Ganesha Vajra Panjara Stotram (गणेश वज्र पंजर स्तोत्रम्)

गणेश वज्र पंजर स्तोत्रम् (Ganesha Vajra Panjara Stotram) ध्यानम् । त्रिनेत्रं गजास्यं चतुर्बाहुधारं परश्वादिशस्त्रैर्युतं भालचंद्रम् । नराकारदेहं सदा योगशांतं गणेशं भजे सर्ववंद्यं परेशम् ॥ 1 ॥ बिंदुरूपो वक्रतुंडो रक्षतु मे हृदि स्थितः । देहांश्चतुर्विधांस्तत्त्वांस्तत्त्वाधारः सनातनः ॥ 2 ॥ देहमोहयुतं ह्येकदंतः सोऽहं स्वरूपधृक् । देहिनं मां विशेषेण रक्षतु भ्रमनाशकः ॥ 3 ॥ महोदरस्तथा देवो नानाबोधान् प्रतापवान् । सदा रक्षतु मे बोधानंदसंस्थो ह्यहर्निशम् ॥ 4 ॥ सांख्यान् रक्षतु सांख्येशो गजाननः सुसिद्धिदः । असत्येषु स्थितं मां स लंबोदरश्च रक्षतु ॥ 5 ॥ सत्सु स्थितं सुमोहेन विकटो मां परात्परः । रक्षतु भक्तवात्सल्यात् सदैकामृतधारकः ॥ 6 ॥ आनंदेषु स्थितं नित्यं मां रक्षतु समात्मकः । विघ्नराजो महाविघ्नैर्नानाखेलकरः प्रभुः ॥ 7 ॥ अव्यक्तेषु स्थितं नित्यं धूम्रवर्णः स्वरूपधृक् । मां रक्षतु सुखाकारः सहजः सर्वपूजितः ॥ 8 ॥ स्वसंवेद्येषु संस्थं मां गणेशः स्वस्वरूपधृक् । रक्षतु योगभावेन संस्थितो भवनायकः ॥ 9 ॥ अयोगेषु स्थितं नित्यं मां रक्षतु गणेश्वरः । निवृत्तिरूपधृक् साक्षादसमाधिसुखे रतः ॥ 10 ॥ योगशांतिधरो मां तु रक्षतु योगसंस्थितम् । गणाधीशः प्रसन्नात्मा सिद्धिबुद्धिसमन्वितः ॥ 11 ॥ पुरो मां गजकर्णश्च रक्षतु विघ्नहारकः । वाह्न्यां याम्यां च नैरृत्यां चिंतामणिर्वरप्रदः ॥ 12 ॥ रक्षतु पश्चिमे ढुंढिर्हेरंबो वायुदिक् स्थितम् । विनायकश्चोत्तरे तु प्रमोदश्चेशदिक् स्थितम् ॥ 13 ॥ ऊर्ध्वं सिद्धिपतिः पातु बुद्धीशोऽधः स्थितं सदा । सर्वांगेषु मयूरेशः पातु मां भक्तिलालसः ॥ 14 ॥ यत्र तत्र स्थितं मां तु सदा रक्षतु योगपः । पुरशुपाशसंयुक्तो वरदाभयधारकः ॥ 15 ॥ इदं गणपतेः प्रोक्तं वज्रपंजरकं परम् । धारयस्व महादेव विजयी त्वं भविष्यसि ॥ 16 ॥ य इदं पंजरं धृत्वा यत्र कुत्र स्थितो भवेत् । न तस्य जायते क्वापि भयं नानास्वभावजम् ॥ 17 ॥ यः पठेत् पंजरं नित्यं स ईप्सितमवाप्नुयात् । वज्रसारतनुर्भूत्वा चरेत्सर्वत्र मानवः ॥ 18 ॥ त्रिकालं यः पठेन्नित्यं स गणेश इवापरः । निर्विघ्नः सर्वकार्येषु ब्रह्मभूतो भवेन्नरः ॥ 19 ॥ यः शृणोति गणेशस्य पंजरं वज्रसंज्ञकम् । आरोग्यादिसमायुक्तो भवते गणपप्रियः ॥ 20 ॥ धनं धान्यं पशून् विद्यामायुष्यं पुत्रपौत्रकम् । सर्वसंपत्समायुक्तमैश्वर्यं पठनाल्लभेत् ॥ 21 ॥ न भयं तस्य वज्रात्तु चक्राच्छूलाद्भवेत् कदा । शंकरादेर्महादेव पठनादस्य नित्यशः ॥ 22 ॥ यं यं चिंतयते मर्त्यस्तं तं प्राप्नोति शाश्वतम् । पठनादस्य विघ्नेश पंजरस्य निरंतरम् ॥ 23 ॥ लक्षावृत्तिभिरेवं स सिद्धपंजरको भवेत् । स्तंभयेदपि सूर्यं तु ब्रह्मांडं वशमानयेत् ॥ 24 ॥ एवमुक्त्वा गणेशानोऽंतर्दधे मुनिसत्तम । शिवो देवादिभिर्युक्तो हर्षितः संबभूव ह ॥ 25 ॥ इति श्रीमन्मुद्गले महापुराणे धूम्रवर्णचरिते वज्रपंजरकथनं नाम त्रयोविंशोऽध्यायः ।