Lahari Collection

    Shivanand Lahari (शिवानन्द लहरि)

    शिवानन्द लहरि (Shivanand Lahari) कलाभ्यां चूडालङ्कृतशशिकलाभ्यां निजतपः- -फलाभ्यां भक्तेषु प्रकटितफलाभ्यां भवतु मे । शिवाभ्यामस्तोकत्रिभुवनशिवाभ्यां हृदि पुन- -र्भवाभ्यामानन्दस्फुरदनुभवाभ्यां नतिरियम् ॥ 1 ॥ गलन्ती शम्भो त्वच्चरितसरितः किल्बिषरजो दलन्ती धीकुल्यासरणिषु पतन्ती विजयताम् । दिशन्ती संसारभ्रमणपरितापोपशमनं वसन्ती मच्चेतोह्रदभुवि शिवानन्दलहरी ॥ 2 ॥ त्रयीवेद्यं हृद्यं त्रिपुरहरमाद्यं त्रिनयनं जटाभारोदारं चलदुरगहारं मृगधरम् । महादेवं देवं मयि सदयभावं पशुपतिं चिदालम्बं साम्बं शिवमतिविडम्बं हृदि भजे ॥ 3 ॥ सहस्रं वर्तन्ते जगति विबुधाः क्षुद्रफलदा न मन्ये स्वप्ने वा तदनुसरणं तत्कृतफलम् । हरिब्रह्मादीनामपि निकटभाजामसुलभं चिरं याचे शम्भो शिव तव पदाम्भोजभजनम् ॥ 4 ॥ स्मृतौ शास्त्रे वैद्ये शकुनकवितागानफणितौ पुराणे मन्त्रे वा स्तुतिनटनहास्येष्वचतुरः । कथं राज्ञां प्रीतिर्भवति मयि कोऽहं पशुपते पशुं मां सर्वज्ञ प्रथित कृपया पालय विभो ॥ 5 ॥ घटो वा मृत्पिण्डोऽप्यणुरपि च धूमोऽग्निरचलः पटो वा तन्तुर्वा परिहरति किं घोरशमनम् । वृथा कण्ठक्षोभं वहसि तरसा तर्कवचसा पदाम्भोजं शम्भोर्भज परमसौख्यं व्रज सुधीः ॥ 6 ॥ मनस्ते पादाब्जे निवसतु वचः स्तोत्रफणितौ करौ चाभ्यर्चायां श्रुतिरपि कथाकर्णनविधौ । तव ध्याने बुद्धिर्नयनयुगलं मूर्तिविभवे परग्रन्थान्कैर्वा परमशिव जाने परमतः ॥ 7 ॥ यथा बुद्धिः शुक्तौ रजतमिति काचाश्मनि मणि- -र्जले पैष्टे क्षीरं भवति मृगतृष्णासु सलिलम् । तथा देवभ्रान्त्या भजति भवदन्यं जडजनो महादेवेशं त्वां मनसि च न मत्वा पशुपते ॥ 8 ॥ गभीरे कासारे विशति विजने घोरविपिने विशाले शैले च भ्रमति कुसुमार्थं जडमतिः । समर्प्यैकं चेतः सरसिजमुमानाथ भवते सुखेनावस्थातुं जन इह न जानाति किमहो ॥ 9 ॥ नरत्वं देवत्वं नगवनमृगत्वं मशकता पशुत्वं कीटत्वं भवतु विहगत्वादि जननम् । सदा त्वत्पादाब्जस्मरणपरमानन्दलहरी- -विहारासक्तं चेद्धृदयमिह किं तेन वपुषा ॥ 10 ॥ वटुर्वा गेही वा यतिरपि जटी वा तदितरो नरो वा यः कश्चिद्भवतु भव किं तेन भवति । यदीयं हृत्पद्मं यदि भवदधीनं पशुपते तदीयस्त्वं शम्भो भवसि भवभारं च वहसि ॥ 11 ॥ गुहायां गेहे वा बहिरपि वने वाऽद्रिशिखरे जले वा वह्नौ वा वसतु वसतेः किं वद फलम् । सदा यस्यैवान्तःकरणमपि शम्भो तव पदे स्थितं चेद्योगोऽसौ स च परमयोगी स च सुखी ॥ 