Narmada Stuti (नर्मदास्तुतिः )

नर्मदास्तुतिः (Narmada Stuti) व्यास उवाच जय भगवति देवि नमो वरदे जय पापविनाशिनि बहुफलदे। जय शुम्भनिशुम्भकपालधरे प्रणमामि तु देवनरात्र्त्तिहरे ॥ १ ॥ जय चन्द्रदिवाकरनेत्रधरे जय पावकभूषितवक्त्रवरे । जय भैरवदेहनिलीनपरे जय अन्धकरक्तविशोषकरे ॥ २ ॥ जय महिषविमर्दिनि शूलकरे जय लोकसमस्तकपापहरे। जय देवि पितामहरामनते जय भास्करशक्रशिरोऽवनते ॥ ३ ॥ जय षण्मुखसायुधईशनुते जय सागरगामिनि शम्भुनुते। जय दुःखदरिद्रविनाशकरे जय पुत्रकलत्रविवृद्धिकरे ॥ ४॥ जय देवि समस्तशरीरधरे जय नाकविदर्शिनि दुःखहरे। जय व्याधिविनाशिनि मोक्षकरे जय वाञ्छितदायिनि सिद्धिवरे ॥ ५ ॥ एतद् व्यासकृतं स्तोत्रं यः पठेच्छिवसन्निधौ । गृहे वा शुद्धभावेन कामक्रोधविवर्जितः ॥ ६ ॥ तस्य व्यासो भवेत्प्रीतः प्रीतश्च वृषवाहनः । प्रीता स्यान्नर्मदा देवी सर्वपापक्षयङ्करी ॥ ७ ॥ न ते यान्ति यमालोकं यैः स्तुता भुवि नर्मदा ॥ ८॥ ॥ इति श्रीस्कन्दमहापुराणे रेवाखण्डे व्यासकृता नर्मदास्तुतिः सम्पूर्णा ॥