमत्तौ, तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ । इति राधाकुण्डाष्टकं समाप्तम् ।

    Shri Radhika Dhipashtakam (श्री राधिका धिपाष्टकम्)

    ॥श्री राधिका धिपाष्टकम्॥ (Shri Radhika Dhipashtakam) चतुर्मुखादिसंस्तुतं समस्तसात्वतानुतम् हलायुधादिसंयुतं नमामि राधिकाधिपम् ॥ बकादिदैत्यकालकं सगोपगोपिपालकम् मनोहरासितालकं नमामि राधिकाधिपम् ॥ सुरेन्द्रगर्वभञ्जनं विरञ्चिमोहभञ्जनम् व्रजाङ्गनानुरञ्जनं नमामि राधिकाधिपम् ॥ मयूरपिच्छमण्डनं गजेन्द्रदन्तखण्डनम् नृशंसकंसदण्डनं नमामि राधिकाधिपम् ॥ प्रदत्तविप्रदारकं सुदामधामकारकम् सुरद्रुमापहारकं नमामि राधिकाधिपम् ॥ धनञ्जयजयावहं महाचमूक्षयावहम् पितामहव्यथापहं नमामि राधिकाधिपम् ॥ मुनीन्द्रशापकारणं यदुप्रजापहारणम् धराभरावतारणं नमामि राधिकाधिपम् ॥ सुवृक्षमूलशायिनं मृगारिमोक्षदायिनम् स्वकीयधाममायिनं नमामि राधिकाधिपम् ॥ इदं समाहितो हितं वराष्टकं सदा मुदा जपञ्जनो जनुर्जरादितो द्रुतं प्रमुच्यते ॥

    Shri Vaidyanath Ashtakam (श्री वैद्यनाथ अष्टकम)

    || श्री वैद्यनाथ अष्टकम || (Shri Vaidyanath Ashtakam) श्री राम सौमित्रिजटायुवेद षडाननादित्य कुजार्चिताय । श्रीनीलकण्ठाय दयामयाय श्री वैद्यनाथाय नमः शिवाय ॥ गङ्गाप्रवाहेन्दु जटाधराय त्रिलोचनाय स्मर कालहन्त्रे । समस्त देवैरभिपूजिताय श्री वैद्यनाथाय नमः शिवाय ॥ भक्तप्रियाय त्रिपुरान्तकाय पिनाकिने दुष्टहराय नित्यम् । प्रत्यक्षलीलाय मनुष्यलोके श्री वैद्यनाथाय नमः शिवाय ॥ प्रभूतवातादि समस्तरोग- प्रणाशकर्त्रे मुनिवन्दिताय । प्रभाकरेन्द्वग्निविलोचनाय श्री वैद्यनाथाय नमः शिवाय ॥ वाक्ष्रोत्रनेत्राङ्घ्रि विहीनजन्तोः वाक्ष्रोत्रनेत्राङ्घ्रि सुखप्रदाय । कुष्ठादिसर्वोन्नतरोगहन्त्रे श्री वैद्यनाथाय नमः शिवाय ॥ वेदान्तवेद्याय जगन्मयाय योगीश्वरध्येयपदाम्बुजाय । त्रिमूर्तिरूपाय सहस्रनाम्ने श्री वैद्यनाथाय नमः शिवाय ॥ स्वतीर्थमृद्भस्मभृताङ्गभाजां पिशाचदुःखार्तिभयापहाय । आत्मस्वरूपाय शरीरभाजां श्री वैद्यनाथाय नमः शिवाय ॥ श्रीनीलकण्ठाय वृषध्वजाय स्रक्गन्धभस्माद्यभिशोभिताय । सुपुत्रदारादि सुभाग्यदाय श्री वैद्यनाथाय नमः शिवाय ॥ || फलस्तुति || बालाम्बिकेश वैद्येश भवरोगहरेति च । जपेन्नामत्रयं नित्यं महारोगनिवारणम् ॥ | इति श्री वैद्यनाथाष्टकम सम्पूर्णं ।

    Shri Gauri Ashtakam (श्री गौरीअष्टकम्)

    ॥ श्री गौरीअष्टकम् ॥ (Shri Gauri Ashtakam) भज गौरीशं भज गौरीशंगौरीशं भज मन्दमते। जलभवदुस्तरजलधिसुतरणंध्येयं चित्ते शिवहरचरणम्। अन्योपायं न हि न हि सत्यंगेयं शङ्कर शङ्कर नित्यम्। भज गौरीशं भज गौरीशंगौरीशं भज मन्दमते॥ दारापत्यं क्षेत्रं वित्तंदेहं गेहं सर्वमनित्यम्। इति परिभावय सर्वमसारंगर्भविकृत्या स्वप्नविचारम्। भज गौरीशं भज गौरीशंगौरीशं भज मन्दमते॥ मलवैचित्ये पुनरावृत्ति:पुनरपि जननीजठरोत्पत्ति:। पुनरप्याशाकुलितं जठरं किंनहि मुञ्चसि कथयेश्चित्तम्। भज गौरीशं भज गौरीशंगौरीशं भज मन्दमते॥ मायाकल्पितमैन्द्रं जालं नहि तत्सत्यं दृष्टिविकारम्। ज्ञाते तत्त्वे सर्वमसारं माकुरु मा कुरु विषयविचारम्। भज गौरीशं भज गौरीशंगौरीशं भज मन्दमते॥ रज्जौ सर्पभ्रमणा-रोपस्तद्वद्ब्रह्मणि जगदारोप:। मिथ्यामायामोहविकारंमनसि विचारय बारम्बारम्। भज गौरीशं भज गौरीशंगौरीशं भज मन्दमते॥ अध्वरकोटीगङ्गागमनं कुरुतेयोगं चेन्द्रियदमनम्। ज्ञानविहीन: सर्वमतेन नभवति मुक्तो जन्मशतेन। भज गौरीशं भज गौरीशंगौरीशं भज मन्दमते॥ सोऽहं हंसो ब्रह्मैवाहंशुद्धानन्दस्तत्त्वपरोऽहम्। अद्वैतोऽहं सङ्गविहीनेचेन्द्रिय आत्मनि निखिले लीने। भज गौरीशं भज गौरीशंगौरीशं भज मन्दमते॥ शङ्करकिंङ्कर मा कुरु चिन्तांचिंतामणिना विरचितमेतत्। य: सद्भक्त्या पठति हि नित्यंब्रह्मणि लीनो भवति हि सत्यम्। भज गौरीशं भज गौरीशंगौरीशं भज मन्दमते॥ ॥ इति गौरीशाष्टकं सम्पूर्णम् ॥

    Shri Radhashtakam (श्रीराधाष्टकम्)

