Shri Dhumavati Kavacha (धूमावती कवचम्)

॥ धूमावती कवचम् ॥ (Shri Dhumavati Kavacha) ॥ श्री पार्वत्युवाच॥ धूमावत्यर्चनं शम्भो श्रुतम् विस्तरतो मया। कवचं श्रोतुमिच्छामि तस्या देव वदस्व मे ॥ ॥ श्री भैरव उवाच॥ शृणु देवि परङ्गुह्यन्न प्रकाश्यङ्कलौ युगे। कवचं श्रीधूमावत्या: शत्रुनिग्रहकारकम् ॥ ब्रह्माद्या देवि सततम् यद्वशादरिघातिन:। योगिनोऽभवञ्छत्रुघ्ना यस्या ध्यानप्रभावत: ॥ ॐ अस्य श्री धूमावती कवचस्य पिप्पलाद ऋषि: निवृत छन्द:, श्री धूमावती देवता, धूं बीजं, स्वाहा शक्तिः,धूमावती कीलकं, शत्रुहनने पाठे विनियोग:॥ ॐ धूं बीजं मे शिरः पातु धूं ललाटं सदाऽवतु। धूमा नेत्रयुग्मं पातु वती कर्णौ सदाऽवतु ॥ दीर्ग्घा तुउदरमध्ये तु नाभिं में मलिनाम्बरा। शूर्पहस्ता पातु गुह्यं रूक्षा रक्षतु जानुनी ॥ मुखं में पातु भीमाख्या स्वाहा रक्षतु नासिकाम्। सर्वा विद्याऽवतु कण्ठम् विवर्णा बाहुयुग्मकम् ॥ चञ्चला हृदयम्पातु दुष्टा पार्श्वं सदाऽवतु। धूमहस्ता सदा पातु पादौ पातु भयावहा ॥ प्रवृद्धरोमा तु भृशं कुटिला कुटिलेक्षणा। क्षुत्पिपासार्द्दिता देवी भयदा कलहप्रिया ॥ सर्वाङ्गम्पातु मे देवी सर्वशत्रुविनाशिनी। इति ते कवचम्पुण्यङ्कथितम्भुवि दुर्लभम् ॥ न प्रकाश्यन्न प्रकाश्यन्न प्रकाश्यङ्कलौ युगे। पठनीयम्महादेवि त्रिसन्ध्यन्ध्यानतत्परैः ॥ दुष्टाभिचारो देवेशि तद्गात्रन्नैव संस्पृशेत् ॥ ॥ इति श्री धूमावतीकवचं सम्पूरणम् ॥