Narayaniyam Dashaka 40 (नारायणीयं दशक 40)

नारायणीयं दशक 40 (Narayaniyam Dashaka 40) तदनु नंदममंदशुभास्पदं नृपपुरीं करदानकृते गतम्। समवलोक्य जगाद भवत्पिता विदितकंससहायजनोद्यमः ॥1॥ अयि सखे तव बालकजन्म मां सुखयतेऽद्य निजात्मजजन्मवत् । इति भवत्पितृतां व्रजनायके समधिरोप्य शशंस तमादरात् ॥2॥ इह च संत्यनिमित्तशतानि ते कटकसीम्नि ततो लघु गम्यताम् । इति च तद्वचसा व्रजनायको भवदपायभिया द्रुतमाययौ ॥3॥ अवसरे खलु तत्र च काचन व्रजपदे मधुराकृतिरंगना । तरलषट्पदलालितकुंतला कपटपोतक ते निकटं गता ॥4॥ सपदि सा हृतबालकचेतना निशिचरान्वयजा किल पूतना । व्रजवधूष्विह केयमिति क्षणं विमृशतीषु भवंतमुपाददे ॥5॥ ललितभावविलासहृतात्मभिर्युवतिभिः प्रतिरोद्धुमपारिता । स्तनमसौ भवनांतनिषेदुषी प्रददुषी भवते कपटात्मने ॥5॥ समधिरुह्य तदंकमशंकितस्त्वमथ बालकलोपनरोषितः । महदिवाम्रफलं कुचमंडलं प्रतिचुचूषिथ दुर्विषदूषितम् ॥7॥ असुभिरेव समं धयति त्वयि स्तनमसौ स्तनितोपमनिस्वना । निरपतद्भयदायि निजं वपुः प्रतिगता प्रविसार्य भुजावुभौ ॥8॥ भयदघोषणभीषणविग्रहश्रवणदर्शनमोहितवल्लवे । व्रजपदे तदुरःस्थलखेलनं ननु भवंतमगृह्णत गोपिकाः ॥9॥ भुवनमंगलनामभिरेव ते युवतिभिर्बहुधा कृतरक्षणः । त्वमयि वातनिकेतननाथ मामगदयन् कुरु तावकसेवकम् ॥10॥