Shri Maha Mrityunjay Kavach (श्री महा मृत्युञ्जय कवच)

श्री महा मृत्युञ्जय कवच(Shri Maha Mrityunjay Kavach) श्रीदेव्युवाच। भगवन्‌ सर्वधर्मज्ञ सृष्टिस्थितिलयात्मक । पृत्युंजयस्य देवस्य कवचं में प्रकाशय ॥ श्री ईश्वर उवाच ॥ श्रृणु देवि प्रवक्ष्यामि कवचं सर्वसिद्धिदम्‌। मार्कण्डेयोऽपि यद्धुत्वा चिरंजीवी व्यजायत॥ तथैव सर्वदिक््पाला अमरावमवाप्लुयुः । कवचस्य ऋषिर्ब्रह्मा छन्दोऽनुष्टुबुदाहतन्‌ ॥ मृत्युंजयः समुद्दिष्टो देवता पार्वतीपतिः । देहारोग्यदलायुष्ट्‌वे विनियोगः प्रकीर्तितः। ओं तर्यम्बकं मे शिरः पातु ललाटं मे यजामहे। सुगन्धिं पातु हृदयं जठरं पुष्टिवर्धनम्‌ ॥ नाधिमुर्वारुकमिव पातु मां पार्वतीपतिः। वन्धनादूरुयुग्मं मे पातु वामाङ्कशासनः ॥ मत्योजानुयुगं पातु दक्षयज्ञविनाशनः । जंघायुग्मं च मुक्षीय पातु मां चन्द्रशेखर: ॥ मामृताच्च पददवनदर पातु सर्वेश्वरो हरः। प्रसौ मे श्रीशिवः पातु नीलकण्ठश्च पार्वयोः ॥ ऊर्ध्वमेव सदा पातु सोमसूर्याग्निलोचनः। अधः पातु सदा शम्भुः सर्वापद्विनिवारणः ॥ वारुण्यापर्धनारीशो वायव्यां पातु शंकरः। कपदों पातु कौवेयमिशान्यां ईश्वरोऽवत्‌॥ ईशान: सलिले पायदघोरः पातु कानने। अन्तरिक्ष वामदेवः पायात्तत्पुरुषो भुवि ॥ श्रीकण्ठः शयने पातु भोजने नीललोहितः। गमने त्र्यम्बकः पातु सर्वकार्येषु भुवतः। सर्वत्र सर्वदेहं मे सदा मृत्युंजयो5वतु। इति ते कर्थितं दिव्यं कवचं सर्वकामदम्‌॥ सर्वरक्षाकरं सर्व॑ग्रहपीड़ा-निवारणम्‌। दुःस्वणनाशनं पुण्यमायुरारोग्यदायकम्‌॥ त्रिसंध्यं यः पठेदेतन्मृत्युतस्य न विद्यते। लिखितं भूर्जपत्रे तु य इदं मे व्यधारयेत् ॥ तं दृष्टैव पलायन्ते भूतप्रेतपिशाचकाः । डाकिन्यश्चैव योगिन्यः सिद्धगन्धर्वराक्षसः ।। बालग्रहादिदोषा हि नश्यन्ति तस्य दर्शनात्। उपग्रहाश्चैव मारीभयं चौराभिचारिणः ॥ इदं कवचमायुष्यं कथितं तव सुन्दरि । न दातव्यं प्रयत्नेन न प्रकाश्यं कदाचन् ॥