Shloka-Mantra Collection

    Karpur Gauram Karunavataram Shloka Mantra (कर्पूर गौरम करुणावतारं श्लोक मंत्र)

    कर्पूर गौरम करुणावतारं श्लोक मंत्र (Karpur Gauram Karunavataram Shloka Mantra) कर्पूरगौरं करुणावतारं संसारसारं भुजगेन्द्रहारम् । सदा बसन्तं हृदयारबिन्दे भबं भवानीसहितं नमामि ।। मंगलम भगवान् विष्णु मंगलम गरुड़ध्वजः । मंगलम पुन्डरी काक्षो मंगलायतनो हरि || सर्व मंगल मांग्लयै शिवे सर्वार्थ साधिके । शरण्ये त्रयम्बके गौरी नारायणी नमोस्तुते || त्वमेव माता च पिता त्वमेव त्वमेव बंधू च सखा त्वमेव त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देव देव कायेन वाचा मनसेंद्रियैर्वा बुध्यात्मना वा प्रकृतेः स्वभावात करोमि यध्य्त सकलं परस्मै नारायणायेति समर्पयामि || श्री कृष्ण गोविन्द हरे मुरारे हे नाथ नारायण वासुदेव । जिब्हे पिबस्व अमृतं एत देव गोविन्द दामोदर माधवेती ||

    Shri Hanuman Praarthana Shlok (श्री हनुमत्‌ प्रार्थना श्लोक)

    श्री हनुमत्‌ प्रार्थना श्लोक (Shri Hanuman Praarthana Shlok) श्री हनुमत्‌ प्रार्थना श्लोक मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्दिमतां वरिष्ठम्‌। वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शिरसा नमामि॥ अञ्जनानन्दनं वीरं जानकीशोकनाशनम्‌। कपीशमक्षहन्तारं वन्दे लङ्काभयङ्करम्‌॥ गोष्पदीकृतवाराशिं मशककृतराक्षसम्‌। रामायणमहामालारलं वन्देऽनिलात्मजम्‌॥ यत्र यत्र रघुनाथकीर्तनं तत्र तत्र कृतमस्तकाञ्जलिम्‌। बाष्पवारिपरिपूर्णलोचनं मारुतिं नमत राक्षसान्तकम्‌॥ वन्दे वानर-नारसिंह-खगराट्‌-क्रोडाश्चवक्त्राच्चितं नानालङ्करणं त्रिपञ्चनयनं देदीप्यमानं स्चाम्‌। हस्ताभैरसिखेटपुस्तकसुधाभाण्डं कुशाद्रीन्‌ हलं खट्ठाड़ फणिवृक्षधृद्दशभुजं सर्वारिगर्वापहम्‌॥ सर्वारिष्टनिवारकं शुभकरं पिज्ञाक्षमक्षापहं सीतान्वेषणतत्परं कपिवरं कोटीन्दुसूर्यप्रभम्‌। लङ्काद्वीपभयङ्करं सकलदं सुग्रीवसम्मानितं देवेन्द्रादि समक्तदेवविनुतं काकुत्थदूतं भजे॥ बुद्धिर्बलं यशो धैर्य निर्भयत्वमरोगता। अजाडंय वाक्पटूत्वं च हनुमच्छरणाद्भवेत्‌॥ नमोऽस्तुरामाय सलक्ष्मणाय देव्यै च तस्यै जनकात्मजायै। नमोऽस्तु सुद्रद्रयमानिलेभ्यो नमोऽस्तु चद्दरार्कमरुद्रणेभ्यः॥ जयत्यतिबलो रामो लक्ष्मणश्व महाबलः| राजा जयति सुग्रीवो राघवेणाभिपालितः॥ दासोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः। हनुमान्‌ शत्रसैन्यानां निहन्ता मारुतात्मजः॥ न रावणसहसर मे युद्धे प्रतिबलं भवेत्‌॥ शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः॥ अर्दयित्वा पुरीं लङ्कां अभिवाद्य च मैथिलीम्‌। समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम्‌॥ धर्मात्मा सत्यसन्धश्च रामो दाशरथिर्यदि। पौरुषे चाप्रतिद्वन्द्र: शरैनं जहि रावणिम्‌॥ सकृदेव प्रपन्नाय तवास्मीति च याचते॥ अभयं सर्वभूतेभ्यः ददाम्येतद्व्रतं मम॥ ॥ इति सुन्दरकाण्ड प्रार्थना श्लोकाः समाप्तः ॥ श्रीहनुमते नमः

    Hanuman Shloka Collection (हनुमान श्लोक संग्रह)

    हनुमान श्लोक संग्रह (Hanuman Shloka Collection) (1.)हनुमान श्लोक ॐ मनोजवं मारुततुल्य वेगं, जितेन्द्रियं बुद्धिमतां वरिष्ठं वातात्मजं वानर युथमुख्यं श्री रामदूतं शरणं प्रपद्ये || (2.)हनुमान श्लोक यत्र यत्र रघुनाथ कीर्तनं तत्र तत्र कृतमस्तकाञ्जलिं । भाष्पवारिपरिपूर्णालोचनं मारुतिं नमत राक्षसान्तकम् ॥ (3.)हनुमान श्लोक अतुलितबलधामं हेमशैलाभदेहम् दनुजवनकृशानुं ज्ञानिनामग्रगण्यम् । सकलगुणनिधानं वानराणामधीशम् रघुपतिप्रियभक्तं वातजातं नमामि || (4.)हनुमान श्लोक बुद्धिर्बलं यशो धैर्यं निर्भयत्वमरोगिता । अजाण्यं वाकपटुत्वं च हनुमत्स्मरणाद्भवेत् ।। (5.)हनुमान श्लोक शांतं शाश्वतं प्रमेयमनघं निर्वाणशान्तिप्रदं, ब्रह्माशम्भुफणीन्द्रसेव्यमनिशं वेदान्तवेद्यं विभुम् । रामाख्यं जगदीश्वरं सुरगुरुं मायामनुष्यं हरिं, वन्देऽहं करुणाकरं रघुवरं भूपालचूडामणिम् I (6.)हनुमान श्लोक नान्या स्पृहा रघुपते हृदयेऽस्मदीये, सत्यं वदामि च भवानखिलान्तरात्मा। भक्तिं प्रयच्छ रघुपुंगव निर्भरां मे, कामादिदोषरहितं कुरु मानसं च ॥ (7.)हनुमान श्लोक अञ्जनानन्दनं वीरं जानकीशोकनाशनम् । कपीशमक्षहन्तारं वन्दे लङ्काभयङ्करम् ।। (8.)हनुमान श्लोक गोष्पदीकृतवाराशिं मशकीकृतराक्षसम्। रामायणमहामालारत्नं वन्देऽनिलात्मजम् ।। (9.)हनुमान श्लोक वन्दे वानर-नारसिंह-खगराट्-क्रोडाश्ववक्त्राञ्चितं नानालङ्करणं त्रिपञ्चनयनं देदीप्यमानं रुचाम्। हस्ताभैरसिखेटपुस्तकसुधाभाण्डं कुशाद्रीन् हलं खट्वाङ्गं फणिवृक्षधृद्दशभुजं सर्वारिगर्वापहम् ।। (10.)हनुमान श्लोक सर्वारिष्टनिवारकं शुभकरं पिङ्गाक्षमक्षापहं सीतान्वेषणतत्परं कपिवरं कोटीन्दुसूर्यप्रभम्। लङ्‌ङ्काद्वीपभयङ्करं सकलदं सुग्रीवसम्मानितं देवेन्द्रादि समक्तदेवविनुतं काकुत्थदूतं भजे ।। (11.)हनुमान श्लोक दासोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः। हनुमान् शत्रुसैन्यानां निहन्ता मारुतात्मजः ।। न रावणसहस्रं मे युद्धे प्रतिबलं भवेत् । शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः ।। (12.)हनुमान श्लोक ।। ॐ नमो हनुमते भयभंजनाय सुखं कुरु फट् स्वाहा ।।

    Shata Rudriyam (शत रुद्रीयम्)

    शत रुद्रीयम् (Shata Rudriyam) व्यास उवाच प्रजा पतीनां प्रथमं तेजसां पुरुषं प्रभुम् । भुवनं भूर्भुवं देवं सर्वलोकेश्वरं प्रभुम्॥ 1 ईशानां वरदं पार्थ दृष्णवानसि शङ्करम् । तं गच्च शरणं देवं वरदं भवनेश्वरम् ॥ 2 महादेवं महात्मान मीशानं जटिलं शिवम् । त्य्रक्षं महाभुजं रुद्रं शिखिनं चीरवासनम् ॥ 3 महादेवं हरं स्थाणुं वरदं भवनेश्वरम् । जगत्र्पाधानमधिकं जगत्प्रीतमधीश्वरम् ॥ 4 जगद्योनिं जगद्द्वीपं जयनं जगतो गतिम् । विश्वात्मानं विश्वसृजं विश्वमूर्तिं यशस्विनम् ॥ 5 विश्वेश्वरं विश्ववरं कर्माणामीश्वरं प्रभुम् । शम्भुं स्वयम्भुं भूतेशं भूतभव्यभवोद्भवम् ॥ 6 योगं योगेश्वरं शर्वं सर्वलोकेश्वरेश्वरम् । सर्वश्रेष्टं जगच्छ्रेष्टं वरिष्टं परमेष्ठिनम् ॥ 7 लोकत्रय विधातारमेकं लोकत्रयाश्रयम् । सुदुर्जयं जगन्नाथं जन्ममृत्यु जरातिगम् ॥ 8 ज्ञानात्मानां ज्ञानगम्यं ज्ञानश्रेष्ठं सुदर्विदम् । दातारं चैव भक्तानां प्रसादविहितान् वरान् ॥ 9 तस्य पारिषदा दिव्यारूपै र्नानाविधै र्विभोः । वामना जटिला मुण्डा ह्रस्वग्रीव महोदराः ॥ 10 महाकाया महोत्साहा महाकर्णास्तदा परे । आननैर्विकृतैः पादैः पार्थवेषैश्च वैकृतैः ॥ 11 ईदृशैस्स महादेवः पूज्यमानो महेश्वरः । सशिवस्तात तेजस्वी प्रसादाद्याति तेऽग्रतः ॥ 12 तस्मिन् घोरे सदा पार्थ सङ्ग्रामे रोमहर्षिणे । द्रौणिकर्ण कृपैर्गुप्तां महेष्वासैः प्रहारिभिः ॥ 13 कस्तां सेनां तदा पार्ध मनसापि प्रधर्षयेत् । ऋते देवान्महेष्वासाद्बहुरूपान्महेश्वरात् ॥ 14 प्थातुमुत्सहते कश्चिन्नतस्मिन्नग्रतः स्थिते । न हि भूतं समं तेन त्रिषु लोकेषु विद्यते ॥ 15 गन्धे नापि हि सङ्ग्रामे तस्य कृद्दस्य शत्रवः । विसञ्ज्ञा हत भूयिष्टा वेपन्तिच पतन्ति च ॥ 16 तस्मै नमस्तु कुर्वन्तो देवा स्तिष्ठन्ति वैदिवि । ये चान्ये मानवा लोके येच स्वर्गजितो नराः ॥ 17 ये भक्ता वरदं देवं शिवं रुद्रमुमापतिम् । इह लोके सुखं प्राप्यते यान्ति परमां गतिम् ॥ 18 नमस्कुरुष्व कौन्तेय तस्मै शान्ताय वै सदा । रुद्राय शितिकण्ठाय कनिष्ठाय सुवर्चसे ॥ 19 कपर्दिने करलाय हर्यक्षवरदायच । याम्यायरक्तकेशाय सद्वृत्ते शङ्करायच ॥ 20 काम्याय हरिनेत्राय स्थाणुवे पुरुषायच । हरिकेशाय मुण्डाय कनिष्ठाय सुवर्चसे ॥ 21 भास्कराय सुतीर्थाय देवदेवाय रंहसे । बहुरूपाय प्रियाय प्रियवाससे ॥ 22 उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीडुषे । गिरीशीय सुशान्ताय पतये चीरवाससे ॥ 23 हिरण्यबाहवे राजन्नुग्राय पतयेदिशाम् । पर्जन्यपतयेचैव भूतानां पतये नमः ॥ 24 वृक्षाणां पतयेचैव गवां च पतये तथा । वृक्षैरावृत्तकायाय सेनान्ये मध्यमायच ॥ 25 स्रुवहस्ताय देवाय धन्विने भार्गवाय च । बहुरूपाय विश्वस्य पतये मुञ्जवाससे ॥ 26 सहस्रशिरसे चैव सहस्र नयनायच । सहस्रबाहवे चैव सहस्र चरणाय च ॥ 27 शरणं गच्छ कौन्तेय वरदं भुवनेश्वरम् । उमापतिं विरूपाक्षं दक्षं यज्ञनिबर्हणम् ॥ 28 प्रजानां पतिमव्यग्रं भूतानां पतिमव्ययम् । कपर्दिनं वृषावर्तं वृषनाभं वृषध्वजम् ॥ 29 वृषदर्पं वृषपतिं वृषशृङ्गं वृषर्षभम् । वृषाकं वृषभोदारं वृषभं वृषभेक्षणम् ॥ 30 वृषायुधं वृषशरं वृषभूतं महेश्वरम् । महोदरं महाकायं द्वीपचर्मनिवासिनम् ॥ 31 लोकेशं वरदं मुण्डं ब्राह्मण्यं ब्राह्मणप्रियम् । त्रिशूलपाणिं वरदं खड्गचर्मधरं शुभम् ॥ 32 पिनाकिनं खड्गधरं लोकानां पतिमीश्वरम् । प्रपद्ये शरणं देवं शरण्यं चीरवासनम् ॥ 33 नमस्तस्मै सुरेशाय यस्य वैश्रवणस्सखा । सुवाससे नमो नित्यं सुव्रताय सुधन्विने ॥ 34 धनुर्धराय देवाय प्रियधन्वाय धन्विने । धन्वन्तराय धनुषे धन्वाचार्याय ते नमः ॥ 35 उग्रायुधाय देवाय नमस्सुरवराय च । नमोऽस्तु बहुरूपाय नमस्ते बहुदन्विने ॥ 36 नमोऽस्तु स्थाणवे नित्यन्नमस्तस्मै सुधन्विने । नमोऽस्तु त्रिपुरघ्नाय भवघ्नाय च वै नमः ॥ 37 वनस्पतीनां पतये नराणां पतये नमः । मातॄणां पतये चैव गणानां पतये नमः ॥ 38 गवां च पतये नित्यं यज्ञानां पतये नमः । अपां च पतये नित्यं देवानां पतये नमः ॥ 39 पूष्णो दन्तविनाशाय त्र्यक्षाय वरदायच । हराय नीलकण्ठाय स्वर्णकेशाय वै नमः ॥ 40 ॐ शान्तिः ॐ शान्तिः ॐ शान्तिः

