Shrimad Bhagwad Gita Parayaan - Chapter 5 (श्रीमद्भगवद्गीता पारायण - पंचमोऽध्यायः)

श्रीमद्भगवद्गीता पारायण - पंचमोऽध्यायः (Shrimad Bhagwad Gita Parayaan - Chapter 5) ॐ श्री परमात्मने नमः अथ पंचमोऽध्यायः कर्मसन्न्यासयोगः अर्जुन उवाच सन्न्यासं कर्मणां कृष्ण पुनर्योगं च शंससि । यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥1॥ श्री भगवानुवाच सन्न्यासः कर्मयोगश्च निश्श्रेयसकरावुभौ । तयोस्तु कर्मसन्न्यासात् कर्मयोगो विशिष्यते ॥2॥ ज्ञेयः स नित्यसन्न्यासी यो न द्वेष्टि न कांक्षति । निर्द्वंद्वो हि महाबाहो सुखं बंधात्प्रमुच्यते ॥3॥ सांख्ययोगौ पृथग्बालाः प्रवदंति न पंडिताः । एकमप्यास्थितः सम्यक् उभयोर्विंदते फलम् ॥4॥ यत्सांख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते । एकं सांख्यं च योगं च यः पश्यति स पश्यति ॥5॥ सन्न्यासस्तु महाबाहो दुःखमाप्तुमयोगतः । योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति ॥6॥ योगयुक्तो विशुद्धात्मा विजितात्मा जितेंद्रियः । सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥7॥ नैव किंचित्करोमीति युक्तो मन्येत तत्त्ववित् । पश्यन्शृण्वन्स्पृशंजिघ्रन् अश्नन्गच्छन्स्वपन्श्वसन् ॥8॥ प्रलपन्विसृजन्गृह्णन् उन्मिषन्निमिषन्नपि । इंद्रियाणींद्रियार्थेषु वर्तंत इति धारयन् ॥9॥ ब्रह्मण्याधाय कर्माणि संगं त्यक्त्वा करोति यः । लिप्यते न स पापेन पद्मपत्रमिवांभसा ॥10॥ कायेन मनसा बुद्ध्या केवलैरिंद्रियैरपि । योगिनः कर्म कुर्वंति संगं त्यक्त्वात्मशुद्धये ॥11॥ युक्तः कर्मफलं त्यक्त्वा शांतिमाप्नोति नैष्ठिकीम् । अयुक्तः कामकारेण फले सक्तो निबध्यते ॥12॥ सर्वकर्माणि मनसा सन्न्यस्यास्ते सुखं वशी । नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ॥13॥ न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः । न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥14॥ नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः । अज्ञानेनावृतं ज्ञानं तेन मुह्यंति जंतवः ॥15॥ ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः । तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् ॥16॥ तद्बुद्धयस्तदात्मानः तन्निष्ठास्तत्परायणाः । गच्छंत्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ॥17॥ विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च पंडिताः समदर्शिनः ॥18॥ इहैव तैर्जितः सर्गः येषां साम्ये स्थितं मनः । निर्दोषं हि समं ब्रह्म तस्मात् ब्रह्मणि ते स्थिताः ॥19॥ न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् । स्थिरबुद्धिरसम्मूढः ब्रह्मवित् ब्रह्मणि स्थितः ॥20॥ बाह्यस्पर्शेष्वसक्तात्मा विंदत्यात्मनि यत्सुखम् । स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते ॥21॥ ये हि संस्पर्शजा भोगाः दुःखयोनय एव ते । आद्यंतवंतः कौंतेय न तेषु रमते बुधः ॥22॥ शक्नोतीहैव यः सोढुं प्राक्शरीरविमोक्षणात् । कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥23॥ योऽंतःसुखोऽंतरारामः तथांतर्ज्योतिरेव यः । स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ॥24॥ लभंते ब्रह्मनिर्वाणम् ऋषयः क्षीणकल्मषाः । छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः ॥25॥ कामक्रोधवियुक्तानां यतीनां यतचेतसाम् । अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥26॥ स्पर्शान्कृत्वा बहिर्बाह्यान् चक्षुश्चैवांतरे भ्रुवोः प्राणापानौ समौ कृत्वा नासाभ्यंतरचारिणौ ॥27॥ यतेंद्रियमनोबुद्धिः मुनिर्मोक्षपरायणः । विगतेच्छाभयक्रोधः यः सदा मुक्त एव सः ॥28॥ भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् । सुहृदं सर्वभूतानां ज्ञात्वा मां शांतिमृच्छति ॥29॥ ॥ ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे कर्मसन्न्यासयोगो नाम पंचमोऽध्यायः ॥