Aditya Hridayam (आदित्य हृदयम्)

आदित्य हृदयम् (Aditya Hridayam) ध्यानम् नमस्सवित्रे जगदेक चक्षुसे जगत्प्रसूति स्थिति नाशहेतवे त्रयीमयाय त्रिगुणात्म धारिणे विरिञ्चि नारायण शङ्करात्मने ततो युद्ध परिश्रान्तं समरे चिन्तयास्थितम् । रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् ॥ 1 ॥ दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् । उपागम्याब्रवीद्रामं अगस्त्यो भगवान् ऋषिः ॥ 2 ॥ राम राम महाबाहो शृणु गुह्यं सनातनम् । येन सर्वानरीन् वत्स समरे विजयिष्यसि ॥ 3 ॥ आदित्यहृदयं पुण्यं सर्वशत्रु-विनाशनम् । जयावहं जपेन्नित्यं अक्षय्यं परमं शिवम् ॥ 4 ॥ सर्वमङ्गल-माङ्गल्यं सर्वपाप-प्रणाशनम् । चिन्ताशोक-प्रशमनं आयुर्वर्धनमुत्तमम् ॥ 5 ॥ रश्मिमन्तं समुद्यन्तं देवासुर नमस्कृतम् । पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् ॥ 6 ॥ सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः । एष देवासुर-गणान् लोकान् पाति गभस्तिभिः ॥ 7 ॥ एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः । महेन्द्रो धनदः कालो यमः सोमो ह्यपां पतिः ॥ 8 ॥ पितरो वसवः साध्या ह्यश्विनौ मरुतो मनुः । वायुर्वह्निः प्रजाप्राणः ऋतुकर्ता प्रभाकरः ॥ 9 ॥ आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् । सुवर्णसदृशो भानुः हिरण्यरेता दिवाकरः ॥ 10 ॥ हरिदश्वः सहस्रार्चिः सप्तसप्ति-र्मरीचिमान् । तिमिरोन्मथनः शम्भुः त्वष्टा मार्ताण्डकोंऽशुमान् ॥ 11 ॥ हिरण्यगर्भः शिशिरः तपनो भास्करो रविः । अग्निगर्भोऽदितेः पुत्रः शङ्खः शिशिरनाशनः ॥ 12 ॥ व्योमनाथ-स्तमोभेदी ऋग्यजुःसाम-पारगः । घनावृष्टिरपां मित्रः विन्ध्यवीथी प्लवङ्गमः ॥ 13 ॥ आतपी मण्डली मृत्युः पिङ्गलः सर्वतापनः । कविर्विश्वो महातेजा रक्तः सर्वभवोद्भवः ॥ 14 ॥ नक्षत्र ग्रह ताराणां अधिपो विश्वभावनः । तेजसामपि तेजस्वी द्वादशात्म-न्नमोऽस्तु ते ॥ 15 ॥ नमः पूर्वाय गिरये पश्चिमायाद्रये नमः । ज्योतिर्गणानां पतये दिनाधिपतये नमः ॥ 16 ॥ जयाय जयभद्राय हर्यश्वाय नमो नमः । नमो नमः सहस्रांशो आदित्याय नमो नमः ॥ 17 ॥ नम उग्राय वीराय सारङ्गाय नमो नमः । नमः पद्मप्रबोधाय मार्ताण्डाय नमो नमः ॥ 18 ॥ ब्रह्मेशानाच्युतेशाय सूर्यायादित्य-वर्चसे । भास्वते सर्वभक्षाय रौद्राय वपुषे नमः ॥ 19 ॥ तमोघ्नाय हिमघ्नाय शत्रुघ्नाया मितात्मने । कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः ॥ 20 ॥ तप्त चामीकराभाय वह्नये विश्वकर्मणे । नमस्तमोऽभि निघ्नाय रवये लोकसाक्षिणे ॥ 21 ॥ नाशयत्येष वै भूतं तदेव सृजति प्रभुः । पायत्येष तपत्येष वर्षत्येष गभस्तिभिः ॥ 22 ॥ एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः । एष एवाग्निहोत्रं च फलं चैवाग्नि होत्रिणाम् ॥ 23 ॥ वेदाश्च क्रतवश्चैव क्रतूनां फलमेव च । यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः ॥ 24 ॥ फलश्रुतिः एन मापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च । कीर्तयन् पुरुषः कश्चिन्नावशीदति राघव ॥ 25 ॥ पूजयस्वैन मेकाग्रः देवदेवं जगत्पतिम् । एतत् त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि ॥ 26 ॥ अस्मिन् क्षणे महाबाहो रावणं त्वं वधिष्यसि । एवमुक्त्वा तदागस्त्यो जगाम च यथागतम् ॥ 27 ॥ एतच्छ्रुत्वा महातेजाः नष्टशोकोऽभवत्तदा । धारयामास सुप्रीतः राघवः प्रयतात्मवान् ॥ 28 ॥ आदित्यं प्रेक्ष्य जप्त्वा तु परं हर्षमवाप्तवान् । त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् ॥ 29 ॥ रावणं प्रेक्ष्य हृष्टात्मा युद्धाय समुपागमत् । सर्वयत्नेन महता वधे तस्य धृतोऽभवत् ॥ 30 ॥ अध रविरवदन्निरीक्ष्य रामं मुदितमनाः परमं प्रहृष्यमाणः । निशिचरपति सङ्क्षयं विदित्वा सुरगण मध्यगतो वचस्त्वरेति ॥ 31 ॥ इत्यार्षे श्रीमद्रामायणे वाल्मिकीये आदिकाव्ये युद्धकाण्डे पञ्चाधिक शततमः सर्गः ॥