    Om Jai Jagdish Hare (ॐ जय जगदीश हरे)

    ॐ जय जगदीश हरे (Om Jai Jagdish Hare) ॐ जय जगदीश हरे स्वामी जय जगदीश हरे भक्त जनों के संकट, दास जनों के संकट, क्षण में दूर करे, ॐ जय जगदीश हरे ॥ 1 ॥ जो ध्यावे फल पावे, दुख बिनसे मन का स्वामी दुख बिनसे मन का सुख सम्मति घर आवे, सुख सम्मति घर आवे, कष्ट मिटे तन का ॐ जय जगदीश हरे ॥ 2 ॥ मात पिता तुम मेरे, शरण गहूं मैं किसकी स्वामी शरण गहूं मैं किसकी . तुम बिन और न दूजा, तुम बिन और न दूजा, आस करूं मैं जिसकी ॐ जय जगदीश हरे ॥ 3 ॥ तुम पूरण परमात्मा, तुम अंतरयामी स्वामी तुम अंतरयामी परब्रह्म परमेश्वर, परब्रह्म परमेश्वर, तुम सब के स्वामी ॐ जय जगदीश हरे ॥ 4 ॥ तुम करुणा के सागर, तुम पालनकर्ता स्वामी तुम पालनकर्ता, मैं मूरख खल कामी मैं सेवक तुम स्वामी, कृपा करो भर्तार ॐ जय जगदीश हरे ॥ 5 ॥ तुम हो एक अगोचर, सबके प्राणपति, स्वामी सबके प्राणपति, किस विध मिलूं दयामय, किस विध मिलूं दयामय, तुमको मैं कुमति ॐ जय जगदीश हरे ॥ 6 ॥ दीनबंधु दुखहर्ता, ठाकुर तुम मेरे, स्वामी तुम मेरे अपने हाथ उठावो, अपनी शरण लगावो द्वार पडा तेरे ॐ जय जगदीश हरे ॥ 7 ॥ विषय विकार मिटावो, पाप हरो देवा, स्वामी पाप हरो देवा, श्रद्धा भक्ति बढावो, श्रद्धा भक्ति बढावो, संतन की सेवा ॐ जय जगदीश हरे ॥ 8 ॥

    Nitya Parayan Shloka (नित्य पारायण श्लोकाः)

    नित्य पारायण श्लोकाः (Nitya Parayan Shlokaah) प्रभात श्लोकः कराग्रे वसते लक्ष्मीः करमध्ये सरस्वती । करमूले स्थिता गौरी प्रभाते करदर्​शनम् ॥ [पाठभेदः - करमूले तु गोविंदः प्रभाते करदर्​शनम् ॥] प्रभात भूमि श्लोकः समुद्र वसने देवी पर्वत स्तन मंडले । विष्णुपत्नि नमस्तुभ्यं, पादस्पर्​शं क्षमस्वमे ॥ सूर्योदय श्लोकः ब्रह्मस्वरूप मुदये मध्याह्नेतु महेश्वरम् । साहं ध्यायेत्सदा विष्णुं त्रिमूर्तिं च दिवाकरम् ॥ स्नान श्लोकः गंगे च यमुने चैव गोदावरी सरस्वती नर्मदे सिंधु कावेरी जलेस्मिन् सन्निधिं कुरु ॥ नमस्कार श्लोकः त्वमेव माता च पिता त्वमेव, त्वमेव बंधुश्च सखा त्वमेव । त्वमेव विद्या द्रविणं त्वमेव, त्वमेव सर्वं मम देवदेव ॥ भस्म धारण श्लोकः श्रीकरं च पवित्रं च शोक निवारणम् । लोके वशीकरं पुंसां भस्मं त्र्यैलोक्य पावनम् ॥ भोजन पूर्व श्लोकाः ब्रह्मार्पणं ब्रह्म हविः ब्रह्माग्नौ ब्रह्मणाहुतम् । ब्रह्मैव तेन गंतव्यं ब्रह्म कर्म समाधिनः ॥ अहं-वैँश्वानरो भूत्वा प्राणिनां देहमाश्रितः । प्राणापान समायुक्तः पचाम्यन्नं चतुर्विधम् ॥ अन्नपूर्णे सदा पूर्णे शंकरप्राणवल्लभे । ज्ञानवैराग्य सिद्ध्यर्थं भिक्षां देहि च पार्वति ॥ त्वदीयं-वँस्तु गोविंद तुभ्यमेव समर्पये । गृहाण सुमुखो भूत्वा प्रसीद परमेश्वर ॥ भोजनानंतर श्लोकः अगस्त्यं-वैँनतेयं च शमीं च बडबालनम् । आहार परिणामार्थं स्मरामि च वृकोदरम् ॥ संध्या दीप दर्​शन श्लोकः दीपज्योतिः परं ब्रह्म दीपज्योतिर्जनार्दनः । दीपो हरतु मे पापं दीपज्योतिर्नमोऽस्तुते ॥ शुभं करोति कल्याणं आरोग्यं धनसंपदः । शत्रु-बुद्धि-विनाशाय दीपज्योतिर्नमोऽस्तुते ॥ निद्रा श्लोकः रामं स्कंधं हनुमंतं-वैँनतेयं-वृँकोदरम् । शयने यः स्मरेन्नित्यं दुस्वप्न-स्तस्यनश्यति ॥ अपराध क्षमापण स्तोत्रं अपराध सहस्राणि, क्रियंतेऽहर्निशं मया । दासोऽयमिति मां मत्वा, क्षमस्व परमेश्वर ॥ करचरण कृतं-वाँ कर्म वाक्कायजं-वाँ श्रवण नयनजं-वाँ मानसं-वाँपराधम् । विहित मविहितं-वाँ सर्वमेतत् क्षमस्व शिव शिव करुणाब्धे श्री महादेव शंभो ॥ कायेन वाचा मनसेंद्रियैर्वा बुद्ध्यात्मना वा प्रकृतेः स्वभावात् । करोमि यद्यत्सकलं परस्मै नारायणायेति समर्पयामि ॥ देवता स्तोत्राः कार्य प्रारंभ स्तोत्राः शुक्लां बरधरं-विँष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्व विघ्नोपशांतये ॥ यस्यद्विरद वक्त्राद्याः पारिषद्याः परश्शतम् । विघ्नं निघ्नंतु सततं-विँष्वक्सेनं तमाश्रये ॥ गणेश स्तोत्रं वक्रतुंड महाकाय सूर्यकोटि समप्रभः । निर्विघ्नं कुरु मे देव सर्व कार्येषु सर्वदा ॥ अगजानन पद्मार्कं गजानन महर्निशम् । अनेकदं-तं भक्तानाम्-एकदंत-मुपास्महे ॥ विष्णु स्तोत्रं शांताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वाधारं गगन सदृशं मेघवर्णं शुभांगम् । लक्ष्मीकांतं कमलनयनं-योँगिहृद्ध्यानगम्यं वंदे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥ गायत्रि मंत्रं ॐ भूर्भुव॒स्सुवः॒ । तथ्स॑वि॒तुर्वरे᳚ण्यं॒ । भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचोदया᳚त् ॥ शिव स्तोत्रं त्र्यं॑बकं-यँजामहे सुगं॒धिं पु॑ष्टि॒वर्ध॑नम् । उ॒र्वा॒रु॒कमि॑व॒ बंध॑नान्-मृत्यो॑र्-मुक्षीय॒ माऽमृता᳚त् ॥ वंदे शंभुमुमापतिं सुरगुरुं-वंँदे जगत्कारणं वंदे पन्नगभूषणं शशिधरं-वंँदे पशूनां पतिम्‌ । वंदे सूर्यशशांक वह्निनयनं-वंँदे मुकुंदप्रियं वंदे भक्तजनाश्रयं च वरदं-वंँदे शिवं शंकरम्‌ ॥ सुब्रह्मण्य स्तोत्रं शक्तिहस्तं-विँरूपाक्षं शिखिवाहं षडाननं दारुणं रिपुरोगघ्नं भावये कुक्कुट ध्वजम् । स्कंदं षण्मुखं देवं शिवतेजं चतुर्भुजं कुमारं स्वामिनाधं तं कार्तिकेयं नमाम्यहम् ॥ गुरु श्लोकः गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः । गुरुः साक्षात् परब्रह्मा तस्मै श्री गुरवे नमः ॥ हनुम स्तोत्राः मनोजवं मारुत तुल्यवेगं जितेंद्रियं बुद्धिमतां-वँरिष्टम् । वातात्मजं-वाँनरयूध मुख्यं श्रीरामदूतं शिरसा नमामि ॥ बुद्धिर्बलं-यँशोधैर्यं निर्भयत्वमरोगता । अजाड्यं-वाँक्पटुत्वं च हनुमस्स्मरणाद्-भवेत् ॥ जयत्यति बलो रामो लक्ष्मणस्य महाबलः । राजा जयति सुग्रीवो राघवेणाभि पालितः ॥ दासोऽहं कोसलेंद्रस्य रामस्याक्लिष्ट कर्मणः । हनुमान् शत्रुसैन्यानां निहंता मारुतात्मजः ॥ श्रीराम स्तोत्रां श्री राम राम रामेति रमे रामे मनोरमे सहस्रनाम तत्तुल्यं राम नाम वरानने श्री रामचंद्रः श्रितपारिजातः समस्त कल्याण गुणाभिरामः । सीतामुखांभोरुहाचंचरीको निरंतरं मंगलमातनोतु ॥ श्रीकृष्ण स्तोत्रं मंदारमूले मदनाभिरामं बिंबाधरापूरित वेणुनादम् । गोगोप गोपीजन मध्यसंस्थं गोपं भजे गोकुल पूर्णचंद्रम् ॥ गरुड स्वामि स्तोत्रं कुंकुमांकितवर्णाय कुंदेंदु धवलाय च । विष्णु वाह नमस्तुभ्यं पक्षिराजाय ते नमः ॥ दक्षिणामूर्ति स्तोत्रं गुरवे सर्वलोकानां भिषजे भवरोगिणाम् । निधये सर्व विद्यानां श्री दक्षिणामूर्तये नम ॥ सरस्वती श्लोकः सरस्वती नमस्तुभ्यं-वँरदे कामरूपिणी । विद्यारंभं करिष्यामि सिद्धिर्भवतु मे सदा ॥ या कुंदेंदु तुषार हार धवला, या शुभ्र वस्त्रावृता । या वीणा वरदंड मंडित करा, या श्वेत पद्मासना । या ब्रह्माच्युत शंकर प्रभृतिभिर्-देवैः सदा पूजिता । सा मां पातु सरस्वती भगवती निश्शेषजाड्यापहा ॥ लक्ष्मी श्लोकः लक्ष्मीं क्षीरसमुद्र राज तनयां श्रीरंग धामेश्वरीम् । दासीभूत समस्त देव वनितां-लोँकैक दीपांकुराम् । श्रीमन्मंध कटाक्ष लब्ध विभव ब्रह्मेंद्र गंगाधराम् । त्वां त्रैलोक्यकुटुंबिनीं सरसिजां-वंँदे मुकुंदप्रियाम् ॥ दुर्गा देवी स्तोत्रं सर्व स्वरूपे सर्वेशे सर्व शक्ति समन्विते । भयेभ्यस्ताहि नो देवि दुर्गादेवि नमोस्तुते ॥ त्रिपुरसुंदरी स्तोत्रं ॐकार पंजर शुकीं उपनिषदुद्यान केलि कलकंठीम् । आगम विपिन मयूरीं आर्यां अंतर्विभावयेद्गौरीम् ॥ देवी श्लोकः सर्व मंगल मांगल्ये शिवे सर्वार्थ साधिके । शरण्ये त्र्यंबके देवि नारायणि नमोस्तुते ॥ वेंकटेश्वर श्लोकः श्रियः कांताय कल्याणनिधये निधयेऽर्थिनाम् । श्री वेंकट निवासाय श्रीनिवासाय मंगलम् ॥ दक्षिणामूर्ति श्लोकः गुरवे सर्वलोकानां भिषजे भवरोगिणाम् । निधये सर्वविद्यानां दक्षिणामूर्तये नमः ॥ बौद्ध प्रार्थन बुद्धं शरणं गच्छामि धर्मं शरणं गच्छामि संघं शरणं गच्छामि शांति मंत्रं असतोमा सद्गमया । तमसोमा ज्योतिर्गमया । मृत्योर्मा अमृतंगमया । ॐ शांतिः शांतिः शांतिः सर्वे भवंतु सुखिनः सर्वे संतु निरामयाः । सर्वे भद्राणि पश्यंतु मा कश्चिद्दुःख भाग्भवेत् ॥ ॐ शांतिः शांतिः शांतिः ॐ सर्वेषां स्वस्तिर्भवतु, सर्वेषां शांतिर्भवतु । सर्वेषां पूर्णं भवतु, सर्वेषां मंगलं भवतु । ॐ शांतिः शांतिः शांतिः ॐ स॒ह ना॑ववतु । स॒ नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ॥ ॐ शांतिः॒ शांतिः॒ शांतिः॑ ॥ स्वस्ति मंत्राः स्वस्ति प्रजाभ्यः परिपालयंतां न्यायेन मार्गेण महीं महीशाः । गोब्राह्मणेभ्य-श्शुभमस्तु नित्यं लोका-स्समस्ता-स्सुखिनो भवंतु ॥ काले वर्​षतु पर्जन्यः पृथिवी सस्यशालिनी । देशोयं क्षोभरहितो ब्राह्मणास्संतु निर्भयाः ॥ विशेष मंत्राः पंचाक्षरी मंत्रं - ॐ नमश्शिवाय अष्टाक्षरी मंत्रं - ॐ नमो नारायणाय द्वादशाक्षरी मंत्रं - ॐ नमो भगवते वासुदेवाय

