Sudarshan Ashtottara Sata Naam Stotram (सुदर्शन अष्टोत्तर शत नाम स्तोत्रम्)

सुदर्शन अष्टोत्तर शत नाम स्तोत्रम् (Sudarshan Ashtottara Sata Naam Stotram) सुदर्शनश्चक्रराजः तेजोव्यूहो महाद्युतिः । सहस्रबाहु-र्दीप्तांगः अरुणाक्षः प्रतापवान् ॥ 1॥ अनेकादित्यसंकाशः प्रोद्यज्ज्वालाभिरंजितः । सौदामिनी-सहस्राभः मणिकुंडल-शोभितः ॥ 2॥ पंचभूतमनोरूपो षट्कोणांतर-संस्थितः । हरांतः करणोद्भूत-रोषभीषण-विग्रहः ॥ 3॥ हरिपाणिलसत्पद्मविहारारमनोहरः । श्राकाररूपस्सर्वज्ञः सर्वलोकार्चितप्रभुः ॥ 4॥ चतुर्दशसहस्रारः चतुर्वेदमयो-ऽनलः । भक्तचांद्रमसज्योतिः भवरोग-विनाशकः ॥ 5॥ रेफात्मको मकारश्च रक्षोसृग्रूषितांगकः । सर्वदैत्यग्रीवनाल-विभेदन-महागजः ॥ 6॥ भीमदंष्ट्रोज्ज्वलाकारो भीमकर्मा विलोचनः । नीलवर्त्मा नित्यसुखो निर्मलश्री-र्निरंजनः ॥ 7॥ रक्तमाल्यांबरधरो रक्तचंदनरूषितः । रजोगुणाकृतिश्शूरो रक्षःकुल-यमोपमः ॥ 8॥ नित्यक्षेमकरः प्राज्ञः पाषंडजनखंडनः । नारायणाज्ञानुवर्ती नैगमांतःप्रकाशकः ॥ 9॥ बलिनंदनदोर्दंड-खंडनो विजयाकृतिः । मित्रभावी सर्वमयो तमोविध्वंसकस्तथा ॥ 10॥ रजस्सत्त्वतमोद्वर्ती त्रिगुणात्मा त्रिलोकधृत् । हरिमायागुणोपेतो-ऽव्ययो-ऽक्षस्वरूपभाक् ॥ 11॥ परमात्मा परंज्योतिः पंचकृत्य-परायणः । ज्ञानशक्ति-बलैश्वर्य-वीर्य-तेजः-प्रभामयः ॥ 12॥ सदसत्परमः पूर्णो वाङ्मयो वरदोऽच्युतः । जीवो गुरुर्हंसरूपः पंचाशत्पीठरूपकः ॥ 13॥ मातृकामंडलाध्यक्षो मधुध्वंसी मनोमयः । बुद्धिरूपश्चित्तसाक्षी सारो हंसाक्षरद्वयः ॥ 14॥ मंत्र-यंत्र-प्रभावज्ञो मंत्र-यंत्र-मयो विभुः । स्रष्टा क्रियास्पद-श्शुद्धः आधारश्चक्र-रूपकः ॥ 15॥ निरायुधो ह्यसंरंभः सर्वायुध-समन्वितः । ओम्काररूपी पूर्णात्मा आंकारस्साध्य-बंधनः ॥ 16॥ ऐंकारो वाक्प्रदो वग्मी श्रींकारैश्वर्यवर्धनः । क्लींकारमोहनाकारो हुंफट्क्षोभणाकृतिः ॥ 17॥ इंद्रार्चित-मनोवेगो धरणीभार-नाशकः । वीराराध्यो विश्वरूपः वैष्णवो विष्णुरूपकः ॥ 18॥ सत्यव्रतः सत्यधरः सत्यधर्मानुषंगकः' नारायणकृपाव्यूह-तेजश्चक्र-स्सुदर्शनः ॥ 19॥ ॥ श्री सुदर्शनाष्टोत्तरशतनाम स्तोत्रं संपूर्णम्॥