    ॥ श्रीराधाष्टकम् ॥ (Shri Radhashtakam) ॐ दिशिदिशिरचयन्तीं सञ्चयन्नेत्रलक्ष्मीं, विलसितखुरलीभिः खञ्जरीटस्य खेलाम् । हृदयमधुपमल्लीं वल्लवाधीशसूनो-, रखिलगुणगभीरां राधिकामर्चयामि ॥ पितुरिह वृषभानो रत्नवायप्रशस्तिं, जगति किल सयस्ते सुष्ठु विस्तारयन्तीम् । व्रजनृपतिकुमारं खेलयन्तीं सखीभिः, सुरभिनि निजकुण्डे राधिकामर्चयामि ॥ शरदुपचितराकाकौमुदीनाथकीर्त्ति-, प्रकरदमनदीक्षादक्षिणस्मेरवक्त्राम् । नटयदभिदपाङ्गोत्तुङ्गितानं गरङ्गां, वलितरुचिररङ्गां राधिकामर्चयामि ॥ विविधकुसुमवृन्दोत्फुल्लधम्मिल्लधाटी-, विघटितमदघृर्णात्केकिपिच्छुप्रशस्तिम् । मधुरिपुमुखबिम्बोद्गीर्णताम्बूलराग-, स्फुरदमलकपोलां राधिकामर्चयामि ॥ नलिनवदमलान्तःस्नेहसिक्तां तरङ्गा-, मखिलविधिविशाखासख्यविख्यातशीलाम् । स्फुरदघभिदनर्घप्रेममाणिक्यपेटीं, धृतमधुरविनोदां राधिकामर्चयामि ॥ अतुलमहसिवृन्दारण्यराज्येभिषिक्तां, निखिलसमयभर्तुः कार्तिकस्याधिदेवीम् । अपरिमितमुकुन्दप्रेयसीवृन्दमुख्यां, जगदघहरकीर्तिं राधिकामर्चयामि ॥ हरिपदनखकोटीपृष्ठपर्यन्तसीमा-, तटमपि कलयन्तीं प्राणकोटेरभीष्टम् । प्रमुदितमदिराक्षीवृन्दवैदग्ध्यदीक्षा-, गुरुमपि गुरुकीर्तिं राधिकामर्चयामि ॥ अमलकनकपट्टीदृष्टकाश्मीरगौरीं, मधुरिमलहरीभिः सम्परीतां किशोरीम् । हरिभुजपरिरब्ध्वां लघ्वरोमाञ्चपालीं, स्फुरदरुणदुकूलां राधिकामर्चयामि ॥ तदमलमधुरिम्णां काममाधाररूपं, परिपठति वरिष्ठं सुष्ठु राधाष्टकं यः । अहिमकिरणपुत्रीकूलकल्याणचन्द्रः, स्फुटमखिलमभीष्टं तस्य तुष्टस्तनोति ॥ ॥ इति श्रीराधाष्टकं सम्पूर्णम् ॥

    Shri Kaal Bhairav Ashtakam (श्री कालभैरवअष्टकम्)

    || श्री कालभैरवअष्टकम् || (Shri Kaal Bhairav Ashtakam) देवराजसेव्यमानपावनांघ्रिपङ्कजं व्यालयज्ञसूत्रमिन्दुशेखरं कृपाकरम् । नारदादियोगिवृन्दवन्दितं दिगंबरं काशिकापुराधिनाथकालभैरवं भजे ॥ भानुकोटिभास्वरं भवाब्धितारकं परं नीलकण्ठमीप्सितार्थदायकं त्रिलोचनम् । कालकालमंबुजाक्षमक्षशूलमक्षरं काशिकापुराधिनाथकालभैरवं भजे ॥ शूलटंकपाशदण्डपाणिमादिकारणं श्यामकायमादिदेवमक्षरं निरामयम् । भीमविक्रमं प्रभुं विचित्रताण्डवप्रियं काशिकापुराधिनाथकालभैरवं भजे ॥ भुक्तिमुक्तिदायकं प्रशस्तचारुविग्रहं भक्तवत्सलं स्थितं समस्तलोकविग्रहम् । विनिक्वणन्मनोज्ञहेमकिङ्किणीलसत्कटिं काशिकापुराधिनाथकालभैरवं भजे॥ धर्मसेतुपालकं त्वधर्ममार्गनाशनं कर्मपाशमोचकं सुशर्मधायकं विभुम् । स्वर्णवर्णशेषपाशशोभितांगमण्डलं काशिकापुराधिनाथकालभैरवं भजे ॥ रत्नपादुकाप्रभाभिरामपादयुग्मकं नित्यमद्वितीयमिष्टदैवतं निरंजनम् । मृत्युदर्पनाशनं करालदंष्ट्रमोक्षणं काशिकापुराधिनाथकालभैरवं भजे ॥ अट्टहासभिन्नपद्मजाण्डकोशसंततिं दृष्टिपात्तनष्टपापजालमुग्रशासनम् । अष्टसिद्धिदायकं कपालमालिकाधरं काशिकापुराधिनाथकालभैरवं भजे ॥ भूतसंघनायकं विशालकीर्तिदायकं काशिवासलोकपुण्यपापशोधकं विभुम् । नीतिमार्गकोविदं पुरातनं जगत्पतिं काशिकापुराधिनाथकालभैरवं भजे ॥ ॥ फल श्रुति॥ कालभैरवाष्टकं पठंति ये मनोहरं ज्ञानमुक्तिसाधनं विचित्रपुण्यवर्धनम् । शोकमोहदैन्यलोभकोपतापनाशनं प्रयान्ति कालभैरवांघ्रिसन्निधिं नरा ध्रुवम् ॥ ॥इति कालभैरवाष्टकम् संपूर्णम् ॥

    Totakashtakam (तोटकाष्टकम्)

    तोटकाष्टकम् (Totakashtakam) विदिताखिल शास्त्र सुधा जलधे महितोपनिषत्-कथितार्थ निधे । हृदये कलये विमलं चरणं भव शंकर देशिक मे शरणम् ॥ 1 ॥ करुणा वरुणालय पालय मां भवसागर दुःख विदून हृदम् । रचयाखिल दर्शन तत्त्वविदं भव शंकर देशिक मे शरणम् ॥ 2 ॥ भवता जनता सुहिता भविता निजबोध विचारण चारुमते । कलयेश्वर जीव विवेक विदं भव शंकर देशिक मे शरणम् ॥ 3 ॥ भव ऎव भवानिति मॆ नितरां समजायत चेतसि कौतुकिता । मम वारय मोह महाजलधिं भव शंकर देशिक मे शरणम् ॥ 4 ॥ सुकृतेऽधिकृते बहुधा भवतो भविता समदर्शन लालसता । अति दीनमिमं परिपालय मां भव शंकर देशिक मे शरणम् ॥ 5 ॥ जगतीमवितुं कलिताकृतयो विचरंति महामाह सच्छलतः । अहिमांशुरिवात्र विभासि गुरो भव शंकर देशिक मे शरणम् ॥ 6 ॥ गुरुपुंगव पुंगवकेतन ते समतामयतां न हि कोऽपि सुधीः । शरणागत वत्सल तत्त्वनिधे भव शंकर देशिक मे शरणम् ॥ 7 ॥ विदिता न मया विशदैक कला न च किंचन कांचनमस्ति गुरो । दृतमेव विधेहि कृपां सहजां भव शंकर देशिक मे शरणम् ॥ 8 ॥

