Shrimad Bhagwad Gita Parayaan - Chapter 7 (श्रीमद्भगवद्गीता पारायण - सप्तमोऽध्यायः)

श्रीमद्भगवद्गीता पारायण - सप्तमोऽध्यायः (Shrimad Bhagwad Gita Parayaan - Chapter 7) ॐ श्री परमात्मने नमः अथ सप्तमोऽध्यायः ज्ञानविज्ञानयोगः श्री भगवानुवाच मय्यासक्तमनाः पार्थ योगं युंजन्मदाश्रयः । असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥1॥ ज्ञानं तेऽहं सविज्ञानम् इदं वक्ष्याम्यशेषतः । यज्ज्ञात्वा नेह भूयोऽन्यत् ज्ञातव्यमवशिष्यते ॥2॥ मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये । यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ॥3॥ भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च । अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥4॥ अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् । जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥5॥ एतद्योनीनि भूतानि सर्वाणीत्युपधारय । अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ॥6॥ मत्तः परतरं नान्यत् किंजिदस्ति धनंजय । मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥7॥ रसोऽहमप्सु कौंतेय प्रभाऽस्मि शशिसूर्ययोः । प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ॥8॥ पुण्यो गंधः पृथिव्यां च तेजश्चास्मि विभावसौ । जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ॥9॥ बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् । बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् ॥10॥ बलं बलवतां चाहं कामरागविवर्जितम् । धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ॥11॥ ये चैव सात्त्विका भावाः राजसास्तामसाश्च ये । मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि ॥12॥ त्रिभिर्गुणमयैर्भावैः एभिः सर्वमिदं जगत् । मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ॥13॥ दैवी ह्येषा गुणमयी मम माया दुरत्यया । मामेव ये प्रपद्यंते मायामेतां तरंति ते ॥14॥ न मां दुष्कृतिनो मूढाः प्रपद्यंते नराधमाः । माययाऽपहृतज्ञानाः आसुरं भावमाश्रिताः ॥15॥ चतुर्विधा भजंते मां जनाः सुकृतिनोऽर्जुन । आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥16॥ तेषां ज्ञानी नित्ययुक्तः एक भक्तिर्विशिष्यते । प्रियो हि ज्ञानिनोऽत्यर्थम् अहं स च मम प्रियः ॥17॥ उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् । आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् ॥18॥ बहूनां जन्मनामंते ज्ञानवान्मां प्रपद्यते । वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ॥19॥ कामैस्तै स्तैर्हृतज्ञानाः प्रपद्यंतेऽन्यदेवताः । तं तं नियममास्थाय प्रकृत्या नियताः स्वया ॥20॥ यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति । तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥21॥ स तया श्रद्धया युक्तः तस्याराधनमीहते । लभते च ततः कामान् मयैव विहितान्हि तान् ॥22॥ अंतवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् । देवांदेवयजो यांति मद्भक्ता यांति मामपि ॥23॥ अव्यक्तं व्यक्तिमापन्नं मन्यंते मामबुद्धयः । परं भावमजानंतः ममाव्ययमनुत्तमम् ॥24॥ नाहं प्रकाशः सर्वस्य योगमायासमावृतः । मूढोऽयं नाभिजानाति लोको मामजमव्ययम् ॥25॥ वेदाहं समतीतानि वर्तमानानि चार्जुन । भविष्याणि च भूतानि मां तु वेद न कश्चन ॥26॥ इच्छाद्वेषसमुत्थेन द्वंद्वमोहेन भारत । सर्वभूतानि सम्मोहं सर्गे यांति परंतप ॥27॥ येषां त्वंतगतं पापं जनानां पुण्यकर्मणाम् । ते द्वंद्वमोहनिर्मुक्ताः भजंते मां दृढव्रताः ॥28॥ जरामरणमोक्षाय मामाश्रित्य यतंति ये । ते ब्रह्म तद्विदुः कृत्स्नम् अध्यात्मं कर्म चाखिलम्॥29॥ साधिभूताधिदैवं मां साधियज्ञं च ये विदुः । प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः ॥30॥ ॥ ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे ज्ञानविज्ञानयोगो नाम सप्तमोऽध्यायः ॥