    Vishnu Shatpadi (विष्णु षट्पदि)

    विष्णु षट्पदि (Vishnu Shatpadi) अविनयमपनय विष्णो दमय मनः शमय विषयमृगतृष्णाम् । भूतदयां विस्तारय तारय संसारसागरतः ॥ 1 ॥ दिव्यधुनीमकरन्दे परिमलपरिभोगसच्चिदानन्दे । श्रीपतिपदारविन्दे भवभयखेदच्छिदे वन्दे ॥ 2 ॥ सत्यपि भेदापगमे नाथ तवाऽहं न मामकीनस्त्वम् । सामुद्रो हि तरङ्गः क्वचन समुद्रो न तारङ्गः ॥ 3 ॥ उद्धृतनग नगभिदनुज दनुजकुलामित्र मित्रशशिदृष्टे । दृष्टे भवति प्रभवति न भवति किं भवतिरस्कारः ॥ 4 ॥ मत्स्यादिभिरवतारैरवतारवताऽवता सदा वसुधाम् । परमेश्वर परिपाल्यो भवता भवतापभीतोऽहम् ॥ 5 ॥ दामोदर गुणमन्दिर सुन्दरवदनारविन्द गोविन्द । भवजलधिमथनमन्दर परमं दरमपनय त्वं मे ॥ 6 ॥ नारायण करुणामय शरणं करवाणि तावकौ चरणौ । इति षट्पदी मदीये वदनसरोजे सदा वसतु ॥ इति श्रीमच्चङ्कराचार्य विरचितं श्री विष्णु षट्पदी स्तोत्रं सम्पूर्णम्

    Shri Shrishail Mallikarjun Suprabhatam (श्री श्रीशैल मल्लिकार्जुन सुप्रभातम्)

    श्री श्रीशैल मल्लिकार्जुन सुप्रभातम् (Shri Shrishail Mallikarjun Suprabhatam) प्रातस्स्मरामि गणनाथमनाथबन्धुं सिन्दूरपूरपरिशोभितगण्डयुग्मम् । उद्दण्डविघ्नपरिखण्डनचण्डदण्ड- माखण्डलादिसुरनायकवृन्दवन्द्यम् ॥ 1॥ कलाभ्यां चूडालङ्कृतशशिकलाभ्यां निजतपः फलाभ्यां भक्तेषु प्रकटितफलाभ्यां भवतु मे । शिवाभ्यामास्तीकत्रिभुवनशिवाभ्यां हृदि पुन- र्भवाभ्यामानन्दस्फुरदनुभवाभ्यां नतिरियम् ॥ 2॥ नमस्ते नमस्ते महादेव! शम्भो! नमस्ते नमस्ते दयापूर्णसिन्धो! नमस्ते नमस्ते प्रपन्नात्मबन्धो! नमस्ते नमस्ते नमस्ते महेश ॥ 3॥ शश्वच्छ्रीगिरिमूर्धनि त्रिजगतां रक्षाकृतौ लक्षितां साक्षादक्षतसत्कटाक्षसरणिश्रीमत्सुधावर्षिणीम् । सोमार्धाङ्कितमस्तकां प्रणमतां निस्सीमसम्पत्प्रदां सुश्लोकां भ्रमराम्बिकां स्मितमुखीं शम्भोस्सखीं त्वां स्तुमः ॥ 4॥ मातः! प्रसीद, सदया भव, भव्यशीले ! लीलालवाकुलितदैत्यकुलापहारे ! श्रीचक्रराजनिलये ! श्रुतिगीतकीर्ते ! श्रीशैलनाथदयिते ! तव सुप्रभातम् ॥ 5॥ शम्भो ! सुरेन्द्रनुत ! शङ्कर ! शूलपाणे ! चन्द्रावतंस ! शिव ! शर्व ! पिनाकपाणे ! गङ्गाधर ! क्रतुपते ! गरुडध्वजाप्त ! श्रीमल्लिकार्जुन विभो ! तव सुप्रभातम् ॥ 6॥ विश्वेश ! विश्वजनसेवित ! विश्वमूर्ते ! विश्वम्भर ! त्रिपुरभेदन ! विश्वयोने ! फालाक्ष ! भव्यगुण ! भोगिविभूषणेश ! श्रीमल्लिकार्जुन विभो ! तव सुप्रभातम् ॥ 7॥ कल्याणरूप ! करुणाकर ! कालकण्ठ ! कल्पद्रुमप्रसवपूजित ! कामदायिन् ! दुर्नीतिदैत्यदलनोद्यत ! देव देव ! श्रीमल्लिकार्जुन विभो ! तव सुप्रभातम् ॥ 8॥ गौरीमनोहर ! गणेश्वरसेविताङ्घ्रे ! गन्धर्वयक्षसुरकिन्नरगीतकीर्ते ! गण्डावलम्बिफणिकुण्डलमण्डितास्य ! श्रीमल्लिकार्जुन विभो ! तव सुप्रभातम् ॥ 9॥ नागेन्द्रभूषण ! निरीहित ! निर्विकार ! निर्माय ! निश्चल ! निरर्गल ! नागभेदिन् । नारायणीप्रिय ! नतेष्टद ! निर्मलात्मन् ! श्रीपर्वताधिप ! विभो ! तव सुप्रभातम् ॥ 10॥ सृष्टं त्वयैव जगदेतदशेषमीश ! रक्षाविधिश्च विधिगोचर ! तावकीनः । संहारशक्तिरपि शङ्कर ! किङ्करी ते श्रीशैलशेखर विभो ! तव सुप्रभातम् ॥ 11॥ एकस्त्वमेव बहुधा भव ! भासि लोके निश्शङ्कधीर्वृषभकेतन ! मल्लिनाथ ! श्रीभ्रामरीप्रय ! सुखाश्रय ! लोकनाथ ! श्रीशैलशेखर विभो ! तव सुप्रभातम् ॥ 12॥ पातालगाङ्गजलमज्जननिर्मलाङ्गाः भस्मत्रिपुण्ड्रसमलङ्कृतफालभागाः । गायन्ति देवमुनिभक्तजना भवन्तं श्रीमल्लिकार्जुन विभो ! तव सुप्रभातम् ॥ 13॥ सारस्वताम्बुयुतभोगवतीश्रितायाः ब्रह्मेशविष्णुगिरिचुम्बितकृष्णवेण्याः । सोपानमार्गमधिरुह्य भजन्ति भक्ताः श्रीमल्लिकार्जुन विभो ! तव सुप्रभातम् ॥ 14॥ श्रीमल्लिकार्जुनमहेश्वरसुप्रभात- स्तोत्रं पठन्ति भुवि ये मनुजाः प्रभाते । ते सर्व सौख्यमनुभूय परानवाप्यं श्रीशाम्भवं पदमवाप्य मुदं लभन्ते ॥ 15॥ इति श्रीमल्लिकार्जुनसुप्रभातं सम्पूर्णम् ।

    Shiva Manas Puja (शिव मानस पूज)

    शिव मानस पूज (Shiva Manas Puja) रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं नानारत्न विभूषितं मृगमदा मोदाङ्कितं चन्दनम् । जाती चम्पक बिल्वपत्र रचितं पुष्पं च धूपं तथा दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम् ॥ 1 ॥ सौवर्णे नवरत्नखण्ड रचिते पात्रे घृतं पायसं भक्ष्यं पञ्चविधं पयोदधियुतं रम्भाफलं पानकम् । शाकानामयुतं जलं रुचिकरं कर्पूर खण्डोज्ज्चलं ताम्बूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु ॥ 2 ॥ छत्रं चामरयोर्युगं व्यजनकं चादर्शकं निर्मलं वीणा भेरि मृदङ्ग काहलकला गीतं च नृत्यं तथा । साष्टाङ्गं प्रणतिः स्तुति-र्बहुविधा-ह्येतत्-समस्तं मया सङ्कल्पेन समर्पितं तव विभो पूजां गृहाण प्रभो ॥ 3 ॥ आत्मा त्वं गिरिजा मतिः सहचराः प्राणाः शरीरं गृहं पूजा ते विषयोपभोग-रचना निद्रा समाधिस्थितिः । सञ्चारः पदयोः प्रदक्षिणविधिः स्तोत्राणि सर्वा गिरो यद्यत्कर्म करोमि तत्तदखिलं शम्भो तवाराधनम् ॥ 4 ॥ कर चरण कृतं वाक्कायजं कर्मजं वा श्रवण नयनजं वा मानसं वापराधम् । विहितमविहितं वा सर्वमेतत्-क्षमस्व जय जय करुणाब्धे श्री महादेव शम्भो ॥ 5 ॥

    Shiva Bhujangam (शिव भुजङ्गम्)

