Shri Panchayudha Stotram (श्री पञ्चायुध स्तोत्रम्)

श्री पञ्चायुध स्तोत्रम् (Shri Panchayudha Stotram) स्फुरत्सहस्रारशिखातितीव्रं सुदर्शनं भास्करकोटितुल्यम् । सुरद्विषां प्राणविनाशि विष्णोः चक्रं सदाऽहं शरणं प्रपद्ये ॥ 1 ॥ विष्णोर्मुखोत्थानिलपूरितस्य यस्य ध्वनिर्दानवदर्पहन्ता । तं पाञ्चजन्यं शशिकोटिशुभ्रं शङ्खं सदाऽहं शरणं प्रपद्ये ॥ 2 ॥ हिरण्मयीं मेरुसमानसारां कौमोदकीं दैत्यकुलैकहन्त्रीम् । वैकुण्ठवामाग्रकराग्रमृष्टां गदां सदाऽहं शरणं प्रपद्ये ॥ 3 ॥ यज्ज्यानिनादश्रवणात्सुराणां चेतांसि निर्मुक्तभयानि सद्यः । भवन्ति दैत्याशनिबाणवर्षैः शार्ङ्गं सदाऽहं शरणं प्रपद्ये ॥ 4 ॥ रक्षोऽसुराणां कठिनोग्रकण्ठ- -च्छेदक्षरत्‍क्षोणित दिग्धसारम् । तं नन्दकं नाम हरेः प्रदीप्तं खड्गं सदाऽहं शरणं प्रपद्ये ॥ 5 ॥ इमं हरेः पञ्चमहायुधानां स्तवं पठेद्योऽनुदिनं प्रभाते । समस्त दुःखानि भयानि सद्यः पापानि नश्यन्ति सुखानि सन्ति ॥ 6 ॥ वने रणे शत्रु जलाग्निमध्ये यदृच्छयापत्सु महाभयेषु । पठेत्विदं स्तोत्रमनाकुलात्मा सुखीभवेत्तत्कृत सर्वरक्षः ॥ 7 ॥ यच्चक्रशङ्खं गदखड्गशार्ङ्गिणं पीताम्बरं कौस्तुभवत्सलाञ्छितम् । श्रियासमेतोज्ज्वलशोभिताङ्गं विष्णुं सदाऽहं शरणं प्रपद्ये ॥ जले रक्षतु वाराहः स्थले रक्षतु वामनः । अटव्यां नारसिंहश्च सर्वतः पातु केशवः ॥ इति पञ्चायुध स्तोत्रम् ॥