    Kashi Vishwanathashtakam (काशी विश्वनाथाष्टकम्)

    काशी विश्वनाथाष्टकम् (Kashi Vishwanathashtakam) गंगा तरंग रमणीय जटा कलापं गौरी निरंतर विभूषित वाम भागं नारायण प्रियमनंग मदापहारं वाराणसी पुरपतिं भज विश्वनाथम् ॥ 1 ॥ वाचामगोचरमनेक गुण स्वरूपं वागीश विष्णु सुर सेवित पाद पद्मं वामेण विग्रह वरेन कलत्रवंतं वाराणसी पुरपतिं भज विश्वनाथम् ॥ 2 ॥ भूतादिपं भुजग भूषण भूषितांगं व्याघ्रांजिनां बरधरं, जटिलं, त्रिनेत्रं पाशांकुशाभय वरप्रद शूलपाणिं वाराणसी पुरपतिं भज विश्वनाथम् ॥ 3 ॥ सीतांशु शोभित किरीट विराजमानं बालेक्षणातल विशोषित पंचबाणं नागाधिपा रचित बासुर कर्ण पूरं वाराणसी पुरपतिं भज विश्वनाथम् ॥ 4 ॥ पंचाननं दुरित मत्त मतंगजानां नागांतकं धनुज पुंगव पन्नागानां दावानलं मरण शोक जराटवीनां वाराणसी पुरपतिं भज विश्वनाथम् ॥ 5 ॥ तेजोमयं सगुण निर्गुणमद्वितीयं आनंद कंदमपराजित मप्रमेयं नागात्मकं सकल निष्कलमात्म रूपं वाराणसी पुरपतिं भज विश्वनाथम् ॥ 6 ॥ आशां विहाय परिहृत्य परश्य निंदां पापे रथिं च सुनिवार्य मनस्समाधौ आधाय हृत्-कमल मध्य गतं परेशं वाराणसी पुरपतिं भज विश्वनाथम् ॥ 7 ॥ रागाधि दोष रहितं स्वजनानुरागं वैराग्य शांति निलयं गिरिजा सहायं माधुर्य धैर्य सुभगं गरलाभिरामं वाराणसी पुरपतिं भज विश्वनाथम् ॥ 8 ॥ वाराणसी पुर पते स्थवनं शिवस्य व्याख्यातं अष्टकमिदं पठते मनुष्य विद्यां श्रियं विपुल सौख्यमनंत कीर्तिं संप्राप्य देव निलये लभते च मोक्षम् ॥ विश्वनाथाष्टकमिदं पुण्यं यः पठेः शिव सन्निधौ शिवलोकमवाप्नोति शिवेनसह मोदते ॥

    chandrashekharashtakam (चंद्रशेखराष्टकम्)

    चंद्रशेखराष्टकम् (chandrashekharashtakam) चंद्रशेखर चंद्रशेखर चंद्रशेखर पाहिमाम् । चंद्रशेखर चंद्रशेखर चंद्रशेखर रक्षमाम् ॥ रत्नसानु शरासनं रजताद्रि शृंग निकेतनं शिंजिनीकृत पन्नगेश्वर मच्युतानल सायकम् । क्षिप्रदग्द पुरत्रयं त्रिदशालयै-रभिवंदितं चंद्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥ 1 ॥ पंचपादप पुष्पगंध पदांबुज द्वयशोभितं फाललोचन जातपावक दग्ध मन्मध विग्रहम् । भस्मदिग्ध कलेबरं भवनाशनं भव मव्ययं चंद्रशेखर चंद्रशेखर चंद्रशेखर रक्षमाम् ॥ 2 ॥ मत्तवारण मुख्यचर्म कृतोत्तरीय मनोहरं पंकजासन पद्मलोचन पूजितांघ्रि सरोरुहम् । देव सिंधु तरंग श्रीकर सिक्त शुभ्र जटाधरं चंद्रशेखर चंद्रशेखर चंद्रशेखर पाहिमाम् ॥ 3 ॥ यक्ष राजसखं भगाक्ष हरं भुजंग विभूषणम् शैलराज सुता परिष्कृत चारुवाम कलेबरम् । क्षेल नीलगलं परश्वध धारिणं मृगधारिणम् चंद्रशेखर चंद्रशेखर चंद्रशेखर पाहिमाम् ॥ 4 ॥ कुंडलीकृत कुंडलीश्वर कुंडलं वृषवाहनं नारदादि मुनीश्वर स्तुतवैभवं भुवनेश्वरम् । अंधकांतक माश्रितामर पादपं शमनांतकं चंद्रशेखर चंद्रशेखर चंद्रशेखर रक्षमाम् ॥ 5 ॥ भेषजं भवरोगिणा मखिलापदा मपहारिणं दक्षयज्ञ विनाशनं त्रिगुणात्मकं त्रिविलोचनम् । भक्ति मुक्ति फलप्रदं सकलाघ संघ निबर्हणं चंद्रशेखर चंद्रशेखर चंद्रशेखर रक्षमाम् ॥ 6 ॥ भक्तवत्सल-मर्चितं निधिमक्षयं हरिदंबरं सर्वभूत पतिं परात्पर-मप्रमेय मनुत्तमम् । सोमवारिन भूहुताशन सोम पाद्यखिलाकृतिं चंद्रशेखर चंद्रशेखर चंद्रशेखर पाहिमाम् ॥ 7 ॥ विश्वसृष्टि विधायकं पुनरेवपालन तत्परं संहरं तमपि प्रपंच मशेषलोक निवासिनम् । क्रीडयंत महर्निशं गणनाथ यूथ समन्वितं चंद्रशेखर चंद्रशेखर चंद्रशेखर रक्षमाम् ॥ 8 ॥ मृत्युभीत मृकंडुसूनुकृतस्तवं शिवसन्निधौ यत्र कुत्र च यः पठेन्न हि तस्य मृत्युभयं भवेत् । पूर्णमायुररोगतामखिलार्थसंपदमादरं चंद्रशेखर एव तस्य ददाति मुक्तिमयत्नतः ॥ 9 ॥

    Shiva Mangalashtakam (शिव मंगलाष्टकम्)

    शिव मंगलाष्टकम् (Shiva Mangalashtakam) भवाय चंद्रचूडाय निर्गुणाय गुणात्मने । कालकालाय रुद्राय नीलग्रीवाय मंगलम् ॥ 1 ॥ वृषारूढाय भीमाय व्याघ्रचर्मांबराय च । पशूनांपतये तुभ्यं गौरीकांताय मंगलम् ॥ 2 ॥ भस्मोद्धूलितदेहाय नागयज्ञोपवीतिने । रुद्राक्षमालाभूषाय व्योमकेशाय मंगलम् ॥ 3 ॥ सूर्यचंद्राग्निनेत्राय नमः कैलासवासिने । सच्चिदानंदरूपाय प्रमथेशाय मंगलम् ॥ 4 ॥ मृत्युंजयाय सांबाय सृष्टिस्थित्यंतकारिणे । त्रयंबकाय शांताय त्रिलोकेशाय मंगलम् ॥ 5 ॥ गंगाधराय सोमाय नमो हरिहरात्मने । उग्राय त्रिपुरघ्नाय वामदेवाय मंगलम् ॥ 6 ॥ सद्योजाताय शर्वाय भव्य ज्ञानप्रदायिने । ईशानाय नमस्तुभ्यं पंचवक्राय मंगलम् ॥ 7 ॥ सदाशिव स्वरूपाय नमस्तत्पुरुषाय च । अघोराय च घोराय महादेवाय मंगलम् ॥ 8 ॥ महादेवस्य देवस्य यः पठेन्मंगलाष्टकम् । सर्वार्थ सिद्धि माप्नोति स सायुज्यं ततः परम् ॥ 9 ॥

