Murari Stuti (मुरारि स्तुति)

|| मुरारि स्तुति || (Murari Stuti) इन्दीवराखिल- समानविशालनेत्रो हेमाद्रिशीर्षमुकुटः कलितैकदेवः। आलेपितामल- मनोभवचन्दनाङ्गो भूतिं करोतु मम भूमिभवो मुरारिः। सत्यप्रियः सुरवरः कविताप्रवीणः शक्रादिवन्दितसुरः कमनीयकान्तिः। पुण्याकृतिः सुवसुदेवसुतः कलिघ्नो भूतिं करोतु मम भूमिभवो मुरारिः। नानाप्रकारकृत- भूषणकण्ठदेशो लक्ष्मीपतिर्जन- मनोहरदानशीलः। यज्ञस्वरूपपरमाक्षर- विग्रहाख्यो भूतिं करोतु मम भूमिभवो मुरारिः। भीष्मस्तुतो भवभयापहकार्यकर्ता प्रह्लादभक्तवरदः सुलभोऽप्रमेयः। सद्विप्रभूमनुज- वन्द्यरमाकलत्रो भूतिं करोतु मम भूमिभवो मुरारिः। नारायणो मधुरिपुर्जनचित्तसंस्थः सर्वात्मगोचरबुधो जगदेकनाथः। तृप्तिप्रदस्तरुण- मूर्तिरुदारचित्तो भूतिं करोतु मम भूमिभवो मुरारिः।