Shri Venkateshwara Vajra Kavacha Stotram (श्री वेंकटेश्वर वज्र कवच स्तोत्रम्)

श्री वेंकटेश्वर वज्र कवच स्तोत्रम् (Sri Venkateshwara Vajra Kavacha Stotram) मार्कंडेय उवाच । नारायणं परब्रह्म सर्व-कारण-कारणम् । प्रपद्ये वेंकटेशाख्यं तदेव कवचं मम ॥ 1 ॥ सहस्र-शीर्षा पुरुषो वेंकटेश-श्शिरोऽवतु । प्राणेशः प्राण-निलयः प्राणान् रक्षतु मे हरिः ॥ 2 ॥ आकाशरा-ट्सुतानाथ आत्मानं मे सदावतु । देवदेवोत्तमो पायाद्देहं मे वेंकटेश्वरः ॥ 3 ॥ सर्वत्र सर्वकालेषु मंगांबाजा-निरीश्वरः । पालयेन्मां सदा कर्म-साफल्यं नः प्रयच्छतु ॥ 4 ॥ य एत-द्वज्रकवच-मभेद्यं वेंकटेशितुः । सायं प्रातः पठेन्नित्यं मृत्युं तरति निर्भयः ॥ 5 ॥ इति मार्कंडेय-कृतं श्री वेंकटेश्वर वज्रकवच-स्तोत्रं संपूर्णम् ॥