    Acyutashtakam (अच्युताष्टकम्)

    अच्युताष्टकम् (Acyutashtakam) अच्युतं केशवं रामनारायणं कृष्णदामोदरं वासुदेवं हरिम् । श्रीधरं माधवं गोपिका वल्लभं जानकीनायकं रामचंद्रं भजे ॥ 1 ॥ अच्युतं केशवं सत्यभामाधवं माधवं श्रीधरं राधिका राधितम् । इंदिरामंदिरं चेतसा सुंदरं देवकीनंदनं नंदजं संदधे ॥ 2 ॥ विष्णवे जिष्णवे शंकने चक्रिणे रुक्मिणी रागिणे जानकी जानये । वल्लवी वल्लभायार्चिता यात्मने कंस विध्वंसिने वंशिने ते नमः ॥ 3 ॥ कृष्ण गोविंद हे राम नारायण श्रीपते वासुदेवाजित श्रीनिधे । अच्युतानंत हे माधवाधोक्षज द्वारकानायक द्रौपदीरक्षक ॥ 4 ॥ राक्षस क्षोभितः सीतया शोभितो दंडकारण्यभू पुण्यताकारणः । लक्ष्मणोनान्वितो वानरैः सेवितो अगस्त्य संपूजितो राघवः पातु माम् ॥ 5 ॥ धेनुकारिष्टकोऽनिष्टकृद्द्वेषिणां केशिहा कंसहृद्वण्शिकावादकः । पूतनाकोपकः सूरजाखेलनो बालगोपालकः पातु मां सर्वदा ॥ 6 ॥ विद्युदुद्योतवत्प्रस्फुरद्वाससं प्रावृडंभोदवत्प्रोल्लसद्विग्रहम् । वन्यया मालया शोभितोरःस्थलं लोहितांघ्रिद्वयं वारिजाक्षं भजे ॥ 7॥ कुंचितैः कुंतलै भ्राजमानाननं रत्नमौलिं लसत्-कुंडलं गंडयोः । हारकेयूरकं कंकण प्रोज्ज्वलं किंकिणी मंजुलं श्यामलं तं भजे ॥ 8 ॥ अच्युतस्याष्टकं यः पठेदिष्टदं प्रेमतः प्रत्यहं पूरुषः सस्पृहम् । वृत्ततः सुंदरं कर्तृ विश्वंभरः तस्य वश्यो हरि र्जायते सत्वरम् ॥ ॥ इति श्रीशंकराचार्यविरचितमच्युताष्टकं संपूर्णम् ॥

    Nanda Kumar Ashtkam (नंद कुमार अष्टकम्)

    नंद कुमार अष्टकम् (Nanda Kumar Ashtkam) सुंदरगोपालं उरवनमालं नयनविशालं दुःखहरं बृंदावनचंद्रमानंदकंदं परमानंदं धरणिधरम् । वल्लभघनश्यामं पूर्णकामं अत्यभिरामं प्रीतिकरं भज नंदकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ 1 ॥ सुंदरवारिजवदनं निर्जितमदनं आनंदसदनं मुकुटधरं गुंजाकृतिहारं विपिनविहारं परमोदारं चीरहरम् । वल्लभपटपीतं कृत उपवीतं करनवनीतं विबुधवरं भज नंदकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ 2 ॥ शोभितसुखमूलं यमुनाकूलं निपट अतूलं सुखदतरं मुखमंडितरेणुं चारितधेनुं वादितवेणुं मधुरसुरम् । वल्लभमतिविमलं शुभपदकमलं नखरुचि अमलं तिमिरहरं भज नंदकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ 3 ॥ शिरमुकुटसुदेशं कुंचितकेशं नटवरवेषं कामवरं मायाकृतमनुजं हलधर अनुजं प्रतिहतदनुजं भारहरम् । वल्लभव्रजपालं सुभगसुचालं हितमनुकालं भाववरं भज नंदकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ 4 ॥ इंदीवरभासं प्रकटसरासं कुसुमविकासं वंशधरं हृत्मन्मथमानं रूपनिधानं कृतकलगानं चित्तहरम् । वल्लभमृदुहासं कुंजनिवासं विविधविलासं केलिकरं भज नंदकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ 5 ॥ अतिपरमप्रवीणं पालितदीनं भक्ताधीनं कर्मकरं मोहनमतिधीरं फणिबलवीरं हतपरवीरं तरलतरम् । वल्लभव्रजरमणं वारिजवदनं हलधरशमनं शैलधरं भज नंदकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ 6 ॥ जलधरद्युतिअंगं ललितत्रिभंगं बहुकृतिरंगं रसिकवरं गोकुलपरिवारं मदनाकारं कुंजविहारं गूढतरम् । वल्लभव्रजचंद्रं सुभगसुछंदं कृत आनंदं भ्रांतिहरं भज नंदकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ 7 ॥ वंदितयुगचरणं पावनकरणं जगदुद्धरणं विमलधरं कालियशिरगमनं कृतफणिनमनं घातितयमनं मृदुलतरम् । वल्लभदुःखहरणं निर्मलचरणं अशरणशरणं मुक्तिकरं भज नंदकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ 8 ॥ इति श्रीमद्वल्लभाचार्यविरचितं श्रीनंदकुमाराष्टकम् ॥

    Panduranga Ashtkam (श्री पांडुरंग अष्टकम्)