    शिव भुजङ्गम् (Shiva Bhujangam) गलद्दानगण्डं मिलद्भृङ्गषण्डं चलच्चारुशुण्डं जगत्त्राणशौण्डम् । कनद्दन्तकाण्डं विपद्भङ्गचण्डं शिवप्रेमपिण्डं भजे वक्रतुण्डम् ॥ 1 ॥ अनाद्यन्तमाद्यं परं तत्त्वमर्थं चिदाकारमेकं तुरीयं त्वमेयम् । हरिब्रह्ममृग्यं परब्रह्मरूपं मनोवागतीतं महःशैवमीडे ॥ 2 ॥ स्वशक्त्यादि शक्त्यन्त सिंहासनस्थं मनोहारि सर्वाङ्गरत्नोरुभूषम् । जटाहीन्दुगङ्गास्थिशम्याकमौलिं पराशक्तिमित्रं नमः पञ्चवक्त्रम् ॥ 3 ॥ शिवेशानतत्पूरुषाघोरवामादिभिः पञ्चभिर्हृन्मुखैः षड्भिरङ्गैः । अनौपम्य षट्त्रिंशतं तत्त्वविद्यामतीतं परं त्वां कथं वेत्ति को वा ॥ 4 ॥ प्रवालप्रवाहप्रभाशोणमर्धं मरुत्वन्मणि श्रीमहः श्याममर्धम् । गुणस्यूतमेतद्वपुः शैवमन्तः स्मरामि स्मरापत्तिसम्पत्तिहेतोः ॥ 5 ॥ स्वसेवासमायातदेवासुरेन्द्रा नमन्मौलिमन्दारमालाभिषिक्तम् । नमस्यामि शम्भो पदाम्भोरुहं ते भवाम्भोधिपोतं भवानी विभाव्यम् ॥ 6 ॥ जगन्नाथ मन्नाथ गौरीसनाथ प्रपन्नानुकम्पिन्विपन्नार्तिहारिन् । महःस्तोममूर्ते समस्तैकबन्धो नमस्ते नमस्ते पुनस्ते नमोऽस्तु ॥ 7 ॥ विरूपाक्ष विश्वेश विश्वादिदेव त्रयी मूल शम्भो शिव त्र्यम्बक त्वम् । प्रसीद स्मर त्राहि पश्यावमुक्त्यै क्षमां प्राप्नुहि त्र्यक्ष मां रक्ष मोदात् ॥ 8 ॥ महादेव देवेश देवादिदेव स्मरारे पुरारे यमारे हरेति । ब्रुवाणः स्मरिष्यामि भक्त्या \लिनॆ भवन्तं ततो मे दयाशील देव प्रसीद ॥ 9 ॥ त्वदन्यः शरण्यः प्रपन्नस्य नेति प्रसीद स्मरन्नेव हन्यास्तु दैन्यम् । न चेत्ते भवेद्भक्तवात्सल्यहानिस्ततो मे दयालो सदा सन्निधेहि ॥ 10 ॥ अयं दानकालस्त्वहं दानपात्रं भवानेव दाता त्वदन्यं न याचे । भवद्भक्तिमेव स्थिरां देहि मह्यं कृपाशील शम्भो कृतार्थोऽस्मि तस्मात् ॥ 11 ॥ पशुं वेत्सि चेन्मां तमेवाधिरूढः कलङ्कीति वा मूर्ध्नि धत्से तमेव । द्विजिह्वः पुनः सोऽपि ते कण्ठभूषा त्वदङ्गीकृताः शर्व सर्वेऽपि धन्याः ॥ 12 ॥ न शक्नोमि कर्तुं परद्रोहलेशं कथं प्रीयसे त्वं न जाने गिरीश । तथाहि प्रसन्नोऽसि कस्यापि कान्तासुतद्रोहिणो वा पितृद्रोहिणो वा ॥ 13 ॥ स्तुतिं ध्यानमर्चां यथावद्विधातुं भजन्नप्यजानन्महेशावलम्बे । त्रसन्तं सुतं त्रातुमग्रे मृकण्डोर्यमप्राणनिर्वापणं त्वत्पदाब्जम् ॥ 14 ॥ शिरो दृष्टि हृद्रोग शूल प्रमेहज्वरार्शो जरायक्ष्महिक्काविषार्तान् । त्वमाद्यो भिषग्भेषजं भस्म शम्भो त्वमुल्लाघयास्मान्वपुर्लाघवाय ॥ 15 ॥ दरिद्रोऽस्म्यभद्रोऽस्मि भग्नोऽस्मि दूये विषण्णोऽस्मि सन्नोऽस्मि खिन्नोऽस्मि चाहम् । भवान्प्राणिनामन्तरात्मासि शम्भो ममाधिं न वेत्सि प्रभो रक्ष मां त्वम् ॥ 16 ॥ त्वदक्ष्णोः कटाक्षः पतेत्त्र्यक्ष यत्र क्षणं क्ष्मा च लक्ष्मीः स्वयं तं वृणाते । किरीटस्फुरच्चामरच्छत्रमालाकलाचीगजक्षौमभूषाविशेषैः ॥ 17 ॥ भवान्यै भवायापि मात्रे च पित्रे मृडान्यै मृडायाप्यघघ्न्यै मखघ्ने । शिवाङ्ग्यै शिवाङ्गाय कुर्मः शिवायै शिवायाम्बिकायै नमस्त्र्यम्बकाय ॥ 18 ॥ भवद्गौरवं मल्लघुत्वं विदित्वा प्रभो रक्ष कारुण्यदृष्ट्यानुगं माम् । शिवात्मानुभावस्तुतावक्षमोऽहं स्वशक्त्या कृतं मेऽपराधं क्षमस्व ॥ 19 ॥ यदा कर्णरन्ध्रं व्रजेत्कालवाहद्विषत्कण्ठघण्टा घणात्कारनादः । वृषाधीशमारुह्य देवौपवाह्यन्तदा वत्स मा भीरिति प्रीणय त्वम् ॥ 20 ॥ यदा दारुणाभाषणा भीषणा मे भविष्यन्त्युपान्ते कृतान्तस्य दूताः । तदा मन्मनस्त्वत्पदाम्भोरुहस्थं कथं निश्चलं स्यान्नमस्तेऽस्तु शम्भो ॥ 21 ॥ यदा दुर्निवारव्यथोऽहं शयानो लुठन्निःश्वसन्निःसृताव्यक्तवाणिः । तदा जह्नुकन्याजलालङ्कृतं ते जटामण्डलं मन्मनोमन्दिरे स्यात् ॥ 22 ॥ यदा पुत्रमित्रादयो मत्सकाशे रुदन्त्यस्य हा कीदृशीयं दशेति । तदा देवदेवेश गौरीश शम्भो नमस्ते शिवायेत्यजस्रं ब्रवाणि ॥ 23 ॥ यदा पश्यतां मामसौ वेत्ति नास्मानयं श्वास एवेति वाचो भवेयुः । तदा भूतिभूषं भुजङ्गावनद्धं पुरारे भवन्तं स्फुटं भावयेयम् ॥ 24 ॥ यदा यातनादेहसन्देहवाही भवेदात्मदेहे न मोहो महान्मे । तदा काशशीतांशुसङ्काशमीश स्मरारे वपुस्ते नमस्ते स्मरामि ॥ 25 ॥ यदापारमच्छायमस्थानमद्भिर्जनैर्वा विहीनं गमिष्यामि मार्गम् । तदा तं निरुन्धङ्कृतान्तस्य मार्गं महादेव मह्यं मनोज्ञं प्रयच्छ ॥ 26 ॥ यदा रौरवादि स्मरन्नेव भीत्या व्रजाम्यत्र मोहं महादेव घोरम् । तदा मामहो नाथ कस्तारयिष्यत्यनाथं पराधीनमर्धेन्दुमौले ॥ 27 ॥ यदा श्वेतपत्रायतालङ्घ्यशक्तेः कृतान्ताद्भयं भक्तिवात्सल्यभावात् । तदा पाहि मां पार्वतीवल्लभान्यं न पश्यामि पातारमेतादृशं मे ॥ 28 ॥ इदानीमिदानीं मृतिर्मे भवित्रीत्यहो सन्ततं चिन्तया पीडितोऽस्मि । कथं नाम मा भून्मृतौ भीतिरेषा नमस्ते गतीनां गते नीलकण्ठ ॥ 29 ॥ अमर्यादमेवाहमाबालवृद्धं हरन्तं कृतान्तं समीक्ष्यास्मि भीतः । मृतौ तावकाङ्घ्र्यब्जदिव्यप्रसादाद्भवानीपते निर्भयोऽहं भवानि ॥ 30 ॥ जराजन्मगर्भाधिवासादिदुःखान्यसह्यानि जह्यां जगन्नाथ देव । भवन्तं विना मे गतिर्नैव शम्भो दयालो न जागर्ति किं वा दया ते ॥ 31 ॥ शिवायेति शब्दो नमःपूर्व एष स्मरन्मुक्तिकृन्मृत्युहा तत्त्ववाची । महेशान मा गान्मनस्तो वचस्तः सदा मह्यमेतत्प्रदानं प्रयच्छ ॥ 32 ॥ त्वमप्यम्ब मां पश्य शीतांशुमौलिप्रिये भेषजं त्वं भवव्याधिशान्तौ बहुक्लेशभाजं पदाम्भोजपोते भवाब्धौ निमग्नं नयस्वाद्य पारम् ॥ 33 ॥ अनुद्यल्ललाटाक्षि वह्नि प्ररोहैरवामस्फुरच्चारुवामोरुशोभैः । अनङ्गभ्रमद्भोगिभूषाविशेषैरचन्द्रार्धचूडैरलं दैवतैर्नः ॥ 34 ॥ अकण्ठेकलङ्कादनङ्गेभुजङ्गादपाणौकपालादफालेऽनलाक्षात् । अमौलौशशाङ्कादवामेकलत्रादहं देवमन्यं न मन्ये न मन्ये ॥ 35 ॥ महादेव शम्भो गिरीश त्रिशूलिंस्त्वदीयं समस्तं विभातीति यस्मात् । शिवादन्यथा दैवतं नाभिजाने शिवोऽहं शिवोऽहं शिवोऽहं शिवोऽहम् ॥ 36 ॥ यतोऽजायतेदं प्रपञ्चं विचित्रं स्थितिं याति यस्मिन्यदेकान्तमन्ते । स कर्मादिहीनः स्वयञ्ज्योतिरात्मा शिवोऽहं शिवोऽहं शिवोऽहं शिवोऽहम् ॥ 37 ॥ किरीटे निशेशो ललाटे हुताशो भुजे भोगिराजो गले कालिमा च । तनौ कामिनी यस्य तत्तुल्यदेवं न जाने न जाने न जाने न जाने ॥ 38 ॥ अनेन स्तवेनादरादम्बिकेशं परां भक्तिमासाद्य यं ये नमन्ति । मृतौ निर्भयास्ते जनास्तं भजन्ते हृदम्भोजमध्ये सदासीनमीशम् ॥ 39 ॥ भुजङ्गप्रियाकल्प शम्भो मयैवं भुजङ्गप्रयातेन वृत्तेन क्लृप्तम् । नरः स्तोत्रमेतत्पठित्वोरुभक्त्या सुपुत्रायुरारोग्यमैश्वर्यमेति ॥ 40 ॥

    Shiva Sankalpa Upanishad (शिवसङ्कल्पोपनिषत् )

    शिवसङ्कल्पोपनिषत् (शिव सङ्कल्पमस्तु) (Shiva Sankalpa Upanishad) येनेदं भूतं भुवनं भविष्यत् परिगृहीतममृतेन सर्वम् । येन यज्ञस्तायते सप्तहोता तन्मे मनः शिवसङ्कल्पमस्तु ॥ 1॥ येन कर्माणि प्रचरन्ति धीरा यतो वाचा मनसा चारु यन्ति । यत्सम्मितमनु संयन्ति प्राणिनस्तन्मे मनः शिवसङ्कल्पमस्तु ॥ 2॥ येन कर्माण्यपसो मनीषिणो यज्ञे कृण्वन्ति विदथेषु धीराः । यदपूर्वं यक्षमन्तः प्रजानां तन्मे मनः शिवसङ्कल्पमस्तु ॥ 3॥ यत्प्रज्ञानमुत चेतो धृतिश्च यज्ज्योतिरन्तरमृतं प्रजासु । यस्मान्न ऋते किञ्चन कर्म क्रियते तन्मे मनः शिवसङ्कल्पमस्तु ॥ 4॥ सुषारथिरश्वानिव यन्मनुष्यान्नेनीयतेऽभीशुभिर्वाजिन इव । हृत्प्रतिष्ठं यदजिरं जविष्ठं तन्मे मनः शिवसङ्कल्पमस्तु ॥ 5॥ यस्मिन्नृचः साम यजूषि यस्मिन् प्रतिष्ठिता रथनाभाविवाराः । यस्मिंश्चित्तं सर्वमोतं प्रजानां तन्मे मनः शिवसङ्कल्पमस्तु ॥ 6॥ यदत्र षष्ठं त्रिशतं सुवीरं यज्ञस्य गुह्यं नवनावमाय्यं (?) । दश पञ्च त्रिंशतं यत्परं च तन्मे मनः शिवसङ्कल्पमस्तु ॥ 7॥ यज्जाग्रतो दूरमुदैति दैवं तदु सुप्तस्य तथैवैति । दूरङ्गमं ज्योतिषां ज्योतिरेकं तन्मे मनः शिवसङ्कल्पमस्तु ॥ 8॥ येन द्यौः पृथिवी चान्तरिक्षं च ये पर्वताः प्रदिशो दिशश्च । येनेदं जगद्व्याप्तं प्रजानां तन्मे मनः शिवसङ्कल्पमस्तु ॥ 9॥ येनेदं विश्वं जगतो बभूव ये देवा अपि महतो जातवेदाः । तदेवाग्निस्तमसो ज्योतिरेकं तन्मे मनः शिवसङ्कल्पमस्तु ॥ 10॥ ये मनो हृदयं ये च देवा ये दिव्या आपो ये सूर्यरश्मिः । ते श्रोत्रे चक्षुषी सञ्चरन्तं तन्मे मनः शिवसङ्कल्पमस्तु ॥ 11॥ अचिन्त्यं चाप्रमेयं च व्यक्ताव्यक्तपरं च यत । सूक्ष्मात्सूक्ष्मतरं ज्ञेयं तन्मे मनः शिवसङ्कल्पमस्तु ॥ 12॥ एका च दश शतं च सहस्रं चायुतं च नियुतं च प्रयुतं चार्बुदं च न्यर्बुदं च । समुद्रश्च मध्यं चान्तश्च परार्धश्च तन्मे मनः शिवसङ्कल्पमस्तु ॥ 13॥ ये पञ्च पञ्चदश शतं सहस्रमयुतं न्यर्बुदं च । तेऽग्निचित्येष्टकास्तं शरीरं तन्मे मनः शिवसङ्कल्पमस्तु ॥ 14॥ वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात् । यस्य योनिं परिपश्यन्ति धीरास्तन्मे मनः शिवसङ्कल्पमस्तु ॥ यस्येदं धीराः पुनन्ति कवयो ब्रह्माणमेतं त्वा वृणुत इन्दुम् । स्थावरं जङ्गमं द्यौराकाशं तन्मे मनः शिवसङ्कल्पमस्तु ॥ 16॥ परात् परतरं चैव यत्पराच्चैव यत्परम् । यत्परात् परतो ज्ञेयं तन्मे मनः शिवसङ्कल्पमस्तु ॥ 17॥ परात् परतरो ब्रह्मा तत्परात् परतो हरिः । तत्परात् परतोऽधीशस्तन्मे मनः शिवसङ्कल्पमस्तु ॥ 18॥ या वेदादिषु गायत्री सर्वव्यापी महेश्वरी । ऋग्यजुस्सामाथर्वैश्च तन्मे मनः शिवसङ्कल्पमस्तु ॥ 19॥ यो वै देवं महादेवं प्रणवं पुरुषोत्तमम् । यः सर्वे सर्ववेदैश्च तन्मे मनः शिवसङ्कल्पमस्तु ॥ 20॥ प्रयतः प्रणवोङ्कारं प्रणवं पुरुषोत्तमम् । ओङ्कारं प्रणवात्मानं तन्मे मनः शिवसङ्कल्पमस्तु ॥ 21॥ योऽसौ सर्वेषु वेदेषु पठ्यते ह्यज इश्वरः । अकायो निर्गुणो ह्यात्मा तन्मे मनः शिवसङ्कल्पमस्तु ॥ 22॥ गोभिर्जुष्टं धनेन ह्यायुषा च बलेन च । प्रजया पशुभिः पुष्कराक्षं तन्मे मनः शिवसङ्कल्पमस्तु ॥ 23॥ त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय माऽमृतात्तन्मे मनः शिवसङ्कल्पमस्तु ॥ 24॥ कैलासशिखरे रम्ये शङ्करस्य शिवालये । देवतास्तत्र मोदन्ते तन्मे मनः शिवसङ्कल्पमस्तु ॥ 25॥ विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोहस्त उत विश्वतस्पात् । सम्बाहुभ्यां नमति सम्पतत्रैर्द्यावापृथिवी जनयन् देव एकस्तन्मे मनः शिवसङ्कल्पमस्तु ॥ 26॥ चतुरो वेदानधीयीत सर्वशास्यमयं विदुः । इतिहासपुराणानां तन्मे मन शिवसङ्कन्ल्पमस्तु ॥ 27॥ मा नो महान्तमुत मा नो अर्भकं मा न उक्षन्तमुत मा न उक्षितम् । मा नो वधीः पितरं मोत मातरं प्रिया मा नः तनुवो रुद्र रीरिषस्तन्मे मनः शिवसङ्कल्पमस्तु ॥ 28॥ मा नस्तोके तनये मा न आयुषि मा नो गोषु मा नो अश्वेषु रीरिषः । वीरान्मा नो रुद्र भामितो वधीर्हविष्मन्तः नमसा विधेम ते तन्मे मनः शिवसङ्कल्पमस्तु ॥ 29॥ ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् । ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमो नमः तन्मे मनः शिवसङ्कल्पमस्तु ॥ 30॥ कद्रुद्राय प्रचेतसे मीढुष्टमाय तव्यसे । वोचेम शन्तमं हृदे । सर्वो ह्येष रुद्रस्तस्मै रुद्राय नमो अस्तु तन्मे मनः शिवसङ्कल्पमस्तु ॥ 31॥ ब्रह्म जज्ञानं प्रथमं पुरस्तात् वि सीमतः सुरुचो वेन आवः । स बुध्निया उपमा अस्य विष्ठाः सतश्च योनिं असतश्च विवस्तन्मे मनः शिवसङ्कल्पमस्तु ॥ 32॥ यः प्राणतो निमिषतो महित्वैक इद्राजा जगतो बभूव । य ईशे अस्य द्विपदश्चतुष्पदः कस्मै देवाय हविषा विधेम तन्मे मनः शिवसङ्कल्पमस्तु ॥ 33॥ य आत्मदा बलदा यस्य विश्वे उपासते प्रशिषं यस्य देवाः । यस्य छायाऽमृतं यस्य मृत्युः कस्मै देवाय हविषा विधेम तन्मे मनः शिवसङ्कल्पमस्तु ॥ 34॥ यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्वा भुवनाऽऽविवेश । तस्मै रुद्राय नमो अस्तु तन्मे मनः शिवसङ्कल्पमस्तु ॥ 35॥ गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् । ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियं तन्मे मनः शिवसङ्कल्पमस्तु ॥ 36॥ य इदं शिवसङ्कल्पं सदा ध्यायन्ति ब्राह्मणाः । ते परं मोक्षं गमिष्यन्ति तन्मे मनः शिवसङ्कल्पमस्तु ॥ 37॥ इति शिवसङ्कल्पमन्त्राः समाप्ताः । (शैव-उपनिषदः) इति शिवसङ्कल्पोपनिषत् समाप्त ।

