Eighteen Shaktipeeth Stotram (अष्टादश शक्तिपीठ स्तोत्रम्)

अष्टादश शक्तिपीठ स्तोत्रम् (Eighteen Shaktipeeth Stotram) लंकायां शांकरीदेवी कामाक्षी कांचिकापुरे । प्रद्युम्ने शृंखलादेवी चामुंडी क्रौंचपट्टणे ॥ 1 ॥ अलंपुरे जोगुलांबा श्रीशैले भ्रमरांबिका । कॊल्हापुरे महालक्ष्मी मुहुर्ये एकवीरा ॥ 2 ॥ उज्जयिन्यां महाकाली पीठिकायां पुरुहूतिका । ओढ्यायां गिरिजादेवी माणिक्या दक्षवाटिके ॥ 3 ॥ हरिक्षेत्रे कामरूपी प्रयागे माधवेश्वरी । ज्वालायां वैष्णवीदेवी गया मांगल्यगौरिका ॥ 4 ॥ वारणाश्यां विशालाक्षी काश्मीरेतु सरस्वती । अष्टादश सुपीठानि योगिनामपि दुर्लभम् ॥ 5 ॥ सायंकाले पठेन्नित्यं सर्वशत्रुविनाशनम् । सर्वरोगहरं दिव्यं सर्वसंपत्करं शुभम् ॥ 6 ॥