12 ॥ असारे संसारे निजभजनदूरे जडधिया भ्रमन्तं मामन्धं परमकृपया पातुमुचितम् । मदन्यः को दीनस्तव कृपणरक्षातिनिपुण- -स्त्वदन्यः को वा मे त्रिजगति शरण्यः पशुपते ॥ 13 ॥ प्रभुस्त्वं दीनानां खलु परमबन्धुः पशुपते प्रमुख्योऽहं तेषामपि किमुत बन्धुत्वमनयोः । त्वयैव क्षन्तव्याः शिव मदपराधाश्च सकलाः प्रयत्नात्कर्तव्यं मदवनमियं बन्धुसरणिः ॥ 14 ॥ उपेक्षा नो चेत्किं न हरसि भवद्ध्यानविमुखां दुराशाभूयिष्ठां विधिलिपिमशक्तो यदि भवान् । शिरस्तद्वैधात्रं ननखलु सुवृत्तं पशुपते कथं वा निर्यत्नं करनखमुखेनैव लुलितम् ॥ 15 ॥ विरिञ्चिर्दीर्घायुर्भवतु भवता तत्परशिर- -श्चतुष्कं संरक्ष्यं स खलु भुवि दैन्यं लिखितवान् । विचारः को वा मां विशद कृपया पाति शिव ते कटाक्षव्यापारः स्वयमपि च दीनावनपरः ॥ 16 ॥ फलाद्वा पुण्यानां मयि करुणया वा त्वयि विभो प्रसन्नेऽपि स्वामिन् भवदमलपादाब्जयुगलम् । कथं पश्येयं मां स्थगयति नमः सम्भ्रमजुषां निलिम्पानां श्रेणिर्निजकनकमाणिक्यमकुटैः ॥ 17 ॥ त्वमेको लोकानां परमफलदो दिव्यपदवीं वहन्तस्त्वन्मूलां पुनरपि भजन्ते हरिमुखाः । कियद्वा दाक्षिण्यं तव शिव मदाशा च कियती कदा वा मद्रक्षां वहसि करुणापूरितदृशा ॥ 18 ॥ दुराशाभूयिष्ठे दुरधिपगृहद्वारघटके दुरन्ते संसारे दुरितनिलये दुःखजनके । मदायासं किं न व्यपनयसि कस्योपकृतये वदेयं प्रीतिश्चेत्तव शिव कृतार्थाः खलु वयम् ॥ 19 ॥ सदा मोहाटव्यां चरति युवतीनां कुचगिरौ नटत्याशाशाखास्वटति झटिति स्वैरमभितः । कपालिन् भिक्षो मे हृदयकपिमत्यन्तचपलं दृढं भक्त्या बद्ध्वा शिव भवदधीनं कुरु विभो ॥ 20 ॥ धृतिस्तम्भाधारां दृढगुणनिबद्धां सगमनां विचित्रां पद्माढ्यां प्रतिदिवससन्मार्गघटिताम् । स्मरारे मच्चेतःस्फुटपटकुटीं प्राप्य विशदां जय स्वामिन् शक्त्या सह शिव गणैः सेवित विभो ॥ 21 ॥ प्रलोभाद्यैरर्थाहरणपरतन्त्रो धनिगृहे प्रवेशोद्युक्तः सन् भ्रमति बहुधा तस्करपते । इमं चेतश्चोरं कथमिह सहे शङ्कर विभो तवाधीनं कृत्वा मयि निरपराधे कुरु कृपाम् ॥ 22 ॥ करोमि त्वत्पूजां सपदि सुखदो मे भव विभो विधित्वं विष्णुत्वं दिशसि खलु तस्याः फलमिति । पुनश्च त्वां द्रष्टुं दिवि भुवि वहन्पक्षिमृगता- -मदृष्ट्वा तत्खेदं कथमिह सहे शङ्कर विभो ॥ 23 ॥ कदा वा कैलासे कनकमणिसौधे सह गणै- -र्वसन् शम्भोरग्रे स्फुटघटितमूर्धाञ्जलिपुटः । विभो साम्ब स्वामिन्परमशिव पाहीति निगद- -न्विधातॄणां कल्पान् क्षणमिव विनेष्यामि सुखतः ॥ 