    Bhaj Govindam (भज गोविन्दम्)

    भज गोविन्दम् (मोह मुद्गरम्) (Bhaj Govindam) भज गोविन्दं भज गोविन्दं गोविन्दं भज मूढमते । सम्प्राप्ते सन्निहिते काले नहि नहि रक्षति डुकृङ्करणे ॥ 1 ॥ मूढ जहीहि धनागमतृष्णां कुरु सद्बुद्धिं मनसि वितृष्णाम् । यल्लभसे निजकर्मोपात्तं वित्तं तेन विनोदय चित्तम् ॥ 2 ॥ नारीस्तनभर-नाभीदेशं दृष्ट्वा मा गा मोहावेशम् । एतन्मांसवसादिविकारं मनसि विचिन्तय वारं वारम् ॥ 3 ॥ नलिनीदल-गतजलमतितरलं तद्वज्जीवितमतिशय-चपलम् । विद्धि व्याध्यभिमानग्रस्तं लोकं शोकहतं च समस्तम् ॥ 4 ॥ यावद्वित्तोपार्जनसक्तः तावन्निजपरिवारो रक्तः । पश्चाज्जीवति जर्जरदेहे वार्तां कोऽपि न पृच्छति गेहे ॥ 5 ॥ यावत्पवनो निवसति देहे तावत्पृच्छति कुशलं गेहे । गतवति वायौ देहापाये भार्या बिभ्यति तस्मिन्काये ॥ 6 ॥ बालस्तावत्क्रीडासक्तः तरुणस्तावत्तरुणीसक्तः । वृद्धस्तावच्चिन्तासक्तः परमे ब्रह्मणि कोऽपि न सक्तः ॥ 7 ॥ का ते कान्ता कस्ते पुत्रः संसारोऽयमतीव विचित्रः । कस्य त्वं कः कुत आयातः तत्त्वं चिन्तय तदिह भ्रातः ॥ 8 ॥ सत्सङ्गत्वे निस्सङ्गत्वं निस्सङ्गत्वे निर्मोहत्वम् । निर्मोहत्वे निश्चलतत्त्वं निश्चलतत्त्वे जीवन्मुक्तिः ॥ 9 ॥ वयसि गते कः कामविकारः शुष्के नीरे कः कासारः । क्षीणे वित्ते कः परिवारः ज्ञाते तत्त्वे कः संसारः ॥ 10 ॥ मा कुरु धन-जन-यौवन-गर्वं हरति निमेषात्कालः सर्वम् । मायामयमिदमखिलं हित्वा ब्रह्मपदं त्वं प्रविश विदित्वा ॥ 11 ॥ दिनयामिन्यौ सायं प्रातः शिशिरवसन्तौ पुनरायातः । कालः क्रीडति गच्छत्यायुः तदपि न मुञ्चत्याशावायुः ॥ 12 ॥ का ते कान्ता धनगतचिन्ता वातुल किं तव नास्ति नियन्ता । त्रिजगति सज्जनसङ्गतिरेका भवति भवार्णवतरणे नौका ॥ 13 ॥ द्वादश-मञ्जरिकाभिरशेषः कथितो वैयाकरणस्यैषः । उपदेशोऽभूद्विद्या-निपुणैः श्रीमच्छङ्कर-भगवच्छरणैः ॥ 14 ॥ जटिलो मुण्डी लुञ्छितकेशः काषायाम्बर-बहुकृतवेषः । पश्यन्नपि च न पश्यति मूढः उदरनिमित्तं बहुकृतवेषः ॥ 15 ॥ अङ्गं गलितं पलितं मुण्डं दशनविहीनं जातं तुण्डम् । वृद्धो याति गृहीत्वा दण्डं तदपि न मुञ्चत्याशापिण्डम् ॥ 16 ॥ अग्रे वह्निः पृष्ठे भानुः रात्रौ चुबुक-समर्पित-जानुः । करतल-भिक्षस्तरुतलवासः तदपि न मुञ्चत्याशापाशः ॥ 17 ॥ कुरुते गङ्गासागरगमनं व्रत-परिपालनमथवा दानम् । ज्ञानविहीनः सर्वमतेन भजति न मुक्तिं जन्मशतेन ॥ 18 ॥ सुरमन्दिर-तरु-मूल-निवासः शय्या भूतलमजिनं वासः । सर्व-परिग्रह-भोगत्यागः कस्य सुखं न करोति विरागः ॥ 19 ॥ योगरतो वा भोगरतो वा सङ्गरतो वा सङ्गविहीनः । यस्य ब्रह्मणि रमते चित्तं नन्दति नन्दति नन्दत्येव ॥ 20 ॥ भगवद्गीता किञ्चिदधीता गङ्गाजल-लवकणिका पीता । सकृदपि येन मुरारिसमर्चा क्रियते तस्य यमेन न चर्चा ॥ 21 ॥ पुनरपि जननं पुनरपि मरणं पुनरपि जननीजठरे शयनम् । इह संसारे बहुदुस्तारे कृपयाऽपारे पाहि मुरारे ॥ 22 ॥ रथ्याचर्पट-विरचित-कन्थः पुण्यापुण्य-विवर्जित-पन्थः । योगी योगनियोजित-चित्तः रमते बालोन्मत्तवदेव ॥ 23 ॥ कस्त्वं कोऽहं कुत आयातः का मे जननी को मे तातः । इति परिभावय सर्वमसारं विश्वं त्यक्त्वा स्वप्नविचारम् ॥ 24 ॥ त्वयि मयि चान्यत्रैको विष्णुः व्यर्थं कुप्यसि मय्यसहिष्णुः । भव समचित्तः सर्वत्र त्वं वाञ्छस्यचिराद्यदि विष्णुत्वम् ॥ 25 ॥ शत्रौ मित्रे पुत्रे बन्धौ मा कुरु यत्नं विग्रहसन्धौ । सर्वस्मिन्नपि पश्यात्मानं सर्वत्रोत्सृज भेदाज्ञानम् ॥ 26 ॥ कामं क्रोधं लोभं मोहं त्यक्त्वाऽऽत्मानं पश्यति सोऽहम् । आत्मज्ञानविहीना मूढाः ते पच्यन्ते नरकनिगूढाः ॥ 27 ॥ गेयं गीता-नामसहस्रं ध्येयं श्रीपति-रूपमजस्रम् । नेयं सज्जन-सङ्गे चित्तं देयं दीनजनाय च वित्तम् ॥ 28 ॥ सुखतः क्रियते कामाभोगः पश्चादन्त शरीरे रोगः । यद्यपि लोके मरणं शरणं तदपि न मुञ्चति पापाचरणम् ॥ 29 ॥ अर्थमनर्थं भावय नित्यं नास्तिततः सुखलेशः सत्यम् । पुत्रादपि धनभाजां भीतिः सर्वत्रैषा विहिता रीतिः ॥ 30 ॥ प्राणायामं प्रत्याहारं नित्यानित्य विवेकविचारम् । जाप्यसमेतसमाधिविधानं कुर्ववधानं महदवधानम् ॥ 31 ॥ गुरुचरणाम्बुज-निर्भरभक्तः संसारादचिराद्भव मुक्तः । सेन्द्रियमानस-नियमादेवं द्रक्ष्यसि निजहृदयस्थं देवम् ॥ 32 ॥ मूढः कश्चन वैयाकरणो डुःकृङ्करणाध्ययनधुरीणः । श्रीमच्छङ्कर-भगवच्छिष्यैः बोधित आसीच्छोधित-करणः ॥ 33 ॥ भज गोविन्दं भज गोविन्दं गोविन्दं भज मूढमते । नामस्मरणादन्यमुपायं नहि पश्यामो भवतरणे ॥ 34 ॥

    Shri Srinivasa Gadyam (श्री श्रीनिवास गद्यम्)