    श्री पांडुरंग अष्टकम् (Panduranga Ashtkam) महायोगपीठे तटे भीमरथ्या वरं पुंडरीकाय दातुं मुनींद्रैः । समागत्य तिष्ठंतमानंदकंदं परब्रह्मलिंगं भजे पांडुरंगम् ॥ 1 ॥ तटिद्वाससं नीलमेघावभासं रमामंदिरं सुंदरं चित्प्रकाशम् । वरं त्विष्टकायां समन्यस्तपादं परब्रह्मलिंगं भजे पांडुरंगम् ॥ 2 ॥ प्रमाणं भवाब्धेरिदं मामकानां नितंबः कराभ्यां धृतो येन तस्मात् । विधातुर्वसत्यै धृतो नाभिकोशः परब्रह्मलिंगं भजे पांडुरंगम् ॥ 3 ॥ स्फुरत्कौस्तुभालंकृतं कंठदेशे श्रिया जुष्टकेयूरकं श्रीनिवासम् । शिवं शांतमीड्यं वरं लोकपालं परब्रह्मलिंगं भजे पांडुरंगम् ॥ 4 ॥ शरच्चंद्रबिंबाननं चारुहासं लसत्कुंडलाक्रांतगंडस्थलांतम् । जपारागबिंबाधरं कंजनेत्रं परब्रह्मलिंगं भजे पांडुरंगम् ॥ 5 ॥ किरीटोज्ज्वलत्सर्वदिक्प्रांतभागं सुरैरर्चितं दिव्यरत्नैरनर्घैः । त्रिभंगाकृतिं बर्हमाल्यावतंसं परब्रह्मलिंगं भजे पांडुरंगम् ॥ 6 ॥ विभुं वेणुनादं चरंतं दुरंतं स्वयं लीलया गोपवेषं दधानम् । गवां बृंदकानंददं चारुहासं परब्रह्मलिंगं भजे पांडुरंगम् ॥ 7 ॥ अजं रुक्मिणीप्राणसंजीवनं तं परं धाम कैवल्यमेकं तुरीयम् । प्रसन्नं प्रपन्नार्तिहं देवदेवं परब्रह्मलिंगं भजे पांडुरंगम् ॥ 8 ॥ स्तवं पांडुरंगस्य वै पुण्यदं ये पठंत्येकचित्तेन भक्त्या च नित्यम् । भवांभोनिधिं तेऽपि तीर्त्वांतकाले हरेरालयं शाश्वतं प्राप्नुवंति ॥ 9 ॥ इति श्रीमत्परमहंस परिव्राजकाचार्य श्रीमच्छंकरभगवत्पादाचार्य विरचितं श्री पांडुरंगाष्टकम् ।

    Venu Gopala Ashtakam (वेणु गोपाल अष्टकम्)

    वेणु गोपाल अष्टकम् (Venu Gopala Ashtakam) कलितकनकचेलं खंडितापत्कुचेलं गलधृतवनमालं गर्वितारातिकालम् । कलिमलहरशीलं कांतिधूतेंद्रनीलं विनमदवनशीलं वेणुगोपालमीडे ॥ 1 ॥ व्रजयुवतिविलोलं वंदनानंदलोलं करधृतगुरुशैलं कंजगर्भादिपालम् । अभिमतफलदानं श्रीजितामर्त्यसालं विनमदवनशीलं वेणुगोपालमीडे ॥ 2 ॥ घनतरकरुणाश्रीकल्पवल्ल्यालवालं कलशजलधिकन्यामोदकश्रीकपोलम् । प्लुषितविनतलोकानंतदुष्कर्मतूलं विनमदवनशीलं वेणुगोपालमीडे ॥ 3 ॥ शुभदसुगुणजालं सूरिलोकानुकूलं दितिजततिकरालं दिव्यदारायितेलम् । मृदुमधुरवचःश्री दूरितश्रीरसालं विनमदवनशीलं वेणुगोपालमीडे ॥ 4 ॥ मृगमदतिलकश्रीमेदुरस्वीयफालं जगदुदयलयस्थित्यात्मकात्मीयखेलम् । सकलमुनिजनालीमानसांतर्मरालं विनमदवनशीलं वेणुगोपालमीडे ॥ 5 ॥ असुरहरणखेलनं नंदकोत्क्षेपलीलं विलसितशरकालं विश्वपूर्णांतरालम् । शुचिरुचिरयशश्श्रीधिक्कृत श्रीमृणालं विनमदवनशीलं वेणुगोपालमीडे ॥ 6 ॥ स्वपरिचरणलब्ध श्रीधराशाधिपालं स्वमहिमलवलीलाजातविध्यंडगोलम् । गुरुतरभवदुःखानीक वाःपूरकूलं विनमदवनशीलं वेणुगोपालमीडे ॥ 7 ॥ चरणकमलशोभापालित श्रीप्रवालं सकलसुकृतिरक्षादक्षकारुण्य हेलम् । रुचिविजिततमालं रुक्मिणीपुण्यमूलं विनमदवनशीलं वेणुगोपालमीडे ॥ 8 ॥ श्रीवेणुगोपाल कृपालवालां श्रीरुक्मिणीलोलसुवर्णचेलाम् । कृतिं मम त्वं कृपया गृहीत्वा स्रजं यथा मां कुरु दुःखदूरम् ॥ 9 ॥ इति श्री वेणुगोपालाष्टकम् ।

    Manikarnikashtakam (मणिकर्णिकाष्टकम्)

    मणिकर्णिकाष्टकम् (Manikarnikashtakam) त्वत्तीरे मणिकर्णिके हरिहरौ सायुज्यमुक्तिप्रदौ वादंतौ कुरुतः परस्परमुभौ जंतोः प्रयाणोत्सवे । मद्रूपो मनुजोऽयमस्तु हरिणा प्रोक्तः शिवस्तत्क्षणा- त्तन्मध्याद्भृगुलांछनो गरुडगः पीतांबरो निर्गतः ॥ 1 ॥ इंद्राद्यास्त्रिदशाः पतंति नियतं भोगक्षये ये पुन- र्जायंते मनुजास्ततोपि पशवः कीटाः पतंगादयः । ये मातर्मणिकर्णिके तव जले मज्जंति निष्कल्मषाः सायुज्येऽपि किरीटकौस्तुभधरा नारायणाः स्युर्नराः ॥ 2 ॥ काशी धन्यतमा विमुक्तनगरी सालंकृता गंगया तत्रेयं मणिकर्णिका सुखकरी मुक्तिर्हि तत्किंकरी । स्वर्लोकस्तुलितः सहैव विबुधैः काश्या समं ब्रह्मणा काशी क्षोणितले स्थिता गुरुतरा स्वर्गो लघुत्वं गतः ॥ 3 ॥ गंगातीरमनुत्तमं हि सकलं तत्रापि काश्युत्तमा तस्यां सा मणिकर्णिकोत्तमतमा येत्रेश्वरो मुक्तिदः । देवानामपि दुर्लभं स्थलमिदं पापौघनाशक्षमं पूर्वोपार्जितपुण्यपुंजगमकं पुण्यैर्जनैः प्राप्यते ॥ 4 ॥ दुःखांभोधिगतो हि जंतुनिवहस्तेषां कथं निष्कृतिः ज्ञात्वा तद्धि विरिंचिना विरचिता वाराणसी शर्मदा । लोकाःस्वर्गसुखास्ततोऽपि लघवो भोगांतपातप्रदाः काशी मुक्तिपुरी सदा शिवकरी धर्मार्थमोक्षप्रदा ॥ 5 ॥ एको वेणुधरो धराधरधरः श्रीवत्सभूषाधरः योऽप्येकः किल शंकरो विषधरो गंगाधरो माधवः । ये मातर्मणिकर्णिके तव जले मज्जंति ते मानवाः रुद्रा वा हरयो भवंति बहवस्तेषां बहुत्वं कथम् ॥ 6 ॥ त्वत्तीरे मरणं तु मंगलकरं देवैरपि श्लाघ्यते शक्रस्तं मनुजं सहस्रनयनैर्द्रष्टुं सदा तत्परः । आयांतं सविता सहस्रकिरणैः प्रत्युद्गतोऽभूत्सदा पुण्योऽसौ वृषगोऽथवा गरुडगः किं मंदिरं यास्यति ॥ 7 ॥ मध्याह्ने मणिकर्णिकास्नपनजं पुण्यं न वक्तुं क्षमः स्वीयैरब्धशतैश्चतुर्मुखधरो वेदार्थदीक्षागुरुः । योगाभ्यासबलेन चंद्रशिखरस्तत्पुण्यपारंगत- स्त्वत्तीरे प्रकरोति सुप्तपुरुषं नारायणं वा शिवम् ॥ 8 ॥ कृच्छ्रै कोटिशतैः स्वपापनिधनं यच्चाश्वमेधैः फलं तत्सर्वे मणिकर्णिकास्नपनजे पुण्ये प्रविष्टं भवेत् । स्नात्वा स्तोत्रमिदं नरः पठति चेत्संसारपाथोनिधिं तीर्त्वा पल्वलवत्प्रयाति सदनं तेजोमयं ब्रह्मणः ॥ 9 ॥