24 ॥ स्तवैर्ब्रह्मादीनां जयजयवचोभिर्नियमिनां गणानां केलीभिर्मदकलमहोक्षस्य ककुदि । स्थितं नीलग्रीवं त्रिनयनमुमाश्लिष्टवपुषं कदा त्वां पश्येयं करधृतमृगं खण्डपरशुम् ॥ 25 ॥ कदा वा त्वां दृष्ट्वा गिरिश तव भव्याङ्घ्रियुगलं गृहीत्वा हस्ताभ्यां शिरसि नयने वक्षसि वहन् । समाश्लिष्याघ्राय स्फुटजलजगन्धान्परिमला- -नलाभ्यां ब्रह्माद्यैर्मुदमनुभविष्यामि हृदये ॥ 26 ॥ करस्थे हेमाद्रौ गिरिश निकटस्थे धनपतौ गृहस्थे स्वर्भूजामरसुरभिचिन्तामणिगणे । शिरःस्थे शीतांशौ चरणयुगलस्थेऽखिलशुभे कमर्थं दास्येऽहं भवतु भवदर्थं मम मनः ॥ 27 ॥ सारूप्यं तव पूजने शिव महादेवेति सङ्कीर्तने सामीप्यं शिवभक्तिधुर्यजनतासाङ्गत्यसम्भाषणे । सालोक्यं च चराचरात्मकतनुध्याने भवानीपते सायुज्यं मम सिद्धमत्र भवति स्वामिन् कृतार्थोऽस्म्यहम् ॥ 28 ॥ त्वत्पादाम्बुजमर्चयामि परमं त्वां चिन्तयाम्यन्वहं त्वामीशं शरणं व्रजामि वचसा त्वामेव याचे विभो । वीक्षां मे दिश चाक्षुषीं सकरुणां दिव्यैश्चिरं प्रार्थितां शम्भो लोकगुरो मदीयमनसः सौख्योपदेशं कुरु ॥ 29 ॥ वस्त्रोद्धूतविधौ सहस्रकरता पुष्पार्चने विष्णुता गन्धे गन्धवहात्मताऽन्नपचने बर्हिर्मुखाध्यक्षता । पात्रे काञ्चनगर्भतास्ति मयि चेद्बालेन्दुचूडामणे शुश्रूषां करवाणि ते पशुपते स्वामिंस्त्रिलोकीगुरो ॥ 30 ॥ नालं वा परमोपकारकमिदं त्वेकं पशूनां पते पश्यन् कुक्षिगतांश्चराचरगणान् बाह्यस्थितान् रक्षितुम् । सर्वामर्त्यपलायनौषधमतिज्वालाकरं भीकरं निक्षिप्तं गरलं गले न गिलितं नोद्गीर्णमेव त्वया ॥ 31 ॥ ज्वालोग्रः सकलामरातिभयदः क्ष्वेलः कथं वा त्वया दृष्टः किं च करे धृतः करतले किं पक्वजम्बूफलम् । जिह्वायां निहितश्च सिद्धघुटिका वा कण्ठदेशे भृतः किं ते नीलमणिर्विभूषणमयं शम्भो महात्मन् वद ॥ 32 ॥ नालं वा सकृदेव देव भवतः सेवा नतिर्वा नुतिः पूजा वा स्मरणं कथाश्रवणमप्यालोकनं मादृशाम् । स्वामिन्नस्थिरदेवतानुसरणायासेन किं लभ्यते का वा मुक्तिरितः कुतो भवति चेत्किं प्रार्थनीयं तदा ॥ 33 ॥ किं ब्रूमस्तव साहसं पशुपते कस्यास्ति शम्भो भव- -द्धैर्यं चेदृशमात्मनः स्थितिरियं चान्यैः कथं लभ्यते । भ्रश्यद्देवगणं त्रसन्मुनिगणं नश्यत्प्रपञ्चं लयं पश्यन्निर्भय एक एव विहरत्यानन्दसान्द्रो भवान् ॥ 34 ॥ योगक्षेमधुरन्धरस्य सकलश्रेयःप्रदोद्योगिनो दृष्टादृष्टमतोपदेशकृतिनो बाह्यान्तरव्यापिनः । सर्वज्ञस्य दयाकरस्य भवतः किं वेदितव्यं मया शम्भो त्वं परमान्तरङ्ग इति मे चित्ते स्मराम्यन्वहम् ॥ 