Narayaniyam Dashaka 6 (नारायणीयं दशक 6)

नारायणीयं दशक 6 (Narayaniyam Dashaka 6) एवं चतुर्दशजगन्मयतां गतस्य पातालमीश तव पादतलं वदंति । पादोर्ध्वदेशमपि देव रसातलं ते गुल्फद्वयं खलु महातलमद्भुतात्मन् ॥1॥ जंघे तलातलमथो सुतलं च जानू किंचोरुभागयुगलं वितलातले द्वे । क्षोणीतलं जघनमंबरमंग नाभि- र्वक्षश्च शक्रनिलयस्तव चक्रपाणे ॥2॥ ग्रीवा महस्तव मुखं च जनस्तपस्तु फालं शिरस्तव समस्तमयस्य सत्यम् । एवं जगन्मयतनो जगदाश्रितैर- प्यन्यैर्निबद्धवपुषे भगवन्नमस्ते ॥3॥ त्वद्ब्रह्मरंध्रपदमीश्वर विश्वकंद छंदांसि केशव घनास्तव केशपाशाः । उल्लासिचिल्लियुगलं द्रुहिणस्य गेहं पक्ष्माणि रात्रिदिवसौ सविता च नेत्रै ॥4॥ निश्शेषविश्वरचना च कटाक्षमोक्षः कर्णौ दिशोऽश्वियुगलं तव नासिके द्वे । लोभत्रपे च भगवन्नधरोत्तरोष्ठौ तारागणाश्च दशनाः शमनश्च दंष्ट्रा ॥5॥ माया विलासहसितं श्वसितं समीरो जिह्वा जलं वचनमीश शकुंतपंक्तिः । सिद्धादयः स्वरगणा मुखरंध्रमग्नि- र्देवा भुजाः स्तनयुगं तव धर्मदेवः ॥6॥ पृष्ठं त्वधर्म इह देव मनः सुधांशु - रव्यक्तमेव हृदयंबुजमंबुजाक्ष । कुक्षिः समुद्रनिवहा वसनं तु संध्ये शेफः प्रजापतिरसौ वृषणौ च मित्रः ॥7॥ श्रोणीस्थलं मृगगणाः पदयोर्नखास्ते हस्त्युष्ट्रसैंधवमुखा गमनं तु कालः । विप्रादिवर्णभवनं वदनाब्जबाहु- चारूरुयुग्मचरणं करुणांबुधे ते ॥8॥ संसारचक्रमयि चक्रधर क्रियास्ते वीर्यं महासुरगणोऽस्थिकुलानि शैलाः । नाड्यस्सरित्समुदयस्तरवश्च रोम जीयादिदं वपुरनिर्वचनीयमीश ॥9॥ ईदृग्जगन्मयवपुस्तव कर्मभाजां कर्मावसानसमये स्मरणीयमाहुः । तस्यांतरात्मवपुषे विमलात्मने ते वातालयाधिप नमोऽस्तु निरुंधि रोगान् ॥10॥