Narayaniyam Dashaka 46 (नारायणीयं दशक 46)

नारायणीयं दशक 46 (Narayaniyam Dashaka 46) अयि देव पुरा किल त्वयि स्वयमुत्तानशये स्तनंधये । परिजृंभणतो व्यपावृते वदने विश्वमचष्ट वल्लवी ॥1॥ पुनरप्यथ बालकैः समं त्वयि लीलानिरते जगत्पते । फलसंचयवंचनक्रुधा तव मृद्भोजनमूचुरर्भकाः ॥2॥ अयि ते प्रलयावधौ विभो क्षितितोयादिसमस्तभक्षिणः । मृदुपाशनतो रुजा भवेदिति भीता जननी चुकोप सा ॥3॥ अयि दुर्विनयात्मक त्वया किमु मृत्सा बत वत्स भक्षिता । इति मातृगिरं चिरं विभो वितथां त्वं प्रतिजज्ञिषे हसन् ॥4॥ अयि ते सकलैर्विनिश्चिते विमतिश्चेद्वदनं विदार्यताम् । इति मातृविभर्त्सितो मुखं विकसत्पद्मनिभं व्यदारयः ॥5॥ अपि मृल्लवदर्शनोत्सुकां जननीं तां बहु तर्पयन्निव । पृथिवीं निखिलां न केवलं भुवनान्यप्यखिलान्यदीदृशः ॥6॥ कुहचिद्वनमंबुधिः क्वचित् क्वचिदभ्रं कुहचिद्रसातलम् । मनुजा दनुजाः क्वचित् सुरा ददृशे किं न तदा त्वदानने ॥7॥ कलशांबुधिशायिनं पुनः परवैकुंठपदाधिवासिनम् । स्वपुरश्च निजार्भकात्मकं कतिधा त्वां न ददर्श सा मुखे ॥8॥ विकसद्भुवने मुखोदरे ननु भूयोऽपि तथाविधाननः । अनया स्फुटमीक्षितो भवाननवस्थां जगतां बतातनोत् ॥9॥ धृततत्त्वधियं तदा क्षणं जननीं तां प्रणयेन मोहयन् । स्तनमंब दिशेत्युपासजन् भगवन्नद्भुतबाल पाहि माम् ॥10॥