Shri Amarnath Ashtakam (श्री अमरनाथाष्टकम्)

|| श्री अमरनाथाष्टकम् || (Shri Amarnath Ashtakam) भागीरथीसलिलसान्द्रजटाकलापम् शीतांशुकान्ति-रमणीय-विशाल-भालम् । कर्पूरदुग्धहिमहंसनिभं स्वतोजम् नित्यं भजाम्यऽमरनाथमहं दयालुम् ॥ गौरीपतिं पशुपतिं वरदं त्रिनेत्रम् भूताधिपं सकललोकपतिं सुरेशम् । शार्दूलचर्मचितिभस्मविभूषिताङ्गम् नित्यं भजाम्यऽमरनाथमहं दयालुम् ॥ गन्धर्वयक्षरसुरकिन्नर-सिद्धसङ्घैः संस्तूयमानमनिशं श्रुतिपूतमन्त्रैः । सर्वत्रसर्वहृदयैकनिवासिनं तम् नित्यं भजाम्यऽमरनाथमहं दयालुम् ॥ व्योमानिलानलजलावनिसोमसूर्य होत्रीभिरष्टतनुभिर्जगदेकनाथः । यस्तिष्ठतीह जनमङ्गलधारणाय तं प्रार्थयाम्यऽमरनाथमहं दयालुम् ॥ शैलेन्द्रतुङ्गशिखरे गिरिजासमेतम् प्रालेयदुर्गमगुहासु सदा वसन्तम् । श्रीमद्गजाननविराजित दक्षिणाङ्कम् नित्यं भजाम्यऽमरनाथमहं दयालुम् ॥ वाग्बुद्धिचित्तकरणैश्च तपोभिरुग्रैः शक्यं समाकलयितुं न यदीयरूपम् । तं भक्तिभावसुलभं शरणं नतानाम् नित्य भजाम्यऽमरनाथमहं दयालुम् ॥ आद्यन्तहीनमखिलाधिपतिं गिरीशम् भक्तप्रियं हितकरं प्रभुमद्वयैकम् । सृष्टिस्थितिप्रलयलीलमनन्तशक्तिम् नित्यं भजाम्यऽमरनाथमहं दयालुम् ॥ हे पार्वतीश वृषभध्वज शूलपाणे हे नीलकण्ठ मदनान्तक शुभ्रमूर्ते । हे भक्तकल्पतरुरूप सुखैकसिन्धो मां पाहि पाहि भवतोऽमरनाथ नित्यम् ॥ इति स्वामी वरदानन्दभारतीविरचितं श्रीअमरनाथाष्टकं सम्पूर्णम् ।