35 ॥ भक्तो भक्तिगुणावृते मुदमृतापूर्णे प्रसन्ने मनः कुम्भे साम्ब तवाङ्घ्रिपल्लवयुगं संस्थाप्य संवित्फलम् । सत्वं मन्त्रमुदीरयन्निजशरीरागारशुद्धिं वहन् पुण्याहं प्रकटीकरोमि रुचिरं कल्याणमापादयन् ॥ 36 ॥ आम्नायाम्बुधिमादरेण सुमनःसङ्घाः समुद्यन्मनो मन्थानं दृढभक्तिरज्जुसहितं कृत्वा मथित्वा ततः । सोमं कल्पतरुं सुपर्वसुरभिं चिन्तामणिं धीमतां नित्यानन्दसुधां निरन्तररमासौभाग्यमातन्वते ॥ 37 ॥ प्राक्पुण्याचलमार्गदर्शितसुधामूर्तिः प्रसन्नः शिवः सोमः सद्गणसेवितो मृगधरः पूर्णस्तमोमोचकः । चेतः पुष्करलक्षितो भवति चेदानन्दपाथोनिधिः प्रागल्भ्येन विजृम्भते सुमनसां वृत्तिस्तदा जायते ॥ 38 ॥ धर्मो मे चतुरङ्घ्रिकः सुचरितः पापं विनाशं गतं कामक्रोधमदादयो विगलिताः कालाः सुखाविष्कृताः । ज्ञानानन्दमहौषधिः सुफलिता कैवल्यनाथे सदा मान्ये मानसपुण्डरीकनगरे राजावतंसे स्थिते ॥ 39 ॥ धीयन्त्रेण वचोघटेन कविताकुल्योपकुल्याक्रमै- -रानीतैश्च सदाशिवस्य चरिताम्भोराशिदिव्यामृतैः । हृत्केदारयुताश्च भक्तिकलमाः साफल्यमातन्वते दुर्भिक्षान्मम सेवकस्य भगवन्विश्वेश भीतिः कुतः ॥ 40 ॥ पापोत्पातविमोचनाय रुचिरैश्वर्याय मृत्युञ्जय स्तोत्रध्याननतिप्रदक्षिणसपर्यालोकनाकर्णने । जिह्वाचित्तशिरोङ्घ्रिहस्तनयनश्रोत्रैरहं प्रार्थितो मामाज्ञापय तन्निरूपय मुहुर्मामेव मा मेऽवचः ॥ 41 ॥ गाम्भीर्यं परिखापदं घनधृतिः प्राकार उद्यद्गुण- -स्तोमश्चाप्तबलं घनेन्द्रियचयो द्वाराणि देहे स्थितः । विद्या वस्तुसमृद्धिरित्यखिलसामग्रीसमेते सदा दुर्गातिप्रियदेव मामकमनोदुर्गे निवासं कुरु ॥ 42 ॥ मा गच्छ त्वमितस्ततो गिरिश भो मय्येव वासं कुरु स्वामिन्नादिकिरात मामकमनःकान्तारसीमान्तरे । वर्तन्ते बहुशो मृगा मदजुषो मात्सर्यमोहादय- -स्तान्हत्वा मृगयाविनोदरुचितालाभं च सम्प्राप्स्यसि ॥ 43 ॥ करलग्नमृगः करीन्द्रभङ्गो घनशार्दूलविखण्डनोऽस्तजन्तुः । गिरिशो विशदाकृतिश्च चेतः- -कुहरे पञ्चमुखोऽस्ति मे कुतो भीः ॥ 44 ॥ छन्दःशाखिशिखान्वितैर्द्विजवरैः संसेविते शाश्वते सौख्यापादिनि खेदभेदिनि सुधासारैः फलैर्दीपिते । चेतःपक्षिशिखामणे त्यज वृथासञ्चारमन्यैरलं नित्यं शङ्करपादपद्मयुगलीनीडे विहारं कुरु ॥ 45 ॥ आकीर्णे नखराजिकान्तिविभवैरुद्यत्सुधावैभवै- -राधौतेऽपि च पद्मरागललिते हंसव्रजैराश्रिते । नित्यं भक्तिवधूगणैश्च रहसि स्वेच्छाविहारं कुरु स्थित्वा मानसराजहंस गिरिजानाथाङ्घ्रिसौधान्तरे ॥ 