Shrimad Bhagwad Gita Parayaan - Chapter 16 (श्रीमद्भगवद्गीता पारायण - षोडशोऽध्यायः)

श्रीमद्भगवद्गीता पारायण - षोडशोऽध्यायः (Shrimad Bhagwad Gita Parayaan - Chapter 16) ॐ श्री परमात्मने नमः अथ षोडशोऽध्यायः दैवासुरसंपद्विभागयोगः श्री भगवानुवाच अभयं सत्त्वसंशुद्धिः ज्ञानयोगव्यवस्थितिः । दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥1॥ अहिंसा सत्यमक्रोधः त्यागः शांतिरपैशुनम् । दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् ॥2॥ तेजः क्षमा धृतिः शौचम् अद्रोहो नातिमानिता । भवंति संपदं दैवीम् अभिजातस्य भारत ॥3॥ दंभो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च । अज्ञानं चाभिजातस्य पार्थ संपदमासुरीम् ॥4॥ दैवी संपद्विमोक्षाय निबंधायासुरी मता । मा शुचः संपदं दैवीम् अभिजातोऽसि पांडव ॥5॥ द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एव च । दैवो विस्तरशः प्रोक्तः आसुरं पार्थ मे शृणु ॥6॥ प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः । न शौचं नापि चाचारः न सत्यं तेषु विद्यते ॥7॥ असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् । अपरस्परसंभूतं किमन्यत्कामहैतुकम् ॥8॥ एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः । प्रभवंत्युग्रकर्माणः क्षयाय जगतोऽहिताः ॥9॥ काममाश्रित्य दुष्पूरं दंभमानमदान्विताः । मोहाद्गृहीत्वासद्ग्राहान् प्रवर्तंतेऽशुचिव्रताः ॥10॥ चिंतामपरिमेयां च प्रलयांतामुपाश्रिताः । कामोपभोगपरमाः एतावदिति निश्चिताः ॥11॥ आशापाशशतैर्बद्धाः कामक्रोधपरायणाः । ईहंते कामभोगार्थम् अन्यायेनार्थसंचयान् ॥12॥ इदमद्य मया लब्धम् इमं प्राप्स्ये मनोरथम् । इदमस्तीदमपि मे भविष्यति पुनर्धनम् ॥13॥ असौ मया हतः शतृः हनिष्ये चापरानपि । ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी ॥14॥ आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया । यक्ष्ये दास्यामि मोदिष्ये इत्यज्ञानविमोहिताः ॥15॥ अनेकचित्तविभ्रांताः मोहजालसमावृताः । प्रसक्ताः कामभोगेषु पतंति नरकेऽशुचौ ॥16॥ आत्मसंभाविताः स्तब्धाः धनमानमदान्विताः । यजंते नामयज्ञैस्ते दंभेनाविधिपूर्वकम् ॥17॥ अहंकारं बलं दर्पं कामं क्रोधं च संश्रिताः । मामात्मपरदेहेषु प्रद्विषंतोऽभ्यसूयकाः ॥18॥ तानहं द्विषतः क्रूरान् संसारेषु नराधमान् । क्षिपाम्यजस्रमशुभान् आसुरीष्वेव योनिषु ॥19॥ आसुरीं योनिमापन्नाः मूढा जन्मनि जन्मनि । मामप्राप्यैव कौंतेय ततो यांत्यधमां गतिम् ॥20॥ त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः । कामः क्रोधस्तथा लोभः तस्मादेतत्त्रयं त्यजेत् ॥21॥ एतैर्विमुक्तः कौंतेय तमोद्वारैस्त्रिभिर्नरः । आचरत्यात्मनः श्रेयः ततो याति परां गतिम् ॥22॥ यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः । न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ॥23॥ तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ । ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ॥24॥ ॥ ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे दैवासुरसंपद्विभागयोगो नाम षोडशोऽध्यायः ॥