Narayaniyam Dashaka 80 (नारायणीयं दशक 80)

नारायणीयं दशक 80 (Narayaniyam Dashaka 80) सत्राजितस्त्वमथ लुब्धवदर्कलब्धं दिव्यं स्यमंतकमणिं भगवन्नयाचीः । तत्कारणं बहुविधं मम भाति नूनं तस्यात्मजां त्वयि रतां छलतो विवोढुम् ॥1॥ अदत्तं तं तुभ्यं मणिवरमनेनाल्पमनसा प्रसेनस्तद्भ्राता गलभुवि वहन् प्राप मृगयाम् । अहन्नेनं सिंहो मणिमहसि मांसभ्रमवशात् कपींद्रस्तं हत्वा मणिमपि च बालाय ददिवान् ॥2॥ शशंसुः सत्राजिद्गिरमनु जनास्त्वां मणिहरं जनानां पीयूषं भवति गुणिनां दोषकणिका । ततः सर्वज्ञोऽपि स्वजनसहितो मार्गणपरः प्रसेनं तं दृष्ट्वा हरिमपि गतोऽभूः कपिगुहाम् ॥3॥ भवंतमवितर्कयन्नतिवयाः स्वयं जांबवान् मुकुंदशरणं हि मां क इह रोद्धुमित्यालपन् । विभो रघुपते हरे जय जयेत्यलं मुष्टिभि- श्चिरं तव समर्चनं व्यधित भक्तचूडामणिः ॥4॥ बुध्वाऽथ तेन दत्तां नवरमणीं वरमणिं च परिगृह्णन् । अनुगृह्णन्नमुमागाः सपदि च सत्राजिते मणिं प्रादाः ॥5॥ तदनु स खलु ब्रीलालोलो विलोलविलोचनां दुहितरमहो धीमान् भामां गिरैव परार्पिताम् । अदित मणिना तुभ्यं लभ्यं समेत्य भवानपि प्रमुदितमनास्तस्यैवादान्मणिं गहनाशयः ॥6॥ व्रीलाकुलां रमयति त्वयि सत्यभामां कौंतेयदाहकथयाथ कुरून् प्रयाते । ही गांदिनेयकृतवर्मगिरा निपात्य सत्राजितं शतधनुर्मणिमाजहार ॥7॥ शोकात् कुरूनुपगतामवलोक्य कांतां हत्वा द्रुतं शतधनुं समहर्षयस्ताम् । रत्ने सशंक इव मैथिलगेहमेत्य रामो गदां समशिशिक्षत धार्तराष्ट्रम् ॥8॥ अक्रूर एष भगवन् भवदिच्छयैव सत्राजितः कुचरितस्य युयोज हिंसाम् । अक्रूरतो मणिमनाहृतवान् पुनस्त्वं तस्यैव भूतिमुपधातुमिति ब्रुवंति ॥9॥ भक्तस्त्वयि स्थिरतरः स हि गांदिनेय- स्तस्यैव कापथमतिः कथमीश जाता । विज्ञानवान् प्रशमवानहमित्युदीर्णं गर्वं ध्रुवं शमयितुं भवता कृतैव ॥10॥ यातं भयेन कृतवर्मयुतं पुनस्त- माहूय तद्विनिहितं च मणिं प्रकाश्य । तत्रैव सुव्रतधरे विनिधाय तुष्यन् भामाकुचांतशयनः पवनेश पायाः ॥11॥