Shri Vishnu Stotra (श्रीविष्णोः)

श्रीविष्णोः (Shri Vishnu) प्रातः स्मरामि भवभीतिमहार्तिशान्त्यै नारायणं गरुडवाहनमब्जनाभम् । ग्राहाभिभूतवरवारणमुक्तिहेतुं चक्रायुधं तरुणवारिजपत्रनेत्रम् ॥ १ ॥ प्रातर्नमामि मनसा वचसा च मूर्धा पादारविन्दयुगलं परमस्य पुंसः । नारायणस्य नरकार्णवतारणस्य पारायणप्रवणविप्रपरायणस्य ॥२॥ प्रातर्भजामि भजतामभयङ्करं तं प्राक्सर्वजन्मकृतपापभयापहत्यै । यो ग्राहवक्त्रपतिता‌ङ्ङ्घिगजेन्द्रघोर- शोकप्रणाशनकरो धृतशङ्खचक्रः ॥ ३ ॥ ॥ इति श्रीविष्णोः प्रातःस्मरणम् ॥