    Sharada Bhujanga Prayat Ashtakam (शारदा भुजंग प्रयात अष्टकम्)

    शारदा भुजंग प्रयात अष्टकम् (Sharada Bhujanga Prayat Ashtakam) सुवक्षोजकुंभां सुधापूर्णकुंभां प्रसादावलंबां प्रपुण्यावलंबाम् । सदास्येंदुबिंबां सदानोष्ठबिंबां भजे शारदांबामजस्रं मदंबाम् ॥ 1 ॥ कटाक्षे दयार्द्रां करे ज्ञानमुद्रां कलाभिर्विनिद्रां कलापैः सुभद्राम् । पुरस्त्रीं विनिद्रां पुरस्तुंगभद्रां भजे शारदांबामजस्रं मदंबाम् ॥ 2 ॥ ललामांकफालां लसद्गानलोलां स्वभक्तैकपालां यशःश्रीकपोलाम् । करे त्वक्षमालां कनत्पत्रलोलां भजे शारदांबामजस्रं मदंबाम् ॥ 3 ॥ सुसीमंतवेणीं दृशा निर्जितैणीं रमत्कीरवाणीं नमद्वज्रपाणीम् । सुधामंथरास्यां मुदा चिंत्यवेणीं भजे शारदांबामजस्रं मदंबाम् ॥ 4 ॥ सुशांतां सुदेहां दृगंते कचांतां लसत्सल्लतांगीमनंतामचिंत्याम् । स्मरेत्तापसैः सर्गपूर्वस्थितां तां भजे शारदांबामजस्रं मदंबाम् ॥ 5 ॥ कुरंगे तुरंगे मृगेंद्रे खगेंद्रे मराले मदेभे महोक्षेऽधिरूढाम् । महत्यां नवम्यां सदा सामरूपां भजे शारदांबामजस्रं मदंबाम् ॥ 6 ॥ ज्वलत्कांतिवह्निं जगन्मोहनांगीं भजे मानसांभोज सुभ्रांतभृंगीम् । निजस्तोत्रसंगीतनृत्यप्रभांगीं भजे शारदांबामजस्रं मदंबाम् ॥ 7 ॥ भवांभोजनेत्राजसंपूज्यमानां लसन्मंदहासप्रभावक्त्रचिह्नाम् । चलच्चंचलाचारुताटंककर्णां भजे शारदांबामजस्रं मदंबाम् ॥ 8 ॥ इति श्री शारदा भुजंग प्रयाताष्टकम् ।

    Chandrashekharashtakam (चन्द्रशेखराष्टकम्)

    चन्द्रशेखराष्टकम् (Chandrashekharashtakam) चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर पाहिमाम् । चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर रक्षमाम् ॥ रत्नसानु शरासनं रजताद्रि शृङ्ग निकेतनं शिञ्जिनीकृत पन्नगेश्वर मच्युतानल सायकम् । क्षिप्रदग्द पुरत्रयं त्रिदशालयै-रभिवन्दितं चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥ 1 ॥ पञ्चपादप पुष्पगन्ध पदाम्बुज द्वयशोभितं फाललोचन जातपावक दग्ध मन्मध विग्रहम् । भस्मदिग्ध कलेबरं भवनाशनं भव मव्ययं चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर रक्षमाम् ॥ 2 ॥ मत्तवारण मुख्यचर्म कृतोत्तरीय मनोहरं पङ्कजासन पद्मलोचन पूजिताङ्घ्रि सरोरुहम् । देव सिन्धु तरङ्ग श्रीकर सिक्त शुभ्र जटाधरं चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर पाहिमाम् ॥ 3 ॥ यक्ष राजसखं भगाक्ष हरं भुजङ्ग विभूषणम् शैलराज सुता परिष्कृत चारुवाम कलेबरम् । क्षेल नीलगलं परश्वध धारिणं मृगधारिणम् चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर पाहिमाम् ॥ 4 ॥ कुण्डलीकृत कुण्डलीश्वर कुण्डलं वृषवाहनं नारदादि मुनीश्वर स्तुतवैभवं भुवनेश्वरम् । अन्धकान्तक माश्रितामर पादपं शमनान्तकं चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर रक्षमाम् ॥ 5 ॥ भेषजं भवरोगिणा मखिलापदा मपहारिणं दक्षयज्ञ विनाशनं त्रिगुणात्मकं त्रिविलोचनम् । भक्ति मुक्ति फलप्रदं सकलाघ सङ्घ निबर्हणं चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर रक्षमाम् ॥ 6 ॥ भक्तवत्सल-मर्चितं निधिमक्षयं हरिदम्बरं सर्वभूत पतिं परात्पर-मप्रमेय मनुत्तमम् । सोमवारिन भूहुताशन सोम पाद्यखिलाकृतिं चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर पाहिमाम् ॥ 7 ॥ विश्वसृष्टि विधायकं पुनरेवपालन तत्परं संहरं तमपि प्रपञ्च मशेषलोक निवासिनम् । क्रीडयन्त महर्निशं गणनाथ यूथ समन्वितं चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर रक्षमाम् ॥ 8 ॥ मृत्युभीत मृकण्डुसूनुकृतस्तवं शिवसन्निधौ यत्र कुत्र च यः पठेन्न हि तस्य मृत्युभयं भवेत् । पूर्णमायुररोगतामखिलार्थसम्पदमादरं चन्द्रशेखर एव तस्य ददाति मुक्तिमयत्नतः ॥ 9 ॥

    Dhanyaashtakam (धन्याष्टकम्)

