Shri Radhapadal Stotram (श्री राधापटल स्तोत्रम्)

|| श्री राधापटल स्तोत्रम् || (Shri Radhapadal Stotram) ईश्वर उवाच ॥ प्रणवं पूर्वमुद्धृत्य हृन्मन्त्रं च ततः पठेत् । रमार्णेन युतो राधाकान्तः प्रोच्यस्ततः परम् ॥ १॥ शरणं पदमुच्चार्य ममेति पदमुच्चरेत् । मनुरेष तु श्रीराधाकृष्णयोः परमाद्भुतः ॥ २॥ जपमात्रेण जीवानां दृष्टादृष्टफलप्रदः । अस्मात्परतरो मन्त्रो नास्ति नास्ति वरानने ॥ ३॥ यस्मिञ्जप्ते तयोरेव स्वीयबुद्धिस्तु साधके । जायते कृतकृत्योसौ तथा भवति शाम्भवि ॥ ४॥ ध्रुवमुच्चार्य हृन्मन्त्रं वदेदथ रमार्णकम् । पावकं शेषसंयुक्तं धनेशं विद्ययान्वितम् ॥ ५॥ कामगं विष्णुशय्याढ्यं नभोरे चकया युतम् । कुबेरं केशवासक्तं बालाक्षीं कण्ठसङ्गताम् ॥ ६॥ चक्रिणं कामरूपाङ्कं जनकोत्तममेव च । वातारूढं समुच्चार्य षडाननमथानिलम् ॥ ७॥ बालेन्दुनाधिष्ठयन्तु लोहितं वातगं तथा । ह्लादिनीन्तु समुच्चार्य जपेदेनं महामनुम् ॥ ८॥ देवजाप्यं स्वेष्टदत्तं हैतीयजनगोचरम् । श्रीराधाकृष्णयोरेव हवात्संयोगदं परम् ॥ ९॥ नमस्तस्मै भगवते कृष्णायाकुण्ठमेधसे । राधाधरसुधापानमत्ताय च नमो नमः ॥ १०॥ मालामन्त्रं प्रवक्ष्यामि सावधानावधारय । एकविंशाक्षरोह्येष दृष्टा दृष्टफलप्रदः ॥ ११॥ अस्थिसञ्ज्ञश्च रुधिरारूढस्तु सुमुखाङ्कुरः । रोचिष्मान्मुखवृत्तस्थो धनेशः शेषसंयुतः ॥ १२॥ वारिदः केशवारूढो लम्पटश्च पिनाकिना । युतः श्रीकण्ठसरूढो भरद्वाजो निवृत्तियुक् ॥ १३॥ चक्रोयुक्तश्चक्रोधिन्या वामदृक्सङ्गतस्तथा । सदाशिवो निवृत्तस्थो भुजङ्गेशी च सूक्ष्मगा ॥ १४॥ वज्रमुष्टिश्चन्द्रसंस्थो वृषघ्नो मात्रिकादिगः । पूर्वार्द्धमेतन्निर्णीतं परार्द्धं प्रोच्यतेधुना ॥ १५॥ हृदा रोचिष्मताशाकं नृसिंहास्त्रोरसि स्थितः । खड्गीशो देवमातृस्थोनुस्वारेण विभाषितः ॥ १६॥ दाता शेषासनस्थश्च वारुणो वातसङ्गतः । नरःश्रीकण्ठसंसक्तः समुच्चार्यो मनीषणा ॥ १७॥ शङ्कुकर्णः पावकेन सङ्गतो मायया पुनः । सुरेशः केशवारूढो शौरी श्रीकण्ठसङ्गतः ॥ १८॥ चञ्चलो व्योमरूपस्थो ह्लादिनीरुचिरेण च । केशवाङ्कगता चैव परार्द्धोयमुदाहृतः ॥ १९॥ इति श्रीराधापटलं समाप्तिमगात् ॥