Narayaniyam Dashaka 28 (नारायणीयं दशक 28)

नारायणीयं दशक 28 (Narayaniyam Dashaka 28) गरलं तरलानलं पुरस्ता- ज्जलधेरुद्विजगाल कालकूटम् । अमरस्तुतिवादमोदनिघ्नो गिरिशस्तन्निपपौ भवत्प्रियार्थम् ॥1॥ विमथत्सु सुरासुरेषु जाता सुरभिस्तामृषिषु न्यधास्त्रिधामन् । हयरत्नमभूदथेभरत्नं द्युतरुश्चाप्सरसः सुरेषु तानि ॥2॥ जगदीश भवत्परा तदानीं कमनीया कमला बभूव देवी । अमलामवलोक्य यां विलोलः सकलोऽपि स्पृहयांबभूव लोकः ॥3॥ त्वयि दत्तहृदे तदैव देव्यै त्रिदशेंद्रो मणिपीठिकां व्यतारीत् । सकलोपहृताभिषेचनीयैः ऋषयस्तां श्रुतिगीर्भिरभ्यषिंचन् ॥4॥ अभिषेकजलानुपातिमुग्ध- त्वदपांगैरवभूषितांगवल्लीम् । मणिकुंडलपीतचेलहार- प्रमुखैस्ताममरादयोऽन्वभूषन् ॥5॥ वरणस्रजमात्तभृंगनादां दधती सा कुचकुंभमंदयाना । पदशिंजितमंजुनूपुरा त्वां कलितव्रीलविलासमाससाद ॥6॥ गिरिशद्रुहिणादिसर्वदेवान् गुणभाजोऽप्यविमुक्तदोषलेशान् । अवमृश्य सदैव सर्वरम्ये निहिता त्वय्यनयाऽपि दिव्यमाला ॥7॥ उरसा तरसा ममानिथैनां भुवनानां जननीमनन्यभावाम् । त्वदुरोविलसत्तदीक्षणश्री- परिवृष्ट्या परिपुष्टमास विश्वम् ॥8॥ अतिमोहनविभ्रमा तदानीं मदयंती खलु वारुणी निरागात् । तमसः पदवीमदास्त्वमेना- मतिसम्माननया महासुरेभ्यः ॥9॥ तरुणांबुदसुंदरस्तदा त्वं ननु धन्वंतरिरुत्थितोऽंबुराशेः । अमृतं कलशे वहन् कराभ्या- मखिलार्तिं हर मारुतालयेश ॥10॥