    धन्याष्टकम् (Dhanyaashtakam) (प्रहर्षणीवृत्तम् -) तज्ज्ञानं प्रशमकरं यदिन्द्रियाणां तज्ज्ञेयं यदुपनिषत्सु निश्चितार्थम् । ते धन्या भुवि परमार्थनिश्चितेहाः शेषास्तु भ्रमनिलये परिभ्रमन्तः ॥ 1॥ (वसन्ततिलकावृत्तम् -) आदौ विजित्य विषयान्मदमोहराग- द्वेषादिशत्रुगणमाहृतयोगराज्याः । ज्ञात्वा मतं समनुभूयपरात्मविद्या- कान्तासुखं वनगृहे विचरन्ति धन्याः ॥ 2॥ त्यक्त्वा गृहे रतिमधोगतिहेतुभूताम् आत्मेच्छयोपनिषदर्थरसं पिबन्तः । वीतस्पृहा विषयभोगपदे विरक्ता धन्याश्चरन्ति विजनेषु विरक्तसङ्गाः ॥ 3॥ त्यक्त्वा ममाहमिति बन्धकरे पदे द्वे मानावमानसदृशाः समदर्शिनश्च । कर्तारमन्यमवगम्य तदर्पितानि कुर्वन्ति कर्मपरिपाकफलानि धन्याः ॥ 4॥ त्यक्त्वीषणात्रयमवेक्षितमोक्षमर्गा भैक्षामृतेन परिकल्पितदेहयात्राः । ज्योतिः परात्परतरं परमात्मसञ्ज्ञं धन्या द्विजारहसि हृद्यवलोकयन्ति ॥ 5॥ नासन्न सन्न सदसन्न महसन्नचाणु न स्त्री पुमान्न च नपुंसकमेकबीजम् । यैर्ब्रह्म तत्सममुपासितमेकचित्तैः धन्या विरेजुरित्तरेभवपाशबद्धाः ॥ 6॥ अज्ञानपङ्कपरिमग्नमपेतसारं दुःखालयं मरणजन्मजरावसक्तम् । संसारबन्धनमनित्यमवेक्ष्य धन्या ज्ञानासिना तदवशीर्य विनिश्चयन्ति ॥ 7॥ शान्तैरनन्यमतिभिर्मधुरस्वभावैः एकत्वनिश्चितमनोभिरपेतमोहैः । साकं वनेषु विजितात्मपदस्वरुपं तद्वस्तु सम्यगनिशं विमृशन्ति धन्याः ॥ 8॥ (मालिनीवृत्तम् -) अहिमिव जनयोगं सर्वदा वर्जयेद्यः कुणपमिव सुनारीं त्यक्तुकामो विरागी । विषमिव विषयान्यो मन्यमानो दुरन्तान् जयति परमहंसो मुक्तिभावं समेति ॥ 9॥ (शार्दूलविक्रीडितवृत्तम् -) सम्पूर्णं जगदेव नन्दनवनं सर्वेऽपि कल्पद्रुमा गाङ्गं वरि समस्तवारिनिवहः पुण्याः समस्ताः क्रियाः । वाचः प्राकृतसंस्कृताः श्रुतिशिरोवाराणसी मेदिनी सर्वावस्थितिरस्य वस्तुविषया दृष्टे परब्रह्मणि ॥ 10॥ ॥ इति श्रीमद् शङ्कराचार्यविरचितं धन्याष्टकं समाप्तम् ॥

    Sharabheshashtakam (शरभेशाष्टकम्)

    शरभेशाष्टकम् (Sharabheshashtakam) श्री शिव उवाच शृणु देवि महागुह्यं परं पुण्यविवर्धनं . शरभेशाष्टकं मन्त्रं वक्ष्यामि तव तत्त्वतः ॥ ऋषिन्यासादिकं यत्तत्सर्वपूर्ववदाचरेत् . ध्यानभेदं विशेषेण वक्ष्याम्यहमतः शिवे ॥ ध्यानं ज्वलनकुटिलकेशं सूर्यचन्द्राग्निनेत्रं निशिततरनखाग्रोद्धूतहेमाभदेहम् । शरभमथ मुनीन्द्रैः सेव्यमानं सिताङ्गं प्रणतभयविनाशं भावयेत्पक्षिराजम् ॥ अथ स्तोत्रं देवादिदेवाय जगन्मयाय शिवाय नालीकनिभाननाय । शर्वाय भीमाय शराधिपाय नमोऽस्तु तुभ्यं शरभेश्वराय ॥ 1 ॥ हराय भीमाय हरिप्रियाय भवाय शान्ताय परात्पराय । मृडाय रुद्राय विलोचनाय नमोऽस्तु तुभ्यं शरभेश्वराय ॥ 2 ॥ शीतांशुचूडाय दिगम्बराय सृष्टिस्थितिध्वंसनकारणाय । जटाकलापाय जितेन्द्रियाय नमोऽस्तु तुभ्यं शरभेश्वराय ॥ 3 ॥ कलङ्ककण्ठाय भवान्तकाय कपालशूलात्तकराम्बुजाय । भुजङ्गभूषाय पुरान्तकाय नमोऽस्तु तुभ्यं शरभेश्वराय ॥ 4 ॥ शमादिषट्काय यमान्तकाय यमादियोगाष्टकसिद्धिदाय । उमाधिनाथाय पुरातनाय नमोऽस्तु तुभ्यं शरभेश्वराय ॥ 5 ॥ घृणादिपाशाष्टकवर्जिताय खिलीकृतास्मत्पथि पूर्वगाय । गुणादिहीनाय गुणत्रयाय नमोऽस्तु तुभ्यं शरभेश्वराय ॥ 6 ॥ कालाय वेदामृतकन्दलाय कल्याणकौतूहलकारणाय । स्थूलाय सूक्ष्माय स्वरूपगाय नमोऽस्तु तुभ्यं शरभेश्वराय ॥ 7 ॥ पञ्चाननायानिलभास्कराय पञ्चाशदर्णाद्यपराक्षयाय । पञ्चाक्षरेशाय जगद्धिताय नमोऽस्तु तुभ्यं शरभेश्वराय ॥ 8 ॥ इति श्री शरभेशाष्टकम् ॥

    Baal Mukundashtakam (बाल मुकुन्दाष्टकम्)

    बाल मुकुन्दाष्टकम् (Baal Mukundashtakam) करारविन्देन पदारविन्दं मुखारविन्दे विनिवेशयन्तम् । वटस्य पत्रस्य पुटे शयानं बालं मुकुन्दं मनसा स्मरामि ॥ 1 ॥ संहृत्य लोकान्वटपत्रमध्ये शयानमाद्यन्तविहीनरूपम् । सर्वेश्वरं सर्वहितावतारं बालं मुकुन्दं मनसा स्मरामि ॥ 2 ॥ इन्दीवरश्यामलकोमलाङ्गं इन्द्रादिदेवार्चितपादपद्मम् । सन्तानकल्पद्रुममाश्रितानां बालं मुकुन्दं मनसा स्मरामि ॥ 3 ॥ लम्बालकं लम्बितहारयष्टिं शृङ्गारलीलाङ्कितदन्तपङ्क्तिम् । बिम्बाधरं चारुविशालनेत्रं बालं मुकुन्दं मनसा स्मरामि ॥ 4 ॥ शिक्ये निधायाद्यपयोदधीनि बहिर्गतायां व्रजनायिकायाम् । भुक्त्वा यथेष्टं कपटेन सुप्तं बालं मुकुन्दं मनसा स्मरामि ॥ 5 ॥ कलिन्दजान्तस्थितकालियस्य फणाग्ररङ्गेनटनप्रियन्तम् । तत्पुच्छहस्तं शरदिन्दुवक्त्रं बालं मुकुन्दं मनसा स्मरामि ॥ 6 ॥ उलूखले बद्धमुदारशौर्यं उत्तुङ्गयुग्मार्जुन भङ्गलीलम् । उत्फुल्लपद्मायत चारुनेत्रं बालं मुकुन्दं मनसा स्मरामि ॥ 7 ॥ आलोक्य मातुर्मुखमादरेण स्तन्यं पिबन्तं सरसीरुहाक्षम् । सच्चिन्मयं देवमनन्तरूपं बालं मुकुन्दं मनसा स्मरामि ॥ 8 ॥

