Narayaniyam Dashaka 4 (नारायणीयं दशक 4 )

नारायणीयं दशक 4 (Narayaniyam Dashaka 4) कल्यतां मम कुरुष्व तावतीं कल्यते भवदुपासनं यया । स्पष्टमष्टविधयोगचर्यया पुष्टयाशु तव तुष्टिमाप्नुयाम् ॥1॥ ब्रह्मचर्यदृढतादिभिर्यमैराप्लवादिनियमैश्च पाविताः । कुर्महे दृढममी सुखासनं पंकजाद्यमपि वा भवत्पराः ॥2॥ तारमंतरनुचिंत्य संततं प्राणवायुमभियम्य निर्मलाः । इंद्रियाणि विषयादथापहृत्यास्महे भवदुपासनोन्मुखाः ॥3॥ अस्फुटे वपुषि ते प्रयत्नतो धारयेम धिषणां मुहुर्मुहुः । तेन भक्तिरसमंतरार्द्रतामुद्वहेम भवदंघ्रिचिंतका ॥4॥ विस्फुटावयवभेदसुंदरं त्वद्वपुः सुचिरशीलनावशात् । अश्रमं मनसि चिंतयामहे ध्यानयोगनिरतास्त्वदाश्रयाः ॥5॥ ध्यायतां सकलमूर्तिमीदृशीमुन्मिषन्मधुरताहृतात्मनाम् । सांद्रमोदरसरूपमांतरं ब्रह्म रूपमयि तेऽवभासते ॥6॥ तत्समास्वदनरूपिणीं स्थितिं त्वत्समाधिमयि विश्वनायक । आश्रिताः पुनरतः परिच्युतावारभेमहि च धारणादिकम् ॥7॥ इत्थमभ्यसननिर्भरोल्लसत्त्वत्परात्मसुखकल्पितोत्सवाः । मुक्तभक्तकुलमौलितां गताः संचरेम शुकनारदादिवत् ॥8॥ त्वत्समाधिविजये तु यः पुनर्मंक्षु मोक्षरसिकः क्रमेण वा । योगवश्यमनिलं षडाश्रयैरुन्नयत्यज सुषुम्नया शनैः ॥9॥ लिंगदेहमपि संत्यजन्नथो लीयते त्वयि परे निराग्रहः । ऊर्ध्वलोककुतुकी तु मूर्धतः सार्धमेव करणैर्निरीयते ॥10॥ अग्निवासरवलर्क्षपक्षगैरुत्तरायणजुषा च दैवतैः । प्रापितो रविपदं भवत्परो मोदवान् ध्रुवपदांतमीयते ॥11॥ आस्थितोऽथ महरालये यदा शेषवक्त्रदहनोष्मणार्द्यते । ईयते भवदुपाश्रयस्तदा वेधसः पदमतः पुरैव वा ॥12॥ तत्र वा तव पदेऽथवा वसन् प्राकृतप्रलय एति मुक्तताम् । स्वेच्छया खलु पुरा विमुच्यते संविभिद्य जगदंडमोजसा ॥13॥ तस्य च क्षितिपयोमहोऽनिलद्योमहत्प्रकृतिसप्तकावृतीः । तत्तदात्मकतया विशन् सुखी याति ते पदमनावृतं विभो ॥14॥ अर्चिरादिगतिमीदृशीं व्रजन् विच्युतिं न भजते जगत्पते । सच्चिदात्मक भवत् गुणोदयानुच्चरंतमनिलेश पाहि माम् ॥15॥