    श्री श्रीनिवास गद्यम् (Shri Srinivasa Gadyam) श्रीमदखिलमहीमण्डलमण्डनधरणीधर मण्डलाखण्डलस्य, निखिलसुरासुरवन्दित वराहक्षेत्र विभूषणस्य, शेषाचल गरुडाचल सिंहाचल वृषभाचल नारायणाचलाञ्जनाचलादि शिखरिमालाकुलस्य, नाथमुख बोधनिधिवीथिगुणसाभरण सत्त्वनिधि तत्त्वनिधि भक्तिगुणपूर्ण श्रीशैलपूर्ण गुणवशंवद परमपुरुषकृपापूर विभ्रमदतुङ्गशृङ्ग गलद्गगनगङ्गासमालिङ्गितस्य, सीमातिग गुण रामानुजमुनि नामाङ्कित बहु भूमाश्रय सुरधामालय वनरामायत वनसीमापरिवृत विशङ्कटतट निरन्तर विजृम्भित भक्तिरस निर्घरानन्तार्याहार्य प्रस्रवणधारापूर विभ्रमद सलिलभरभरित महातटाक मण्डितस्य, कलिकर्दम मलमर्दन कलितोद्यम विलसद्यम नियमादिम मुनिगणनिषेव्यमाण प्रत्यक्षीभवन्निजसलिल समज्जन नमज्जन निखिलपापनाशना पापनाशन तीर्थाध्यासितस्य, मुरारिसेवक जरादिपीडित निरार्तिजीवन निराश भूसुर वरातिसुन्दर सुराङ्गनारति कराङ्गसौष्ठव कुमारताकृति कुमारतारक समापनोदय दनूनपातक महापदामय विहापनोदित सकलभुवन विदित कुमारधाराभिधान तीर्थाधिष्ठितस्य, धरणितल गतसकल हतकलिल शुभसलिल गतबहुल विविधमल हतिचतुर रुचिरतर विलोकनमात्र विदलित विविध महापातक स्वामिपुष्करिणी समेतस्य, बहुसङ्कट नरकावट पतदुत्कट कलिकङ्कट कलुषोद्भट जनपातक विनिपातक रुचिनाटक करहाटक कलशाहृत कमलारत शुभमञ्जन जलसज्जन भरभरित निजदुरित हतिनिरत जनसतत निरस्तनिरर्गल पेपीयमान सलिल सम्भृत विशङ्कट कटाहतीर्थ विभूषितस्य, एवमादिम भूरिमञ्जिम सर्वपातक गर्वहापक सिन्धुडम्बर हारिशम्बर विविधविपुल पुण्यतीर्थनिवह निवासस्य, श्रीमतो वेङ्कटाचलस्य शिखरशेखरमहाकल्पशाखी, खर्वीभवदति गर्वीकृत गुरुमेर्वीशगिरि मुखोर्वीधर कुलदर्वीकर दयितोर्वीधर शिखरोर्वी सतत सदूर्वीकृति चरणघन गर्वचर्वणनिपुण तनुकिरणमसृणित गिरिशिखर शेखरतरुनिकर तिमिरः, वाणीपतिशर्वाणी दयितेन्द्राणिश्वर मुख नाणीयोरसवेणी निभशुभवाणी नुतमहिमाणी य स्तन कोणी भवदखिल भुवनभवनोदरः, वैमानिकगुरु भूमाधिक गुण रामानुज कृतधामाकर करधामारि दरललामाच्छकनक दामायित निजरामालय नवकिसलयमय तोरणमालायित वनमालाधरः, कालाम्बुद मालानिभ नीलालक जालावृत बालाब्ज सलीलामल फालाङ्कसमूलामृत धाराद्वयावधीरण धीरललिततर विशदतर घन घनसार मयोर्ध्वपुण्ड्र रेखाद्वयरुचिरः, सुविकस्वर दलभास्वर कमलोदर गतमेदुर नवकेसर ततिभासुर परिपिञ्जर कनकाम्बर कलितादर ललितोदर तदालम्ब जम्भरिपु मणिस्तम्भ गम्भीरिमदम्भस्तम्भ समुज्जृम्भमाण पीवरोरुयुगल तदालम्ब पृथुल कदली मुकुल मदहरणजङ्घाल जङ्घायुगलः, नव्यदल भव्यमल पीतमल शोणिमलसन्मृदुल सत्किसलयाश्रुजलकारि बल शोणतल पदकमल निजाश्रय बलबन्दीकृत शरदिन्दुमण्डली विभ्रमदादभ्र शुभ्र पुनर्भवाधिष्ठिताङ्गुलीगाढ निपीडित पद्मावनः, जानुतलावधि लम्ब विडम्बित वारण शुण्डादण्ड विजृम्भित नीलमणिमय कल्पकशाखा विभ्रमदायि मृणाललतायित समुज्ज्वलतर कनकवलय वेल्लितैकतर बाहुदण्डयुगलः, युगपदुदित कोटि खरकर हिमकर मण्डल जाज्वल्यमान सुदर्शन पाञ्चजन्य समुत्तुङ्गित शृङ्गापर बाहुयुगलः, अभिनवशाण समुत्तेजित महामहा नीलखण्ड मदखण्डन निपुण नवीन परितप्त कार्तस्वर कवचित महनीय पृथुल सालग्राम परम्परा गुम्भित नाभिमण्डल पर्यन्त लम्बमान प्रालम्बदीप्ति समालम्बित विशाल वक्षःस्थलः, गङ्गाझर तुङ्गाकृति भङ्गावलि भङ्गावह सौधावलि बाधावह धारानिभ हारावलि दूराहत गेहान्तर मोहावह महिम मसृणित महातिमिरः, पिङ्गाकृति भृङ्गार निभाङ्गार दलाङ्गामल निष्कासित दुष्कार्यघ निष्कावलि दीपप्रभ नीपच्छवि तापप्रद कनकमालिका पिशङ्गित सर्वाङ्गः, नवदलित दलवलित मृदुललित कमलतति मदविहति चतुरतर पृथुलतर सरसतर कनकसरमय रुचिरकण्ठिका कमनीयकण्ठः, वाताशनाधिपति शयन कमन परिचरण रतिसमेताखिल फणधरतति मतिकरवर कनकमय नागाभरण परिवीताखिलाङ्गा वगमित शयन भूताहिराज जातातिशयः, रविकोटी परिपाटी धरकोटी रवराटी कितवीटी रसधाटी धरमणिगणकिरण विसरण सततविधुत तिमिरमोह गार्भगेहः, अपरिमित विविधभुवन भरिताखण्ड ब्रह्माण्डमण्डल पिचण्डिलः, आर्यधुर्यानन्तार्य पवित्र खनित्रपात पात्रीकृत निजचुबुक गतव्रणकिण विभूषण वहनसूचित श्रितजन वत्सलतातिशयः, मड्डुडिण्डिम ढमरु जर्घर काहली पटहावली मृदुमद्दलादि मृदङ्ग दुन्दुभि ढक्किकामुख हृद्य वाद्यक मधुरमङ्गल नादमेदुर नाटारभि भूपाल बिलहरि मायामालव गौल असावेरी सावेरी शुद्धसावेरी देवगान्धारी धन्यासी बेगड हिन्दुस्तानी कापी तोडि नाटकुरुञ्जी श्रीराग सहन अठाण सारङ्गी दर्बारु पन्तुवराली वराली कल्याणी भूरिकल्याणी यमुनाकल्याणी हुशेनी जञ्झोठी कौमारी कन्नड खरहरप्रिया कलहंस नादनामक्रिया मुखारी तोडी पुन्नागवराली काम्भोजी भैरवी यदुकुलकाम्भोजी आनन्दभैरवी शङ्कराभरण मोहन रेगुप्ती सौराष्ट्री नीलाम्बरी गुणक्रिया मेघगर्जनी हंसध्वनि शोकवराली मध्यमावती जेञ्जुरुटी सुरटी द्विजावन्ती मलयाम्बरी कापीपरशु धनासिरी देशिकतोडी आहिरी वसन्तगौली सन्तु केदारगौल कनकाङ्गी रत्नाङ्गी गानमूर्ती वनस्पती वाचस्पती दानवती मानरूपी सेनापती हनुमत्तोडी धेनुका नाटकप्रिया कोकिलप्रिया रूपवती गायकप्रिया वकुलाभरण चक्रवाक सूर्यकान्त हाटकाम्बरी झङ्कारध्वनी नटभैरवी कीरवाणी हरिकाम्भोदी धीरशङ्कराभरण नागानन्दिनी यागप्रियादि विसृमर सरस गानरुचिर सन्तत सन्तन्यमान नित्योत्सव पक्षोत्सव मासोत्सव संवत्सरोत्सवादि विविधोत्सव कृतानन्दः श्रीमदानन्दनिलय विमानवासः, सतत पद्मालया पदपद्मरेणु सञ्चितवक्षस्तल पटवासः, श्रीश्रीनिवासः सुप्रसन्नो विजयतां. श्री​अलर्मेल्मङ्गा नायिकासमेतः श्रीश्रीनिवास स्वामी सुप्रीतः सुप्रसन्नो वरदो भूत्वा, पवन पाटली पालाश बिल्व पुन्नाग चूत कदली चन्दन चम्पक मञ्जुल मन्दार हिञ्जुलादि तिलक मातुलुङ्ग नारिकेल क्रौञ्चाशोक माधूकामलक हिन्दुक नागकेतक पूर्णकुन्द पूर्णगन्ध रस कन्द वन वञ्जुल खर्जूर साल कोविदार हिन्ताल पनस विकट वैकसवरुण तरुघमरण विचुलङ्काश्वत्थ यक्ष वसुध वर्माध मन्त्रिणी तिन्त्रिणी बोध न्यग्रोध घटवटल जम्बूमतल्ली वीरतचुल्ली वसति वासती जीवनी पोषणी प्रमुख निखिल सन्दोह तमाल माला महित विराजमान चषक मयूर हंस भारद्वाज कोकिल चक्रवाक कपोत गरुड नारायण नानाविध पक्षिजाति समूह ब्रह्म क्षत्रिय वैश्य शूद्र नानाजात्युद्भव देवता निर्माण माणिक्य वज्र वैढूर्य गोमेधिक पुष्यराग पद्मरागेन्द्र नील प्रवालमौक्तिक स्फटिक हेम रत्नखचित धगद्धगायमान रथ गज तुरग पदाति सेना समूह भेरी मद्दल मुरवक झल्लरी शङ्ख काहल नृत्यगीत तालवाद्य कुम्भवाद्य पञ्चमुखवाद्य अहमीमार्गन्नटीवाद्य किटिकुन्तलवाद्य सुरटीचौण्डोवाद्य तिमिलकवितालवाद्य तक्कराग्रवाद्य घण्टाताडन ब्रह्मताल समताल कॊट्टरीताल ढक्करीताल ऎक्काल धारावाद्य पटहकांस्यवाद्य भरतनाट्यालङ्कार किन्नॆर किम्पुरुष रुद्रवीणा मुखवीणा वायुवीणा तुम्बुरुवीणा गान्धर्ववीणा नारदवीणा स्वरमण्डल रावणहस्तवीणास्तक्रियालङ्क्रियालङ्कृतानेकविधवाद्य वापीकूपतटाकादि गङ्गायमुना रेवावरुणा शोणनदीशोभनदी सुवर्णमुखी वेगवती वेत्रवती क्षीरनदी बाहुनदी गरुडनदी कावेरी ताम्रपर्णी प्रमुखाः महापुण्यनद्यः सजलतीर्थैः सहोभयकूलङ्गत सदाप्रवाह ऋग्यजुस्सामाथर्वण वेदशास्त्रेतिहास पुराण सकलविद्याघोष भानुकोटिप्रकाश चन्द्रकोटि समान नित्यकल्याण परम्परोत्तरोत्तराभिवृद्धिर्भूयादिति भवन्तो महान्तोzनुगृह्णन्तु, ब्रह्मण्यो राजा धार्मिकोzस्तु, देशोयं निरुपद्रवोzस्तु, सर्वे साधुजनास्सुखिनो विलसन्तु, समस्तसन्मङ्गलानि सन्तु, उत्तरोत्तराभिवृद्धिरस्तु, सकलकल्याण समृद्धिरस्तु ॥ हरिः ओम् ॥

    Krishnam Kalay Sakhi (कृष्णं कलय सखि)

    कृष्णं कलय सखि (Krishnam Kalay Sakhi) रागं: मुखारि तालं: आदि कृष्णं कलय सखि सुन्दरं बाल कृष्णं कलय सखि सुन्दरं कृष्णं कथविषय तृष्णं जगत्प्रभ विष्णुं सुरारिगण जिष्णुं सदा बाल कृष्णं कलय सखि सुन्दरं नृत्यन्तमिह मुहुरत्यन्तमपरिमित भृत्यानुकूलं अखिल सत्यं सदा बाल कृष्णं कलय सखि सुन्दरं धीरं भवजलभारं सकलवेदसारं समस्तयोगिधारं सदा बाल कृष्णं कलय सखि सुन्दरं शृङ्गार रसभर सङ्गीत साहित्य गङ्गालहरिकेल सङ्गं सदा बाल कृष्णं कलय सखि सुन्दरं रामेण जगदभिरामेण बलभद्ररामेण समवाप्त कामेन सह बाल कृष्णं कलय सखि सुन्दरं दामोदरं अखिल कामाकरङ्गन श्यामाकृतिं असुर भीमं सदा बाल कृष्णं कलय सखि सुन्दरं राधारुणाधर सुतापं सच्चिदानन्दरूपं जगत्रयभूपं सदा बाल कृष्णं कलय सखि सुन्दरं अर्थं शितिलीकृतानर्थं श्री नारायण तीर्थं परमपुरुषार्थं सदा बाल कृष्णं कलय सखि सुन्दरं

    Alokye Shri Balakrishnam (आलोकये श्री बालकृष्णम्)

