Krishna Raksha Kavacha (श्रीकृष्णरक्षाकवचम्)

|| श्रीकृष्णरक्षाकवचम् || (Krishna Raksha Kavacha) गोप्य ऊचुः – श्रीकृष्णस्ते शिरः पातु वैकुण्ठः कण्ठमेव हि । श्वेतद्वीपपतिः कर्णौ नासिकां यज्ञरूपधृक् ॥ नृसिंहो नेत्रयुग्मं च जिह्वां दशरथात्मजः । अधराववतां ते तु नरनाराणावृषी ॥ कपोलौ पातु ते साक्षात्सनकाद्याः कला हरेः । भालं ते श्वेतवाराहो नारदो भ्रूलतेऽवतु ॥ चिबुकं कपिलः पातु दत्तात्रेय उरोऽवतु । स्कन्धौ द्वावृषभः पातु करौ मत्स्यः प्रपातु ते ॥ दोर्दण्डं सततं रक्षेत्पृथुः पृथुलविक्रमः । उदरं कमठः पातु नाभिं धन्वन्तरिश्च ते ॥ मोहिनी गुह्यदेशं च कटिं ते वामनोऽवतु । पृष्ठं परशुरामश्च तवोरू बादरायणः ॥ बलो जानुद्वयं पातु जङ्घे बुद्धः प्रपातु ते । पादौ पातु सगुल्फौ च कल्किर्धर्मपतिः प्रभुः ॥ सर्वरक्षाकरं दिव्यं श्रीकृष्णकवचं परम् । इदं भगवता दत्तं ब्रह्मणे नाभिपङ्कजे ॥ ब्रह्मणा शम्भवे दत्तं शम्भुर्दुर्वाससे ददौ । दुर्वासाः श्रीयशोमत्यै प्रादाच्छ्रीनन्दमन्दिरे ॥ अनेन रक्षां कृत्वास्य गोपीभिः श्रीयशोमती । इति गर्गसंहितायां गोलोकखण्डे त्रयोदशाध्यान्तर्गतं गोपीभिः कृतं श्रीकृष्णरक्षाकवचम् ।