Shri Kashivishwanatha Stotram (श्रीकाशीविश्वनाथस्तोत्रम्)

श्रीकाशीविश्वनाथस्तोत्रम् (Shri Kashivishwanatha Stotram) कंठे यस्य लसत्करालगरलं गंगाजलं मस्तके वामांगे गिरिराजराजतनया जाया भवानी सती । नंदिस्कंदगणाधिराजसहिता श्रीविश्वनाथप्रभुः काशीमंदिरसंस्थितोऽखिलगुरुर्देयात्सदा मंगलम् ॥ 1॥ यो देवैरसुरैर्मुनींद्रतनयैर्गंधर्वयक्षोरगै- र्नागैर्भूतलवासिभिर्द्विजवरैः संसेवितः सिद्धये । या गंगोत्तरवाहिनी परिसरे तीर्थेरसंख्यैर्वृता सा काशी त्रिपुरारिराजनगरी देयात्सदा मंगलम् ॥ 2॥ तीर्थानां प्रवरा मनोरथकरी संसारपारापरा- नंदा नंदिगणेश्वरैरुपहिता देवैरशेषैः स्तुता । या शंभोर्मणिकुंडलैककणिका विष्णोस्तपोदीर्घिका सेयं श्रीमणिकर्णिका भगवती देयात्सदा मंगलम् ॥ 3॥ एषा धर्मपताकिनी तटरुहासेवावसन्नाकिनी पश्यन्पातकिनी भगीरथतपःसाफल्यदेवाकिनी । प्रेमारूढपताकिनी गिरिसुता सा केकरास्वाकिनी काश्यामुत्तरवाहिनी सुरनदी देयात्सदा मंगलम् ॥ 4॥ विघ्नावासनिवासकारणमहागंडस्थलालंबितः सिंदूरारुणपुंजचंद्रकिरणप्रच्छादिनागच्छविः । श्रीविश्वेश्वरवल्लभो गिरिजया सानंदकानंदितः स्मेरास्यस्तव ढुंढिराजमुदितो देयात्सदा मंगलम् ॥। 5॥ । केदारः कलशेश्वरः पशुपतिर्धर्मेश्वरो मध्यमो ज्येष्ठेशो पशुपश्च कंदुकशिवो विघ्नेश्वरो जंबुकः । चंद्रेशो ह्यमृतेश्वरो भृगुशिवः श्रीवृद्धकालेश्वरो मध्येशो मणिकर्णिकेश्वरशिवो देयात्सदा मंगलम् ॥ 6॥ गोकर्णस्त्वथ भारभूतनुदनुः श्रीचित्रगुप्तेश्वरो यक्षेशस्तिलपर्णसंगमशिवो शैलेश्वरः कश्यपः । नागेशोऽग्निशिवो निधीश्वरशिवोऽगस्तीश्वरस्तारक- ज्ञानेशोऽपि पितामहेश्वरशिवो देयात्सदा मंगलम् ॥ 7॥ ब्रह्मांडं सकलं मनोषितरसै रत्नैः पयोभिर्हरं खेलैः पूरयते कुटुंबनिलयान् शंभोर्विलासप्रदा । नानादिव्यलताविभूषितवपुः काशीपुराधीश्वरी श्रीविश्वेश्वरसुंदरी भगवती देयात्सदा मंगलम् ॥ 8॥ या देवी महिषासुरप्रमथनी या चंडमुंडापहा या शुंभासुररक्तबीजदमनी शक्रादिभिः संस्तुता । या शूलासिधनुःशराभयकरा दुर्गादिसंदक्षिणा- माश्रित्याश्रितविघ्नशंसमयतु देयात्सदा मंगलम् ॥ 9॥ आद्या श्रीर्विकटा ततस्तु विरजा श्रीमंगला पार्वती विख्याता कमला विशालनयना ज्येष्ठा विशिष्टानना । कामाक्षी च हरिप्रिया भगवती श्रीघंटघंटादिका मौर्या षष्टिसहस्रमातृसहिता देयात्सदा मंगलम् ॥ 10॥ आदौ पंचनदं प्रयागमपरं केदारकुंडं कुरु- क्षेत्रं मानसकं सरोऽमृतजलं शावस्य तीर्थं परम् । मत्स्योदर्यथ दंडखांडसलिलं मंदाकिनी जंबुकं घंटाकर्णसमुद्रकूपसहितो देयात्सदा मंगलम् ॥ 11॥ रेवाकुंडजलं सरस्वतिजलं दुर्वासकुंडं ततो लक्ष्मीतीर्थलवांकुशस्य सलिलं कंदर्पकुंडं तथा । दुर्गाकुंडमसीजलं हनुमतः कुंडप्रतापोर्जितः प्रज्ञानप्रमुखानि वः प्रतिदिनं देयात्सदा मंगलम् ॥ 12॥ आद्यः कूपवरस्तु कालदमनः श्रीवृद्धकूपोऽपरो विख्यातस्तु पराशरस्तु विदितः कूपः सरो मानसः । जैगीषव्यमुनेः शशांकनृपतेः कूपस्तु धर्मोद्भवः ख्यातः सप्तसमुद्रकूपसहितो देयात्सदा मंगलम् ॥ 13॥ लक्ष्यीनायकबिंदुमाधवहरिर्लक्ष्मीनृसिंहस्ततो गोविंदस्त्वथ गोपिकाप्रियतमः श्रीनारदः केशवः । गंगाकेशववामनाख्यतदनु श्वेतो हरिः केशवः प्रह्लादादिसमस्तकेशवगणो देयात्सदा मंगलम् ॥ 14॥ लोलार्को विमलार्कमायुखरविः संवर्तसंज्ञो रवि- र्विख्यातो द्रुपदुःखखोल्कमरुणः प्रोक्तोत्तरार्को रविः । गंगार्कस्त्वथ वृद्धवृद्धिविबुधा काशीपुरीसंस्थिताः सूर्या द्वादशसंज्ञकाः प्रतिदिनं देयात्सदा मंगलम् ॥ 15॥ आद्यो ढुंढिविनायको गणपतिश्चिंतामणिः सिद्धिदः सेनाविघ्नपतिस्तु वक्त्रवदनः श्रीपाशपाणिः प्रभुः । आशापक्षविनायकाप्रषकरो मोदादिकः षड्गुणो लोलार्कादिविनायकाः प्रतिदिनं देयात्सदा मंगलम् ॥ 16॥। हेरंबो नलकूबरो गणपतिः श्रीभीमचंडीगणो विख्यातो मणिकर्णिकागणपतिः श्रीसिद्धिदो विघ्नपः । मुंडश्चंडमुखश्च कष्टहरणः श्रीदंडहस्तो गणः श्रीदुर्गाख्यगणाधिपः प्रतिदिनं देयात्सदा मंगलम् ॥ 17॥ आद्यो भैरवभीषणस्तदपरः श्रीकालराजः क्रमा- च्छ्रीसंहारकभैरवस्त्वथ रुरुश्चोन्मत्तको भैरवः । क्रोधश्चंडकपालभैरववरः श्रीभूतनाथादयो ह्यष्टौ भैरवमूर्तयः प्रतिदिनं देयात्सदा मंगलम् ॥ 18॥ आधातोऽंबिकया सह त्रिनयनः सार्धं गणैर्नंदितां काशीमाशु विशन् हरः प्रथमतो वार्षध्वजेऽवस्थितः । आयाता दश धेनवः सुकपिला दिव्यैः पयोभिर्हरं ख्यातं तद्वृषभध्वजेन कपिलं देयात्सदा मंगलम् ॥ 19॥ आनंदाख्यवनं हि चंपकवनं श्रीनैमिषं खांडवं पुण्यं चैत्ररथं त्वशाकविपिनं रंभावनं पावनम् । दुर्गारण्यमथोऽपि कैरववनं वृंदावनं पावनं विख्यातानि वनानि वः प्रतिदिनं देयात्सदा मंगलम् ॥ 20॥ अलिकुलदलनीलः कालदंष्ट्राकरालः सजलजलदनीलो व्यालयज्ञोपवीतः । अभयवरदहस्तो डामरोद्दामनादः सकलदुरितभक्षो मंगलं वो ददातु ॥ 21॥ अर्धांगे विकटा गिरींद्रतनया गौरी सती सुंदरी सर्वांगे विलसद्विभूतिधवलो कालो विशालेक्षणः । वीरेशः सहनंदिभृंगिसहितः श्रीविश्वनाथः प्रभुः काशीमंदिरसंस्थितोऽखिलगुरुर्देयात्सदा मंगलम् ॥ 22॥ यः प्रातः प्रयतः प्रसन्नमनसा प्रेमप्रमोदाकुलः ख्यातं तत्र विशिष्टपादभुवनेशेंद्रादिभिर्यत्स्तुतम् । प्रातः प्राङ्मुखमासनोत्तमगतो ब्रूयाच्छृणोत्यादरात् काशीवासमुखान्यवाप्य सततं प्रीते शिवे धूर्जटि ॥ 23॥ इति श्रीमच्छंकराचार्यविरचितं काशीविश्वनाथस्तोत्रम् ॥