Shri Radhika Dhipashtakam (श्री राधिका धिपाष्टकम्)

॥श्री राधिका धिपाष्टकम्॥ (Shri Radhika Dhipashtakam) चतुर्मुखादिसंस्तुतं समस्तसात्वतानुतम् हलायुधादिसंयुतं नमामि राधिकाधिपम् ॥ बकादिदैत्यकालकं सगोपगोपिपालकम् मनोहरासितालकं नमामि राधिकाधिपम् ॥ सुरेन्द्रगर्वभञ्जनं विरञ्चिमोहभञ्जनम् व्रजाङ्गनानुरञ्जनं नमामि राधिकाधिपम् ॥ मयूरपिच्छमण्डनं गजेन्द्रदन्तखण्डनम् नृशंसकंसदण्डनं नमामि राधिकाधिपम् ॥ प्रदत्तविप्रदारकं सुदामधामकारकम् सुरद्रुमापहारकं नमामि राधिकाधिपम् ॥ धनञ्जयजयावहं महाचमूक्षयावहम् पितामहव्यथापहं नमामि राधिकाधिपम् ॥ मुनीन्द्रशापकारणं यदुप्रजापहारणम् धराभरावतारणं नमामि राधिकाधिपम् ॥ सुवृक्षमूलशायिनं मृगारिमोक्षदायिनम् स्वकीयधाममायिनं नमामि राधिकाधिपम् ॥ इदं समाहितो हितं वराष्टकं सदा मुदा जपञ्जनो जनुर्जरादितो द्रुतं प्रमुच्यते ॥