    Sudarshan Ashtakam (सुदर्शन अष्टकम्)

    सुदर्शन अष्टकम् (वेदान्ताचार्य कृतम्) (Sudarshan Ashtakam) प्रतिभटश्रेणिभीषण वरगुणस्तोमभूषण जनिभयस्थानतारण जगदवस्थानकारण । निखिलदुष्कर्मकर्शन निगमसद्धर्मदर्शन जय जय श्रीसुदर्शन जय जय श्रीसुदर्शन ॥ 1 ॥ शुभजगद्रूपमण्डन सुरजनत्रासखण्डन शतमखब्रह्मवन्दित शतपथब्रह्मनन्दित । प्रथितविद्वत्सपक्षित भजदहिर्बुध्न्यलक्षित जय जय श्रीसुदर्शन जय जय श्रीसुदर्शन ॥ 2 ॥ निजपदप्रीतसद्गण निरुपथिस्फीतषड्गुण निगमनिर्व्यूढवैभव निजपरव्यूहवैभव । हरिहयद्वेषिदारण हरपुरप्लोषकारण जय जय श्रीसुदर्शन जय जय श्रीसुदर्शन ॥ 3 ॥ स्फुटतटिज्जालपिञ्जर पृथुतरज्वालपञ्जर परिगतप्रत्नविग्रह परिमितप्रज्ञदुर्ग्रह । प्रहरणग्राममण्डित परिजनत्राणपण्डित जय जय श्रीसुदर्शन जय जय श्रीसुदर्शन ॥ 4 ॥ भुवननेतस्त्रयीमय सवनतेजस्त्रयीमय निरवधिस्वादुचिन्मय निखिलशक्तेजगन्मय । अमितविश्वक्रियामय शमितविश्वग्भयामय जय जय श्रीसुदर्शन जय जय श्रीसुदर्शन ॥ 5 ॥ महितसम्पत्सदक्षर विहितसम्पत्षडक्षर षडरचक्रप्रतिष्ठित सकलतत्त्वप्रतिष्ठित । विविधसङ्कल्पकल्पक विबुधसङ्कल्पकल्पक जय जय श्रीसुदर्शन जय जय श्रीसुदर्शन ॥ 6 ॥ प्रतिमुखालीढबन्धुर पृथुमहाहेतिदन्तुर विकटमालापरिष्कृत विविधमायाबहिष्कृत । स्थिरमहायन्त्रयन्त्रित दृढदयातन्त्रयन्त्रित जय जय श्रीसुदर्शन जय जय श्रीसुदर्शन ॥ 7 ॥ दनुजविस्तारकर्तन दनुजविद्याविकर्तन जनितमिस्राविकर्तन भजदविद्यानिकर्तन । अमरदृष्टस्वविक्रम समरजुष्टभ्रमिक्रम जय जय श्रीसुदर्शन जय जय श्रीसुदर्शन ॥ 8 ॥ द्विचतुष्कमिदं प्रभूतसारं पठतां वेङ्कटनायकप्रणीतम् । विषमेऽपि मनोरथः प्रधावन् न विहन्येत रथाङ्गधुर्यगुप्तः ॥ 9 ॥ इति श्री वेदान्ताचार्यस्य कृतिषु सुदर्शनाष्टकम् ।

    Shri Raj Rajeshwari Ashtakam (श्री राज राजेश्वरी अष्टकम्)

    श्री राज राजेश्वरी अष्टकम् (Shri Raj Rajeshwari Ashtakam) अम्बा शाम्भवि चन्द्रमौलिरबलाऽपर्णा उमा पार्वती काली हैमवती शिवा त्रिनयनी कात्यायनी भैरवी सावित्री नवयौवना शुभकरी साम्राज्यलक्ष्मीप्रदा चिद्रूपी परदेवता भगवती श्रीराजराजेश्वरी ॥ 1 ॥ अम्बा मोहिनि देवता त्रिभुवनी आनन्दसन्दायिनी वाणी पल्लवपाणि वेणुमुरलीगानप्रिया लोलिनी कल्याणी उडुराजबिम्बवदना धूम्राक्षसंहारिणी चिद्रूपी परदेवता भगवती श्रीराजराजेश्वरी ॥ 2 ॥ अम्बा नूपुररत्नकङ्कणधरी केयूरहारावली जातीचम्पकवैजयन्तिलहरी ग्रैवेयकैराजिता वीणावेणुविनोदमण्डितकरा वीरासनेसंस्थिता चिद्रूपी परदेवता भगवती श्रीराजराजेश्वरी ॥ 3 ॥ अम्बा रौद्रिणि भद्रकाली बगला ज्वालामुखी वैष्णवी ब्रह्माणी त्रिपुरान्तकी सुरनुता देदीप्यमानोज्ज्वला चामुण्डा श्रितरक्षपोषजननी दाक्षायणी पल्लवी चिद्रूपी परदेवता भगवती श्रीराजराजेश्वरी ॥ 4 ॥ अम्बा शूल धनुः कुशाङ्कुशधरी अर्धेन्दुबिम्बाधरी वाराही मधुकैटभप्रशमनी वाणीरमासेविता मल्लद्यासुरमूकदैत्यमथनी माहेश्वरी अम्बिका चिद्रूपी परदेवता भगवती श्रीराजराजेश्वरी ॥ 5 ॥ अम्बा सृष्टविनाशपालनकरी आर्या विसंशोभिता गायत्री प्रणवाक्षरामृतरसः पूर्णानुसन्धीकृता ओङ्कारी विनुतासुतार्चितपदा उद्दण्डदैत्यापहा चिद्रूपी परदेवता भगवती श्रीराजराजेश्वरी ॥ 6 ॥ अम्बा शाश्वत आगमादिविनुता आर्या महादेवता या ब्रह्मादिपिपीलिकान्तजननी या वै जगन्मोहिनी या पञ्चप्रणवादिरेफजननी या चित्कलामालिनी चिद्रूपी परदेवता भगवती श्रीराजराजेश्वरी ॥ 7 ॥ अम्बापालित भक्तराजदनिशं अम्बाष्टकं यः पठेत् अम्बालोककटाक्षवीक्ष ललितं चैश्वर्यमव्याहतम् अम्बा पावनमन्त्रराजपठनादन्ते च मोक्षप्रदा चिद्रूपी परदेवता भगवती श्रीराजराजेश्वरी ॥ 8 ॥