Ardhanarishwar Stuti (अर्धनारीश्वर स्तुति)

|| अर्धनारीश्वर स्तुति || (Ardhanarishwar Stuti) ॥ श्रीः ॥ वन्देमह्यमलमयूखमौलिरत्नं देवस्य प्रकटितसर्वमङ्गलाख्यम् । अन्योन्यं सदृशमहीनकङ्कणाङ्कं देहार्धद्वितयमुमार्धरुद्धमूर्तेः ॥ तद्वन्द्वे गिरिपतिपुत्रिकार्धमिश्रं श्रैकण्ठं वपुरपुनर्भवाय यत्र । वक्त्रेन्दोर्घटयति खण्डितस्य देव्या साधर्म्यं मुकुटगतो मृगाङ्कखण्डः ॥ एकत्र स्फटिकशिलामलं यदर्धे प्रत्यग्रद्रुतकनकोज्ज्वलं परत्र । बालार्कद्युतिभरपिञ्जरैकभाग- प्रालेयक्षितिधरश‍ृङ्गभङ्गिमेति ॥ यत्रैकं चकितकुरङ्गभङ्गि चक्षुः प्रोन्मीलत्कुचकलशोपशोभि वक्षः । मध्यं च ऋशिमसमेतमुत्तमाङ्गं भृङ्गालीरुचिकचसञ्चयाञ्चितं च ॥ स्राभोगं घननिबिडं नितम्बबिम्बं पादोऽपि स्फुटमणिनूपुराभिरामः । आलोक्य क्षणमिति नन्दिनोऽप्यकस्मा- दाश्चर्यं परमुदभूदभूतपूर्वम् ॥ यत्रार्धं घटयति भूरिभूतिशुभ्रं चन्द्रांशुच्छुरितकुबेरशैलशोभाम् । अर्धं च प्रणिहितकुङ्कुमाङ्गरागं पर्यस्तारुणरुचिकाञ्चनाद्रिमुद्राम् ॥ यत्कान्तिं दधदपि काञ्चनाभिरामां प्रोन्मीलद्भुजगशुभाङ्गदोपगूढम् । बिभ्राणं मुकुटमुपोढचारुचन्द्रं सन्धत्ते सपदि परस्परोपमानम् ॥ आश्चर्यं तव दयिते हितं विधातुं प्रागल्भ्यं किमपि भवोपतापभाजाम् । अन्योन्यं गतमिति वाक्यमेकवक्त्र- प्रोद्भिन्नं घटयति यत्र सामरस्यम् ॥ प्रत्यङ्गं घनपरिरम्भतः प्रकम्पं वामार्धं भुजगभयादिवैति यत्र । यत्रापि स्फुटपुलकं चकास्ति शीत- स्वःसिन्धुस्नपिततयेव दक्षिणार्धम् ॥ एकत्र स्फुरति भुजङ्गभोगभङ्गि- र्नीलेन्दीवरदलमालिका परत्र । एकत्र प्रथयति भास्मनोऽङ्गरागः शुभ्रत्वं मलयजरञ्जनं परत्र ॥ एकत्रार्पयति विषं गलस्य कार्ष्ण्यं कस्तूरीकृतमपि पुण्ड्रकं परत्र । एकत्र द्युतिरमलास्थिमालिकाना- मन्यत्र प्रसरति मौक्तिकावलीनाम् ॥ एकत्र स्रुतरुधिरा करीन्द्रकृत्तिः कौसुम्भं वसनमनश्वरं परत्र । इत्यादीन्यपि हि परस्परं विरुद्धा- न्येकत्वं दधति विचित्रधाम्नि यत्र ॥ दन्तानां सितिमनि कज्जलप्रयुक्ते मालिन्येऽप्यलिकविलोचनस्य यत्र । रक्तत्वे करचरणाधरस्य चान्यो नान्योन्यं समजनि नूतनो विशेषः ॥ कण्ठस्य भ्रमरनिभा विभार्धभागं मुक्त्वा किं स्थितिमकरोच्छिरोरुहार्धे । अर्धं वा कनकसदृग्रुचिः कचानां सन्त्यज्य न्यविशत किं गलैकदेशे ॥ सौवर्णः करकमले यथैव वामे सव्येऽपि ध्रुवमभवत्तथैव कुम्भः । क्रीडैकप्रसृतमतिर्विभुर्बिभर्ति स्वाच्छन्द्यादुरसि तमेव नूनमेनम् ॥ यत्रासीज्जगदखिलं युगावसाने पूर्णत्वं यदुचितमत्र मध्यभागे । संरम्भाद्गलितमदस्तदेव नूनं विश्रान्तं घनकठिने नितम्बबिम्बे ॥ इत्यादीन्प्रविदधुरेव यत्र ताव- त्सङ्कल्पान्प्रथमसमागमे गणेन्द्राः । यावत्स प्रणतिविधौ पदारविन्दं भृङ्गीशः परिहरति स्म नाम्बिकायाः ॥ किमयं शिवः किमु शिवाथ शिवा- विति यत्र वन्दनविधौ भवति । अविभाव्यमेव वचनं विदुषा- मविभाव्यमेव वचनं विदुषाम् ॥ एकः स्तनः समुचितोन्नतिरेकमक्षि लक्ष्याञ्जनं तनुरपि क्रशिमान्वितेति । लिङ्गैस्त्रिभिर्व्यवसिते सविभक्तिकेऽपि यत्राव्ययत्वमविखण्डितमेव भाति ॥ यत्र ध्रुवं हृदय एव यदैक्यमासी- द्वाक्काययोरपि पुनः पतितं तदेव । यस्मात्सतां हृदि यदेव तदेव वाचि यच्चैव वाचि करणेऽप्युचितं तदेव ॥ कान्ते शिवे त्वयि विरूढमिदं मनश्च मूर्तिश्च मे हृदयसम्मददायिनीति । अन्योन्यमभ्यभिहितं वितनोति यत्र साधारणस्मितमनोरमतां मुखस्य ॥ उद्यन्निरुत्तरपरस्परसामरस्य- सम्भावनव्यसनिनोरनवद्यहृद्यम् । अद्वैतमुत्तमचमत्कृतिसाधनं त- द्युष्माकमस्तु शिवयोः शिवयोजनाय ॥ लक्ष्याण्यलक्ष्याण्यपरत्र यत्र विलक्षणान्येव हि लक्षणानि साहित्यमत्यद्भुतमीशयोस्त- न्न कस्य रोमाञ्चमुदञ्चयेत ॥ जूटाहेर्मुकुटेन्द्रनीलरुचिभिः श्यामं दधत्यूर्ध्वगं भागं वह्निशिखापिशङ्गमधरं मध्ये सुधाच्छच्छविः । धत्ते शक्रधनुःश्रियं प्रतिमिता यत्रेन्दुलेखानृजु- र्युष्माकं स पयोधरो भगवतो हर्षामृतं वर्षतु ॥ इत्यर्धनारीश्वरस्तुतिः सम्पूर्णा ॥