Bilva Ashtakam (बिल्वाअष्टकम्)

|| बिल्वाअष्टकम्|| (Bilva Ashtakam) त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधम् । त्रिजन्मपापसंहारं एकबिल्वं शिवार्पणम् ॥ त्रिशाखैः बिल्वपत्रैश्च ह्यच्छिद्रैः कोमलैः शुभैः । शिवपूजां करिष्यामि ह्येकबिल्वं शिवार्पणम् ॥ अखण्ड बिल्व पत्रेण पूजिते नन्दिकेश्वरे । शुद्ध्यन्ति सर्वपापेभ्यो ह्येकबिल्वं शिवार्पणम् ॥ शालिग्राम शिलामेकां विप्राणां जातु चार्पयेत् । सोमयज्ञ महापुण्यं एकबिल्वं शिवार्पणम् ॥ दन्तिकोटि सहस्राणि वाजपेय शतानि च । कोटिकन्या महादानं एकबिल्वं शिवार्पणम् ॥ लक्ष्म्यास्तनुत उत्पन्नं महादेवस्य च प्रियम् । बिल्ववृक्षं प्रयच्छामि ह्येकबिल्वं शिवार्पणम् ॥ दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम् । अघोरपापसंहारं एकबिल्वं शिवार्पणम् ॥ काशीक्षेत्रनिवासं च कालभैरवदर्शनम् । प्रयागमाधवं दृष्ट्वा ह्येकबिल्वं शिवार्पणम् ॥ मूलतो ब्रह्मरूपाय मध्यतो विष्णुरूपिणे । अग्रतः शिवरूपाय ह्येकबिल्वं शिवार्पणम् ॥ बिल्वाष्टकमिदं पुण्यं यः पठेत् शिवसन्निधौ । सर्वपाप विनिर्मुक्तः शिवलोकमवाप्नुयात् ॥ ॥ इति बिल्वाष्टकम् ॥