    आलोकये श्री बालकृष्णम् (Alokye Shri Balakrishnam) रागं: हुसेनि तालं: आदि आलोकये श्री बाल कृष्णं सखि आनन्द सुन्दर ताण्डव कृष्णम् ॥आलोकये॥ चरण निक्वणित नूपुर कृष्णं कर सङ्गत कनक कङ्कण कृष्णम् ॥आलोकये॥ किङ्किणी जाल घण घणित कृष्णं लोक शङ्कित तारावलि मौक्तिक कृष्णम् ॥आलोकये॥ सुन्दर नासा मौक्तिक शोभित कृष्णं नन्द नन्दनं अखण्ड विभूति कृष्णम् ॥आलोकये॥ कण्ठोप कण्ठ शोभि कौस्तुभ कृष्णं कलि कल्मष तिमिर भास्कर कृष्णम् ॥आलोकये॥ नवनीत खण्ठ दधि चोर कृष्णं भक्त भव पाश बन्ध मोचन कृष्णम् ॥आलोकये॥ नील मेघ श्याम सुन्दर कृष्णं नित्य निर्मलानन्द बोध लक्षण कृष्णम् ॥आलोकये॥ वंशी नाद विनोद सुन्दर कृष्णं परमहंस कुल शंसित चरित कृष्णम् ॥आलोकये॥ गोवत्स बृन्द पालक कृष्णं कृत गोपिका चाल खेलन कृष्णम् ॥आलोकये॥ नन्द सुनन्दादि वन्दित कृष्णं श्री नारायण तीर्थ वरद कृष्णम् ॥आलोकये॥

    Gopal Krishna Dashavataram (गोपाल कृष्ण दशावतारम्)

    गोपाल कृष्ण दशावतारम् (Gopal Krishna Dashavataram) मल्लॆपूलहारमॆय्यवे ओयम्म नन्नु मत्स्यावतारुडनवे मल्लॆपूलहारमेसॆदा गोपालकृष्ण मत्स्यावतारुडनॆद कुप्पिकुच्चुल जडलुवॆय्यवे ओयम्म नन्नु कूर्मावतारुडनवे कुप्पिकुच्चुल जडलुवेसॆदा गोपालकृष्ण कूर्मावतारुडनॆद वरमुलिच्चि दीविञ्चवे ओयम्म नन्नु वरहावतारुडनवे वरमुलिच्चि दीविञ्चॆद गोपालकृष्ण वरहावतारुडनॆद नाण्यमैन नगलुवेयवे ओयम्म नन्नु नरसिंहावतारुडनवे नाण्यमैन नगलुवेसॆदा गोपालकृष्ण नरसिंहावतारुडनॆद वायुवेग रथमुनिय्यवे ओयम्म नन्नु वामनवतारुडनवे वायुवेग रथमुनिच्चॆदा गोपालकृष्ण वामनावतारुडनॆद पालु पोसि बुव्वपॆट्टवे ओयम्म नन्नु परशुरामावतारुडनवे पालु पोसि बुव्वपॆट्टॆद गोपालकृष्ण परशुरामावतारुडनॆद आनन्दबालुडनवे ओयम्म नन्नु अयोध्यवासुडनवे आनन्दबालुडनॆद गोपालकृष्ण अयोध्यवासुडनॆद गोवुलुकाचॆ बालुडनवॆ ओयम्म नन्नु गोपालकृष्णुडनवे गोवुलुकाचॆ बालुडनॆद ना तण्ड्रि निन्नु गोपालकृष्णुडनॆद बुध्धुलु कलिपि मुद्दपॆट्टवे ओयम्म नन्नु बुध्धावतारुडनवे बुध्धुलु कलिपि मुद्दपॆट्टॆद गोपालकृष्ण बुध्धावतारुडनॆद काल्लकु पसिडिगज्जॆलु कट्टवे ओयम्म नन्नु कलिकावतारुडनवे काल्लकु पसिडिगज्जॆलु कट्टॆद गोपालकृष्ण कलिकावतारुडनॆद

    Dwadash Aditya Dhyan Shloka (द्वादश आदित्य ध्यान श्लोकाः)

    द्वादश आदित्य ध्यान श्लोकाः (Dwadash Aditya Dhyan Shloka) 1. धाता धाता कृतस्थली हेतिर्वासुकी रथकृन्मुने । पुलस्त्यस्तुम्बुरुरिति मधुमासं नयन्त्यमी ॥ धाता शुभस्य मे दाता भूयो भूयोऽपि भूयसः । रश्मिजालसमाश्लिष्टः तमस्तोमविनाशनः ॥ 2. अर्यम् अर्यमा पुलहोऽथौजाः प्रहेति पुञ्जिकस्थली । नारदः कच्छनीरश्च नयन्त्येते स्म माधवम् ॥ मेरुशृङ्गान्तरचरः कमलाकरबान्धवः । अर्यमा तु सदा भूत्यै भूयस्यै प्रणतस्य मे ॥ 3. मित्रः मित्रोऽत्रिः पौरुषेयोऽथ तक्षको मेनका हहः । रथस्वन इति ह्येते शुक्रमासं नयन्त्यमी ॥ निशानिवारणपटुः उदयाद्रिकृताश्रयः । मित्रोऽस्तु मम मोदाय तमस्तोमविनाशनः ॥ 4. वरुणः वसिष्ठो ह्यरुणो रम्भा सहजन्यस्तथा हुहुः । शुक्रश्चित्रस्वनश्चैव शुचिमासं नयन्त्यमी ॥ सूर्यस्यन्दनमारूढ अर्चिर्माली प्रतापवान् । कालभूतः कामरूपो ह्यरुणः सेव्यते मया ॥ 5. इन्द्रः इन्द्रो विश्वावसुः श्रोता एलापत्रस्तथाऽङ्गिराः । प्रम्लोचा राक्षसोवर्यो नभोमासं नयन्त्यमी ॥ सहस्ररश्मिसंवीतं इन्द्रं वरदमाश्रये । शिरसा प्रणमाम्यद्य श्रेयो वृद्धिप्रदायकम् ॥ 6. विवस्वान् विवस्वानुग्रसेनश्च व्याघ्र आसारणो भृगुः । अनुम्लोचाः शङ्खपालो नभस्याख्यं नयन्त्यमी ॥ जगन्निर्माणकर्तारं सर्वदिग्व्याप्ततेजसम् । नभोग्रहमहादीपं विवस्वन्तं नमाम्यहम् ॥ 7. त्वष्टा त्वष्टा ऋचीकतनयः कम्बलाख्यस्तिलोत्तमा । ब्रह्मापेतोऽथ शतजित् धृतराष्ट्र इषम्भरा ॥ त्वष्टा शुभाय मे भूयात् शिष्टावलिनिषेवितः । नानाशिल्पकरो नानाधातुरूपः प्रभाकरः । 8. विष्णुः विष्णुरश्वतरो रम्भा सूर्यवर्चाश्च सत्यजित् । विश्वामित्रो मखापेत ऊर्जमासं नयन्त्यमी ॥ भानुमण्डलमध्यस्थं वेदत्रयनिषेवितम् । गायत्रीप्रतिपाद्यं तं विष्णुं भक्त्या नमाम्यहम् ॥ 9. अंशुमान् अथांशुः कश्यपस्तार्क्ष्य ऋतसेनस्तथोर्वशी । विद्युच्छत्रुर्महाशङ्खः सहोमासं नयन्त्यमी ॥ सदा विद्रावणरतो जगन्मङ्गलदीपकः । मुनीन्द्रनिवहस्तुत्यो भूतिदोऽंशुर्भवेन्मम ॥ 10. भगः भगः स्फूर्जोऽरिष्टनेमिः ऊर्ण आयुश्च पञ्चमः । कर्कोटकः पूर्वचित्तिः पौषमासं नयन्त्यमी ॥ तिथि मास ऋतूनां च वत्सराऽयनयोरपि । घटिकानां च यः कर्ता भगो भाग्यप्रदोऽस्तु मे ॥ 11. पूष पूषा धनञ्जयो वातः सुषेणः सुरुचिस्तथा । घृताची गौतमश्चेति तपोमासं नयन्त्यमी । पूषा तोषाय मे भूयात् सर्वपापाऽपनोदनात् । सहस्रकरसंवीतः समस्ताशान्तरान्तरः ॥ 12. पर्जन्यः क्रतुर्वार्चा भरद्वाजः पर्जन्यः सेनजित् तथा । विश्वश्चैरावतश्चैव तपस्याख्यं नयन्त्यमी ॥ प्रपञ्चं प्रतपन् भूयो वृष्टिभिर्मादयन् पुनः । जगदानन्दजनकः पर्जन्यः पूज्यते मया ॥ ध्यायेस्सदा सवितृमण्डलमध्यवर्ती नारायणस्सरसिजासन सन्निविष्टः। केयूरवान् मकरकुण्डलवान् किरीटी हारी हिरण्मयवपुः धृतशङ्खचक्रः ॥

    Pandava Gita (पाण्डवगीता)

