Narayaniyam Dashaka 47 (नारायणीयं दशक 47)

नारायणीयं दशक 47 (Narayaniyam Dashaka 47) एकदा दधिविमाथकारिणीं मातरं समुपसेदिवान् भवान् । स्तन्यलोलुपतया निवारयन्नंकमेत्य पपिवान् पयोधरौ ॥1॥ अर्धपीतकुचकुड्मले त्वयि स्निग्धहासमधुराननांबुजे । दुग्धमीश दहने परिस्रुतं धर्तुमाशु जननी जगाम ते ॥2॥ सामिपीतरसभंगसंगतक्रोधभारपरिभूतचेतसा। मंथदंडमुपगृह्य पाटितं हंत देव दधिभाजनं त्वया ॥3॥ उच्चलद्ध्वनितमुच्चकैस्तदा सन्निशम्य जननी समाद्रुता । त्वद्यशोविसरवद्ददर्श सा सद्य एव दधि विस्तृतं क्षितौ ॥4॥ वेदमार्गपरिमार्गितं रुषा त्वमवीक्ष्य परिमार्गयंत्यसौ । संददर्श सुकृतिन्युलूखले दीयमाननवनीतमोतवे ॥5॥ त्वां प्रगृह्य बत भीतिभावनाभासुराननसरोजमाशु सा । रोषरूषितमुखी सखीपुरो बंधनाय रशनामुपाददे ॥6॥ बंधुमिच्छति यमेव सज्जनस्तं भवंतमयि बंधुमिच्छती । सा नियुज्य रशनागुणान् बहून् द्व्यंगुलोनमखिलं किलैक्षत ॥7॥ विस्मितोत्स्मितसखीजनेक्षितां स्विन्नसन्नवपुषं निरीक्ष्य ताम् । नित्यमुक्तवपुरप्यहो हरे बंधमेव कृपयाऽन्वमन्यथाः ॥8॥ स्थीयतां चिरमुलूखले खलेत्यागता भवनमेव सा यदा। प्रागुलूखलबिलांतरे तदा सर्पिरर्पितमदन्नवास्थिथाः ॥9॥ यद्यपाशसुगमो विभो भवान् संयतः किमु सपाशयाऽनया । एवमादि दिविजैरभिष्टुतो वातनाथ परिपाहि मां गदात् ॥10॥