Dwadash Aditya Dhyan Shloka (द्वादश आदित्य ध्यान श्लोकाः)

द्वादश आदित्य ध्यान श्लोकाः (Dwadash Aditya Dhyan Shloka) 1. धाता धाता कृतस्थली हेतिर्वासुकी रथकृन्मुने । पुलस्त्यस्तुम्बुरुरिति मधुमासं नयन्त्यमी ॥ धाता शुभस्य मे दाता भूयो भूयोऽपि भूयसः । रश्मिजालसमाश्लिष्टः तमस्तोमविनाशनः ॥ 2. अर्यम् अर्यमा पुलहोऽथौजाः प्रहेति पुञ्जिकस्थली । नारदः कच्छनीरश्च नयन्त्येते स्म माधवम् ॥ मेरुशृङ्गान्तरचरः कमलाकरबान्धवः । अर्यमा तु सदा भूत्यै भूयस्यै प्रणतस्य मे ॥ 3. मित्रः मित्रोऽत्रिः पौरुषेयोऽथ तक्षको मेनका हहः । रथस्वन इति ह्येते शुक्रमासं नयन्त्यमी ॥ निशानिवारणपटुः उदयाद्रिकृताश्रयः । मित्रोऽस्तु मम मोदाय तमस्तोमविनाशनः ॥ 4. वरुणः वसिष्ठो ह्यरुणो रम्भा सहजन्यस्तथा हुहुः । शुक्रश्चित्रस्वनश्चैव शुचिमासं नयन्त्यमी ॥ सूर्यस्यन्दनमारूढ अर्चिर्माली प्रतापवान् । कालभूतः कामरूपो ह्यरुणः सेव्यते मया ॥ 5. इन्द्रः इन्द्रो विश्वावसुः श्रोता एलापत्रस्तथाऽङ्गिराः । प्रम्लोचा राक्षसोवर्यो नभोमासं नयन्त्यमी ॥ सहस्ररश्मिसंवीतं इन्द्रं वरदमाश्रये । शिरसा प्रणमाम्यद्य श्रेयो वृद्धिप्रदायकम् ॥ 6. विवस्वान् विवस्वानुग्रसेनश्च व्याघ्र आसारणो भृगुः । अनुम्लोचाः शङ्खपालो नभस्याख्यं नयन्त्यमी ॥ जगन्निर्माणकर्तारं सर्वदिग्व्याप्ततेजसम् । नभोग्रहमहादीपं विवस्वन्तं नमाम्यहम् ॥ 7. त्वष्टा त्वष्टा ऋचीकतनयः कम्बलाख्यस्तिलोत्तमा । ब्रह्मापेतोऽथ शतजित् धृतराष्ट्र इषम्भरा ॥ त्वष्टा शुभाय मे भूयात् शिष्टावलिनिषेवितः । नानाशिल्पकरो नानाधातुरूपः प्रभाकरः । 8. विष्णुः विष्णुरश्वतरो रम्भा सूर्यवर्चाश्च सत्यजित् । विश्वामित्रो मखापेत ऊर्जमासं नयन्त्यमी ॥ भानुमण्डलमध्यस्थं वेदत्रयनिषेवितम् । गायत्रीप्रतिपाद्यं तं विष्णुं भक्त्या नमाम्यहम् ॥ 9. अंशुमान् अथांशुः कश्यपस्तार्क्ष्य ऋतसेनस्तथोर्वशी । विद्युच्छत्रुर्महाशङ्खः सहोमासं नयन्त्यमी ॥ सदा विद्रावणरतो जगन्मङ्गलदीपकः । मुनीन्द्रनिवहस्तुत्यो भूतिदोऽंशुर्भवेन्मम ॥ 10. भगः भगः स्फूर्जोऽरिष्टनेमिः ऊर्ण आयुश्च पञ्चमः । कर्कोटकः पूर्वचित्तिः पौषमासं नयन्त्यमी ॥ तिथि मास ऋतूनां च वत्सराऽयनयोरपि । घटिकानां च यः कर्ता भगो भाग्यप्रदोऽस्तु मे ॥ 11. पूष पूषा धनञ्जयो वातः सुषेणः सुरुचिस्तथा । घृताची गौतमश्चेति तपोमासं नयन्त्यमी । पूषा तोषाय मे भूयात् सर्वपापाऽपनोदनात् । सहस्रकरसंवीतः समस्ताशान्तरान्तरः ॥ 12. पर्जन्यः क्रतुर्वार्चा भरद्वाजः पर्जन्यः सेनजित् तथा । विश्वश्चैरावतश्चैव तपस्याख्यं नयन्त्यमी ॥ प्रपञ्चं प्रतपन् भूयो वृष्टिभिर्मादयन् पुनः । जगदानन्दजनकः पर्जन्यः पूज्यते मया ॥ ध्यायेस्सदा सवितृमण्डलमध्यवर्ती नारायणस्सरसिजासन सन्निविष्टः। केयूरवान् मकरकुण्डलवान् किरीटी हारी हिरण्मयवपुः धृतशङ्खचक्रः ॥