Narayan Suktam (नारायण सूक्तम्)

नारायण सूक्तम् (Narayan Suktam) ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ सहस्रशीरषं देवम् विश्वाक्षं विश्वशंभुवम् । विश्वं नारायणं देवम् अक्षरं परमं पदम् ॥ विश्वतः परमं नित्यम् विश्वं नारायणं हरिम् । विश्वमेवेदं पुरुषः तद्विश्वम् उपजीवति ॥ पतिं विश्वस्य आत्मेश्वरं शाश्वतं शिवम् अच्युतम् । नारायणं महाज्ञेयं विश्वात्मानं परायणम् ॥ नारायणः परो ज्योतिः आत्मा नारायणः परः । नारायणः परं ब्रह्म तत्त्वं नारायणः परः ॥ नारायणः परो ध्याता ध्यानं नारायणः परः । यत् किंचित् जगत्सर्वं दृश्यते श्रूयते अपि वा ॥ अन्तर्बहिः च तत्सर्वं व्याप्य नारायणः स्थितः । अनन्तम् अव्ययं कविम् समुद्रे अन्तं विश्वशंभुवम् ॥ पद्मकोश-प्रतीकाशं हृदयम् च अपि अधोमुखम् । अधो निष्ठ्या वितस्यान्ते नाभ्याम् उपरि तिष्ठति ॥ ज्वालामालाकुलं भाति विश्वस्यायतनं महत् । संततं शिलाभिः तु लम्बति आकोशसन्निभम् ॥ तस्य अन्ते सुषिरं सूक्ष्मं तस्मिन् सर्वं प्रतिष्ठितम् । तस्य मध्ये महानग्निः विश्वार्चिः विश्वतोमुखः ॥ सः अग्रभुः विभजं तिष्ठन् आहारम् अजरः कविः । तिर्त्यक् ऊर्ध्वम् अधः शायी रश्मयः तस्य संतताः ॥ संतापयति स्वं देहम् आपादतलम् अस्तकः । तस्य मध्ये वह्निशिखा अणीयोः उर्ध्वा व्यवस्थितः ॥ नीलतोयद मध्यस्था विद्युल्लेखा इव भास्वरा । नीवारशूकवत् तन्वी पीता भास्वती अणूपमा ॥ तस्याः शिखायां मध्ये परमात्मा व्यवस्थितः । सः ब्रह्म सः शिवः सः हरिः सः इन्द्रः सः अक्षरः परमः स्वराट् ॥ ऋतं सत्यम् परं ब्रह्म पुरुषं कृष्ण पिंगलम् । ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमः नमः ॥ ॐ नारायणाय विद्महे वासुदेवाय धीमहि । तन्नः विष्णुः प्रचोदयात् ॥ ॐ शान्तिः शान्तिः शान्तिः ॥