Aparadha Kshamapana Stotram (अपराध क्षमापण स्तोत्रम्)

अपराध क्षमापण स्तोत्रम् (Aparadha Kshamapana Stotram) अपराधसहस्राणि क्रियंतेऽहर्निशं मया । दासोऽयमिति मां मत्वा क्षमस्व परमेश्वरि ॥ 1 ॥ आवाहनं न जानामि न जानामि विसर्जनम् । पूजां चैव न जानामि क्षम्यतां परमेश्वरि ॥ 2 ॥ मंत्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वरि । यत्पूजितं मया देवि परिपूर्णं तदस्तु मे ॥ 3 ॥ अपराधशतं कृत्वा जगदंबेति चोच्चरेत् । यां गतिं समवाप्नोति न तां ब्रह्मादयः सुराः ॥ 4 ॥ सापराधोऽस्मि शरणं प्राप्तस्त्वां जगदंबिके । इदानीमनुकंप्योऽहं यथेच्छसि तथा कुरु ॥ 5 ॥ अज्ञानाद्विस्मृतेर्भ्रांत्या यन्न्यूनमधिकं कृतम् । विपरीतं च तत्सर्वं क्षमस्व परमेश्वरि ॥ 6 ॥ कामेश्वरि जगन्मातः सच्चिदानंदविग्रहे । गृहाणार्चामिमां प्रीत्या प्रसीद परमेश्वरि ॥ 7 ॥ यदक्षरपदभ्रष्टं मात्राहीनं च यद्भवेत् । तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्वरि ॥ 8 ॥ गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् । सिद्धिर्भवतु मे देवि त्वत्प्रसादान्महेश्वरि ॥ 9 ॥ सर्वरूपमयी देवी सर्वं देवीमयं जगत् । अतोऽहं विश्वरूपां त्वां नमामि परमेश्वरीम् ॥ 10 ॥ इति अपराधक्षमापणस्तोत्रं समाप्तम् ॥