    पाण्डवगीता (Pandava Gita) प्रह्लादनारदपराशरपुण्डरीक- व्यासाम्बरीषशुकशौनकभीष्मकाव्याः । रुक्माङ्गदार्जुनवसिष्ठविभीषणाद्या एतानहं परमभागवतान् नमामि ॥ 1॥ लोमहर्षण उवाच । धर्मो विवर्धति युधिष्ठिरकीर्तनेन पापं प्रणश्यति वृकोदरकीर्तनेन । शत्रुर्विनश्यति धनञ्जयकीर्तनेन माद्रीसुतौ कथयतां न भवन्ति रोगाः ॥ 2॥ ब्रह्मोवाच । ये मानवा विगतरागपराऽपरज्ञा नारायणं सुरगुरुं सततं स्मरन्ति । ध्यानेन तेन हतकिल्बिष चेतनास्ते मातुः पयोधररसं न पुनः पिबन्ति ॥ 3॥ इन्द्र उवाच । नारायणो नाम नरो नराणां प्रसिद्धचौरः कथितः पृथिव्याम् । अनेकजन्मार्जितपापसञ्चयं हरत्यशेषं स्मृतमात्र एव यः ॥ 4॥ युधिष्ठिर उवाच । मेघश्यामं पीतकौशेयवासं श्रीवत्साङ्कं कौस्तुभोद्भासिताङ्गम् । पुण्योपेतं पुण्डरीकायताक्षं विष्णुं वन्दे सर्वलोकैकनाथम् ॥ 5॥ भीम उवाच । जलौघमग्ना सचराऽचरा धरा विषाणकोट्याऽखिलविश्वमूर्तिना । समुद्धृता येन वराहरूपिणा स मे स्वयम्भूर्भगवान् प्रसीदरु ॥ 6॥ अर्जुन उवाच । अचिन्त्यमव्यक्तमनन्तमव्ययं विभुं प्रभुं भावितविश्वभावनम् । त्रैलोक्यविस्तारविचारकारकं हरिं प्रपन्नोऽस्मि गतिं महात्मनाम् ॥ 7॥ नकुल उवाच । यदि गमनमधस्तात् कालपाशानुबन्धाद् यदि च कुलविहीने जायते पक्षिकीटे । कृमिशतमपि गत्वा ध्यायते चान्तरात्मा मम भवतु हृदिस्था केशवे भक्तिरेका ॥ 8॥ सहदेव उवाच । तस्य यज्ञवराहस्य विष्णोरतुलतेजसः । प्रणामं ये प्रकुर्वन्ति तेषामपि नमो नमः ॥ 9॥ कुन्ती उवाच । स्वकर्मफलनिर्दिष्टां यां यां योनिं व्रजाम्यहम् । तस्यां तस्यां हृषीकेश त्वयि भक्तिर्दृढाऽस्तु मे ॥ 10॥ माद्री उवाच । कृष्णे रताः कृष्णमनुस्मरन्ति रात्रौ च कृष्णं पुनरुत्थिता ये । ते भिन्नदेहाः प्रविशन्ति कृष्णे हविर्यथा मन्त्रहुतं हुताशे ॥ 11॥ द्रौपदी उवाच । कीटेषु पक्षिषु मृगेषु सरीसृपेषु रक्षःपिशाचमनुजेष्वपि यत्र यत्र । जातस्य मे भवतु केशव त्वत्प्रसादात् त्वय्येव भक्तिरचलाऽव्यभिचारिणी च ॥ 12॥ सुभद्रा उवाच । एकोऽपि कृष्णस्य कृतः प्रणामो दशाश्वमेधावभृथेन तुल्यः । दशाश्वमेधी पुनरेति जन्म कृष्णप्रणामी न पुनर्भवाय ॥ 13॥ अभिमन्युरुवाच । गोविन्द गोविन्द हरे मुरारे गोविन्द गोविन्द मुकुन्द कृष्ण गोविन्द गोविन्द रथाङ्गपाणे । गोविन्द गोविन्द नमामि नित्यम् ॥ 14॥ धृष्टद्युम्न उवाच । श्रीराम नारायण वासुदेव गोविन्द वैकुण्ठ मुकुन्द कृष्ण । श्रीकेशवानन्त नृसिंह विष्णो मां त्राहि संसारभुजङ्गदष्टम् ॥ 15॥ सात्यकिरुवाच । अप्रमेय हरे विष्णो कृष्ण दामोदराऽच्युत । गोविन्दानन्त सर्वेश वासुदेव नमोऽस्तु ते ॥ 16॥ उद्धव उवाच । वासुदेवं परित्यज्य योऽन्यं देवमुपासते । तृषितो जाह्नवीतीरे कूपं खनति दुर्मतिः ॥ 17॥ धौम्य उवाच । अपां समीपे शयनासनस्थिते दिवा च रात्रौ च यथाधिगच्छता । यद्यस्ति किञ्चित् सुकृतं कृतं मया जनार्दनस्तेन कृतेन तुष्यतु ॥ 18॥ सञ्जय उवाच । आर्ता विषण्णाः शिथिलाश्च भीता घोरेषु व्याघ्रादिषु वर्तमानाः । सङ्कीर्त्य नारायणशब्दमात्रं विमुक्तदुःखाः सुखिनो भवन्ति ॥ 19॥ अक्रूर उवाच । अहं तु नारायणदासदास- दासस्य दासस्य च दासदासः । अन्यो न हीशो जगतो नराणां तस्मादहं धन्यतरोऽस्मि लोके ॥ 20॥ विराट उवाच । वासुदेवस्य ये भक्ताः शान्तास्तद्गतचेतसः । तेषां दासस्य दासोऽहं भवेयं जन्मजन्मनि ॥ 21॥ भीष्म उवाच । विपरीतेषु कालेषु परिक्षीणेषु बन्धुषु । त्राहि मां कृपया कृष्ण शरणागतवत्सल ॥ 22॥ द्रोण उवाच । ये ये हताश्चक्रधरेण दैत्यां- स्त्रैलोक्यनाथेन जनार्दनेन । ते ते गता विष्णुपुरीं प्रयाताः क्रोधोऽपि देवस्य वरेण तुल्यः ॥ 23॥ कृपाचार्य उवाच । मज्जन्मनः फलमिदं मधुकैटभारे मत्प्रार्थनीय मदनुग्रह एष एव । त्वद्भृत्यभृत्यपरिचारकभृत्यभृत्य- भृत्यस्य भृत्य इति मां स्मर लोकनाथ ॥ 24॥ अश्वत्थाम उवाच । गोविन्द केशव जनार्दन वासुदेव विश्वेश विश्व मधुसूदन विश्वरूप । श्रीपद्मनाभ पुरुषोत्तम देहि दास्यं नारायणाच्युत नृसिंह नमो नमस्ते ॥ 25॥ कर्ण उवाच । नान्यं वदामि न श‍ऋणोमि न चिन्तयामि नान्यं स्मरामि न भजामि न चाश्रयामि । भक्त्या त्वदीयचरणाम्बुजमादरेण श्रीश्रीनिवास पुरुषोत्तम देहि दास्यम् ॥ 26॥ धृतराष्ट्र उवाच । नमो नमः कारणवामनाय नारायणायामितविक्रमाय । श्रीशार्ङ्गचक्रासिगदाधराय नमोऽस्तु तस्मै पुरुषोत्तमाय ॥ 27॥ गान्धारी उवाच । त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव । त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देव देव ॥ 28॥ द्रुपद उवाच । यज्ञेशाच्युत गोविन्द माधवानन्त केशव । कृष्ण विष्णो हृषीकेश वासुदेव नमोऽस्तु ते ॥ 29॥ जयद्रथ उवाच । नमः कृष्णाय देवाय ब्रह्मणेऽनन्तशक्तये । योगेश्वराय योगाय त्वामहं शरणं गतः ॥ 30॥ विकर्ण उवाच । कृष्णाय वासुदेवाय देवकीनन्दनाय च । नन्दगोपकुमाराय गोविन्दाय नमो नमः ॥ 31॥ विराट उवाच । नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च । जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ॥ 32॥ शल्य उवाच । अतसीपुष्पसङ्काशं पीतवाससमच्युतम् । ये नमस्यन्ति गोविन्दं तेषां न विद्यते भयम् ॥ 33॥ बलभद्र उवाच । कृष्ण कृष्ण कृपालो त्वमगतीनां गतिर्भव । संसारार्णवमग्नानां प्रसीद पुरुषोत्तम ॥ 34॥ श्रीकृष्ण उवाच । कृष्ण कृष्णेति कृष्णेति यो मां स्मरति नित्यशः । जलं भित्वा यथा पद्मं नरकादुद्धराम्यहम् ॥ 35॥ श्रीकृष्ण उवाच । नित्यं वदामि मनुजाः स्वयमूर्ध्वबाहु- र्यो मां मुकुन्द नरसिंह जनार्दनेति । जीवो जपत्यनुदिनं मरणे रणे वा पाषाणकाष्ठसदृशाय ददाम्यभीष्टम् ॥ 36॥ ईश्वर उवाच । सकृन्नारायणेत्युक्त्वा पुमान् कल्पशतत्रयम् । गङ्गादिसर्वतीर्थेषु स्नातो भवति पुत्रक ॥ 37॥ सूत उवाच । तत्रैव गङ्गा यमुना च तत्र गोदावरी सिन्धु सरस्वती च । सर्वाणि तीर्थानि वसन्ति तत्र यत्राच्युतोदार कथाप्रसङ्गः ॥ 38॥ यम उवाच । नरके पच्यमानं तु यमेनं परिभाषितम् । किं त्वया नार्चितो देवः केशवः क्लेशनाशनः ॥ 35॥ नारद उवाच । जन्मान्तरसहस्रेण तपोध्यानसमाधिना । नराणां क्षीणपापानां कृष्णे भक्तिः प्रजायते ॥ 40॥ प्रह्लाद उवाच । नाथ योनिसहस्रेषु येषु येषु व्रजाम्यहम् । तेषु तेष्वचला भक्तिरच्युताऽस्तु सदा त्वयि ॥ 41॥ या प्रीतिरविवेकनां विषयेष्वनपायिनि । त्वामनुस्मरतः सा मे हृदयान्माऽपसर्पतु ॥ 42॥ विश्वामित्र उवाच । किं तस्य दानैः किं तीर्थैः किं तपोभिः किमध्वरैः । यो नित्यं ध्यायते देवं नारायणमनन्यधीः ॥ 43॥ जमदग्निरुवाच । नित्योत्सवो भवेत्तेषां नित्यं नित्यं च मङ्गलम् । येषां हृदिस्थो भगवान्मङ्गलायतनं हरिः ॥ 44॥ भरद्वाज उवाच । लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः । येषामिन्दीश्वरश्यामो हृदयस्थो जनार्दनः ॥ 45॥ गौतम उवाच । गोकोटिदानं ग्रहणेषु काशी- प्रयागगङ्गायुतकल्पवासः । यज्ञायुतं मेरुसुवर्णदानं गोविन्दनामस्मरणेन तुल्यम् ॥ 46॥ अग्निरुवाच । गोविन्देति सदा स्नानं गोविन्देति सदा जपः । गोविन्देति सदा ध्यानं सदा गोविन्दकीर्तनम् ॥ 47॥ त्र्यक्षरं परमं ब्रह्म गोविन्द त्र्यक्षरं परम् । तस्मादुच्चारितं येन ब्रह्मभूयाय कल्पते ॥ 48॥ वेदव्यास उवाच । अच्युतः कल्पवृक्षोऽसावनन्तः कामधेनु वै । चिन्तामणिस्तु गोविन्दो हरेर्नाम विचिन्तयेत् ॥ 49॥ इन्द्र उवाच । जयतु जयतु देवो देवकीनन्दनोऽयं जयतु जयतु कृष्णो वृष्णिवंशप्रदीपः । जयतु जयतु मेघश्यामलः कोमलाङ्गो जयतु जयतु पृथ्वीभारनाशो मुकुन्दः ॥ 50॥ पिप्पलायन उवाच । श्रीमन्नृसिंहविभवे गरुडध्वजाय तापत्रयोपशमनाय भवौषधाय । कृष्णाय वृश्चिकजलाग्निभुजङ्गरोग- क्लेशव्ययाय हरये गुरवे नमस्ते ॥ 51॥ आविर्होत्र उवाच । कृष्ण त्वदीयपदपङ्कजपञ्जरान्ते अद्यैव मे विशतु मानसराजहंसः । प्राणप्रयाणसमये कफवातपित्तैः कण्ठावरोधनविधौ स्मरणं कुतस्ते ॥ 52॥ विदुर उवाच । हरेर्नामैव नामैव नामैव मम जीवनम् । कलौ नास्त्येव नास्त्येव नास्त्येव गतिरन्यथा ॥ 53॥ वसिष्ठ उवाच । कृष्णेति मङ्गलं नाम यस्य वाचि प्रवर्तते । भस्मीभवन्ति तस्याशु महापातककोटयः ॥ 54॥ अरुन्धत्युवाच । कृष्णाय वासुदेवाय हरये परमात्मने । प्रणतक्लेशनाशाय गोविन्दाय नमो नमः ॥ 55॥ कश्यप उवाच । कृष्णानुस्मरणादेव पापसङ्घट्टपञ्जरम् । शतधा भेदमाप्नोति गिरिर्वज्रहतो यथा ॥ 56॥ दुर्योधन उवाच । जानामि धर्मं न च मे प्रवृत्ति- र्जानामि पापं न च मे निवृत्तिः । केनापि देवेन हृदि स्थितेन यथा नियुक्तोऽस्मि तथा करोमि ॥ 57॥ यन्त्रस्य मम दोषेण क्षम्यतां मधुसूदन । अहं यन्त्रं भवान् यन्त्री मम दोषो न दीयताम् ॥ 58॥ भृगुरुवाच । नामैव तव गोविन्द नाम त्वत्तः शताधिकम् । ददात्त्युच्चारणान्मुक्तिः भवानष्टाङ्गयोगतः ॥ 59॥ लोमश उवाच । नमामि नारायण पादपङ्कजं करोमि नारायणपूजनं सदा । वदामि नारायणनाम निर्मलं स्मरामि नारायणतत्त्वमव्ययम् ॥ 60॥ शौनक उवाच । स्मृतेः सकलकल्याणं भजनं यस्य जायते । पुरुषं तमजं नित्यं व्रजामि शरणं हरिम् ॥ 61॥ गर्ग उवाच । नारायणेति मन्त्रोऽस्ति वागस्ति वशवर्तिनी । तथापि नरके घोरे पतन्तीत्यद्भुतं महत् ॥ 62॥ दाल्भ्य उवाच । किं तस्य बहुभिर्मन्त्रैर्भक्तिर्यस्य जनार्दने । नमो नारायणायेति मन्त्रः सर्वार्थसाधाके ॥ 63॥ वैशम्पायन उवाच । यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः । तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥ 64॥ अग्निरुवाच । हरिर्हरति पापानि दुष्टचित्तैरपि स्मृतः । अनिच्छयापि संस्पृष्टो दहत्येव हि पावकः ॥ 65॥ परमेश्वर उवाच । सकृदुच्चरितं येन हरिरित्यक्षरद्वयम् । लब्धः परिकरस्तेन मोक्षाय गमनं प्रति ॥ 66॥ पुलस्त्य उवाच । हे जिह्वे रससारज्ञे सर्वदा मधुरप्रिये । नारायणाख्यपीयूषं पिब जिह्वे निरन्तरम् ॥ 67॥ व्यास उवाच । सत्यं सत्यं पुनः सत्यं सत्यं सत्यं वदाम्यहम् । नास्ति वेदात्परं शास्त्रं न देवः केशवात्परः ॥ 68॥ धन्वन्तरिरुवाच । अच्युतानन्त गोविन्द नामोच्चारणभेषजात् । नश्यन्ति सकला रोगाः सत्यं सत्यं वदाम्यहम् ॥ 69॥ मार्कण्डेय उवाच । स्वर्गदं मोक्षदं देवं सुखदं जगतो गुरुम् । कथं मुहुर्तमपि तं वासुदेवं न चिन्तयेत् ॥ 70॥ अगस्त्य उवाच । निमिषं निमिषार्धं वा प्राणिनां विष्णुचिन्तनम् । तत्र तत्र कुरुक्षेत्रं प्रयागो नैमिषं वरम् ॥ 71॥ वामदेव उवाच । निमिषं निमिषार्धं वा प्राणिनां विष्णुचिन्तनम् । कल्पकोटिसहस्राणि लभते वाञ्छितं फलम् ॥ 72॥ शुक उवाच । आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः । इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा ॥ 73॥ श्रीमहादेव उवाच । शरीरे जर्जरीभूते व्याधिग्रस्ते कलेवरे । औषधं जाह्नवीतोयं वैद्यो नारायणो हरिः ॥ 74॥ शौनक उवाच । भोजनाच्छादने चिन्तां वृथा कुर्वन्ति वैष्णवाः । योऽसौ विश्वम्भरो देवः स किं भक्तानुपेक्षते ॥ 75॥ सनत्कुमार उवाच । यस्य हस्ते गदा चक्रं गरुडो यस्य वाहनम् । शङ्खचक्रगदापद्मी स मे विष्णुः प्रसीदतु ॥ 76॥ एवं ब्रह्मादयो देवा ऋषयश्च तपोधनाः । कीर्तयन्ति सुरश्रेष्ठमेवं नारायणं विभुम् ॥ 77॥ इदं पवित्रमायुष्यं पुण्यं पापप्रणाशनम् । दुःस्वप्ननाशनं स्तोत्रं पाण्डवैः परिकीर्तितम् ॥ 78॥ यः पठेत्प्रातरुत्थाय शुचिस्तद्गतमानसः । गवां शतसहस्रस्य सम्यग्दत्तस्य यत्फलम् ॥ 79॥ तत्फलं समवाप्नोति यः पठेदिति संस्तवम् । सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥ 80॥ गङ्गा गीता च गायत्री गोविन्दो गरुडध्वजः । गकारैः पञ्चभिर्युक्तः पुनर्जन्म न विद्यते ॥ 81॥ गीतां यः पठते नित्यं श्लोकार्धं श्लोकमेव वा । मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥ 82॥ इति पाण्डवगीता अथवा प्रपन्नगीता समाप्ता । ॐ तत्सत् ।