Narayaniyam Dashaka 68 (नारायणीयं दशक 68)

नारायणीयं दशक 68 (Narayaniyam Dashaka 68) तव विलोकनाद्गोपिकाजनाः प्रमदसंकुलाः पंकजेक्षण । अमृतधारया संप्लुता इव स्तिमिततां दधुस्त्वत्पुरोगताः ॥1॥ तदनु काचन त्वत्करांबुजं सपदि गृह्णती निर्विशंकितम् । घनपयोधरे सन्निधाय सा पुलकसंवृता तस्थुषी चिरम् ॥2॥ तव विभोऽपरा कोमलं भुजं निजगलांतरे पर्यवेष्टयत् । गलसमुद्गतं प्राणमारुतं प्रतिनिरुंधतीवातिहर्षुला ॥3॥ अपगतत्रपा कापि कामिनी तव मुखांबुजात् पूगचर्वितम् । प्रतिगृहय्य तद्वक्त्रपंकजे निदधती गता पूर्णकामताम् ॥4॥ विकरुणो वने संविहाय मामपगतोऽसि का त्वामिह स्पृशेत् । इति सरोषया तावदेकया सजललोचनं वीक्षितो भवान् ॥5॥ इति मुदाऽऽकुलैर्वल्लवीजनैः सममुपागतो यामुने तटे । मृदुकुचांबरैः कल्पितासने घुसृणभासुरे पर्यशोभथाः ॥6॥ कतिविधा कृपा केऽपि सर्वतो धृतदयोदयाः केचिदाश्रिते । कतिचिदीदृशा मादृशेष्वपीत्यभिहितो भवान् वल्लवीजनैः ॥7॥ अयि कुमारिका नैव शंक्यतां कठिनता मयि प्रेमकातरे । मयि तु चेतसो वोऽनुवृत्तये कृतमिदं मयेत्यूचिवान् भवान् ॥8॥ अयि निशम्यतां जीववल्लभाः प्रियतमो जनो नेदृशो मम । तदिह रम्यतां रम्ययामिनीष्वनुपरोधमित्यालपो विभो ॥9॥ इति गिराधिकं मोदमेदुरैर्व्रजवधूजनैः साकमारमन् । कलितकौतुको रासखेलने गुरुपुरीपते पाहि मां गदात् ॥10॥