Ganesha Sukta (वैदिक गणेश-स्तवन)

वैदिक गणेश-स्तवन(Vedic Ganesha-Stavan) गणानां त्वा गणपति हवामहे प्रियाणां त्वा प्रियपति। हवामहे निधीनां त्वा निधिपतिश हवामहे वसो मम। आहमजानि गर्भधमा त्वमजासि गर्भधम् ॥ नि षु सीद गणपते गणेषु त्वामाहुर्विप्रतमं कवीनाम् । न ऋते त्वत्क्रियते किं चनारे महामर्क मघवजिचित्रमर्च॥ गणानां त्वा गणपतिं हवामहे कविं कवीनामुपम- श्रवस्तमम् । ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आ नः शृण्वन्नूतिभिः सीद सादनम् ॥ नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो गृत्सेभ्यो गृत्सपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमः ॥ ॐ तत्कराटाय विद्याहे हस्तिमुखाय धीमहि। तन्नो दन्ती प्रचोदयात् ॥ नमो व्रातपतये नमो गणपतये नमः प्रमथपतये नमस्तेऽस्तु लम्बोद्रायैकदन्ताय विघ्ननाशिने शिवसुताय श्रीवरदमूर्तये नमः ॥