Sri Vishnu Shata Naam Stotram (Vishnu Purana) (श्री विष्णु शत नाम स्तोत्रम् (विष्णु पुराण))

श्री विष्णु शत नाम स्तोत्रम् (विष्णु पुराण) (Sri Vishnu Shata Naam Stotram (Vishnu Purana)) ॥ श्री विष्णु अष्टोत्तर शतनामस्तोत्रम् ॥ वासुदेवं हृषीकेशं वामनं जलशायिनम् । जनार्दनं हरिं कृष्णं श्रीवक्षं गरुडध्वजम् ॥ 1 ॥ वाराहं पुंडरीकाक्षं नृसिंहं नरकांतकम् । अव्यक्तं शाश्वतं विष्णुमनंतमजमव्ययम् ॥ 2 ॥ नारायणं गदाध्यक्षं गोविंदं कीर्तिभाजनम् । गोवर्धनोद्धरं देवं भूधरं भुवनेश्वरम् ॥ 3 ॥ वेत्तारं यज्ञपुरुषं यज्ञेशं यज्ञवाहनम् । चक्रपाणिं गदापाणिं शंखपाणिं नरोत्तमम् ॥ 4 ॥ वैकुंठं दुष्टदमनं भूगर्भं पीतवाससम् । त्रिविक्रमं त्रिकालज्ञं त्रिमूर्तिं नंदकेश्वरम् ॥ 5 ॥ रामं रामं हयग्रीवं भीमं रऽउद्रं भवोद्भवम् । श्रीपतिं श्रीधरं श्रीशं मंगलं मंगलायुधम् ॥ 6 ॥ दामोदरं दमोपेतं केशवं केशिसूदनम् । वरेण्यं वरदं विष्णुमानंदं वासुदेवजम् ॥ 7 ॥ हिरण्यरेतसं दीप्तं पुराणं पुरुषोत्तमम् । सकलं निष्कलं शुद्धं निर्गुणं गुणशाश्वतम् ॥ 8 ॥ हिरण्यतनुसंकाशं सूर्यायुतसमप्रभम् । मेघश्यामं चतुर्बाहुं कुशलं कमलेक्षणम् ॥ 9 ॥ ज्योतीरूपमरूपं च स्वरूपं रूपसंस्थितम् । सर्वज्ञं सर्वरूपस्थं सर्वेशं सर्वतोमुखम् ॥ 10 ॥ ज्ञानं कूटस्थमचलं ज्ञ्हानदं परमं प्रभुम् । योगीशं योगनिष्णातं योगिसंयोगरूपिणम् ॥ 11 ॥ ईश्वरं सर्वभूतानां वंदे भूतमयं प्रभुम् । इति नामशतं दिव्यं वैष्णवं खलु पापहम् ॥ 12 ॥ व्यासेन कथितं पूर्वं सर्वपापप्रणाशनम् । यः पठेत् प्रातरुत्थाय स भवेद् वैष्णवो नरः ॥ 13 ॥ सर्वपापविशुद्धात्मा विष्णुसायुज्यमाप्नुयात् । चांद्रायणसहस्राणि कन्यादानशतानि च ॥ 14 ॥ गवां लक्षसहस्राणि मुक्तिभागी भवेन्नरः । अश्वमेधायुतं पुण्यं फलं प्राप्नोति मानवः ॥ 15 ॥ ॥ इति श्रीविष्णुपुराणे श्री विष्णु अष्टोत्तर शतनास्तोत्रम् ॥