46 ॥ शम्भुध्यानवसन्तसङ्गिनि हृदारामेऽघजीर्णच्छदाः स्रस्ता भक्तिलताच्छटा विलसिताः पुण्यप्रवालश्रिताः । दीप्यन्ते गुणकोरका जपवचःपुष्पाणि सद्वासना ज्ञानानन्दसुधामरन्दलहरी संवित्फलाभ्युन्नतिः ॥ 47 ॥ नित्यानन्दरसालयं सुरमुनिस्वान्ताम्बुजाताश्रयं स्वच्छं सद्द्विजसेवितं कलुषहृत्सद्वासनाविष्कृतम् । शम्भुध्यानसरोवरं व्रज मनोहंसावतंस स्थिरं किं क्षुद्राश्रयपल्वलभ्रमणसञ्जातश्रमं प्राप्स्यसि ॥ 48 ॥ आनन्दामृतपूरिता हरपदाम्भोजालवालोद्यता स्थैर्योपघ्नमुपेत्य भक्तिलतिका शाखोपशाखान्विता । उच्छैर्मानसकायमानपटलीमाक्रम्य निष्कल्मषा नित्याभीष्टफलप्रदा भवतु मे सत्कर्मसंवर्धिता ॥ 49 ॥ सन्ध्यारम्भविजृम्भितं श्रुतिशिरःस्थानान्तराधिष्ठितं सप्रेमभ्रमराभिराममसकृत्सद्वासनाशोभितम् । भोगीन्द्राभरणं समस्तसुमनःपूज्यं गुणाविष्कृतं सेवे श्रीगिरिमल्लिकार्जुनमहालिङ्गं शिवालिङ्गितम् ॥ 50 ॥ भृङ्गीच्छानटनोत्कटः करमदग्राही स्फुरन्माधवा- -ह्लादो नादयुतो महासितवपुः पञ्चेषुणा चादृतः । सत्पक्षः सुमनोवनेषु स पुनः साक्षान्मदीये मनो- -राजीवे भ्रमराधिपो विहरतां श्रीशैलवासी विभुः ॥ 51 ॥ कारुण्यामृतवर्षिणं घनविपद्ग्रीष्मच्छिदाकर्मठं विद्यासस्यफलोदयाय सुमनःसंसेव्यमिच्छाकृतिम् । नृत्यद्भक्तमयूरमद्रिनिलयं चञ्चज्जटामण्डलं शम्भो वाञ्छति नीलकन्धर सदा त्वां मे मनश्चातकः ॥ 52 ॥ आकाशेन शिखी समस्तफणिनां नेत्रा कलापी नता- -नुग्राहिप्रणवोपदेशनिनदैः केकीति यो गीयते । श्यामां शैलसमुद्भवां घनरुचिं दृष्ट्वा नटन्तं मुदा वेदान्तोपवने विहाररसिकं तं नीलकण्ठं भजे ॥ 53 ॥ सन्ध्या घर्मदिनात्ययो हरिकराघातप्रभूतानक- -ध्वानो वारिदगर्जितं दिविषदां दृष्टिच्छटा चञ्चला । भक्तानां परितोषबाष्पविततिर्वृष्टिर्मयूरी शिवा यस्मिन्नुज्ज्वलताण्डवं विजयते तं नीलकण्ठं भजे ॥ 54 ॥ आद्यायामिततेजसे श्रुतिपदैर्वेद्याय साध्याय ते विद्यानन्दमयात्मने त्रिजगतः संरक्षणोद्योगिने । ध्येयायाखिलयोगिभिः सुरगणैर्गेयाय मायाविने सम्यक्ताण्डवसम्भ्रमाय जटिने सेयं नतिः शम्भवे ॥ 55 ॥ नित्याय त्रिगुणात्मने पुरजिते कात्यायनीश्रेयसे सत्यायादिकुटुम्बिने मुनिमनः प्रत्यक्षचिन्मूर्तये । मायासृष्टजगत्त्रयाय सकलाम्नायान्तसञ्चारिणे सायन्ताण्डवसम्भ्रमाय जटिने सेयं नतिः शम्भवे ॥ 56 ॥ नित्यं स्वोदरपोषणाय सकलानुद्दिश्य वित्ताशया व्यर्थं पर्यटनं करोमि भवतः सेवां न जाने विभो । मज्जन्मान्तरपुण्यपाकबलतस्त्वं शर्व सर्वान्तर- -स्तिष्ठस्येव हि तेन वा पशुपते ते रक्षणीयोऽस्म्यहम् ॥ 57 ॥ एको वारिजबान्धवः क्षितिनभोव्याप्तं तमोमण्डलं भित्त्वा लोचनगोचरोऽपि भवति त्वं कोटिसूर्यप्रभः । वेद्यः किं न भवस्यहो घनतरं कीदृग्भवेन्मत्तम- -स्तत्सर्वं व्यपनीय मे पशुपते साक्षात्प्रसन्नो भव ॥ 58 ॥ हंसः पद्मवनं समिच्छति यथा नीलाम्बुदं चातकः कोकः कोकनदप्रियं प्रतिदिनं चन्द्रं चकोरस्तथा । चेतो वाञ्छति मामकं पशुपते चिन्मार्गमृग्यं विभो गौरीनाथ भवत्पदाब्जयुगलं कैवल्यसौख्यप्रदम् ॥ 59 ॥ रोधस्तोयहृतः श्रमेण पथिकश्छायां तरोर्वृष्टितो भीतः स्वस्थगृहं गृहस्थमतिथिर्दीनः प्रभुं धार्मिकम् । दीपं सन्तमसाकुलश्च शिखिनं शीतावृतस्त्वं तथा चेतः सर्वभयापहं व्रज सुखं शम्भोः पदाम्भोरुहम् ॥ 60 ॥ अङ्कोलं निजबीजसन्ततिरयस्कान्तोपलं सूचिका साध्वी नैजविभुं लता क्षितिरुहं सिन्धुः सरिद्वल्लभम् । प्राप्नोतीह यथा तथा पशुपतेः पादारविन्दद्वयं चेतोवृत्तिरुपेत्य तिष्ठति सदा सा भक्तिरित्युच्यते ॥ 61 ॥ आनन्दाश्रुभिरातनोति पुलकं नैर्मल्यतश्छादनं वाचाशङ्खमुखे स्थितैश्च जठरापूर्तिं चरित्रामृतैः । रुद्राक्षैर्भसितेन देव वपुषो रक्षां भवद्भावना- -पर्यङ्के विनिवेश्य भक्तिजननी भक्तार्भकं रक्षति ॥ 62 ॥ मार्गावर्तितपादुका पशुपतेरङ्गस्य कूर्चायते गण्डूषाम्बुनिषेचनं पुररिपोर्दिव्याभिषेकायते । किञ्चिद्भक्षितमांसशेषकबलं नव्योपहारायते भक्तिः किं न करोत्यहो वनचरो भक्तावतंसायते ॥ 63 ॥ वक्षस्ताडनमन्तकस्य कठिनापस्मारसम्मर्दनं भूभृत्पर्यटनं नमत्सुरशिरःकोटीरसङ्घर्षणम् । कर्मेदं मृदुलस्य तावकपदद्वन्द्वस्य किं वोचितं मच्चेतोमणिपादुकाविहरणं शम्भो सदाङ्गीकुरु ॥ 64 ॥ वक्षस्ताडनशङ्कया विचलितो वैवस्वतो निर्जराः कोटीरोज्ज्वलरत्नदीपकलिकानीराजनं कुर्वते । दृष्ट्वा मुक्तिवधूस्तनोति निभृताश्लेषं भवानीपते यच्चेतस्तव पादपद्मभजनं तस्येह किं दुर्लभम् ॥ 65 ॥ क्रीडार्थं सृजसि प्रपञ्चमखिलं क्रीडामृगास्ते जनाः यत्कर्माचरितं मया च भवतः प्रीत्यै भवत्येव तत् । शम्भो स्वस्य कुतूहलस्य करणं मच्चेष्टितं निश्चितं तस्मान्मामकरक्षणं पशुपते कर्तव्यमेव त्वया ॥ 66 ॥ बहुविधपरितोषबाष्पपूर- -स्फुटपुलकाङ्कितचारुभोगभूमिम् । चिरपदफलकाङ्क्षिसेव्यमानां परमसदाशिवभावनां प्रपद्ये ॥ 67 ॥ अमितमुदमृतं मुहुर्दुहन्तीं विमलभवत्पदगोष्ठमावसन्तीम् । सदय पशुपते सुपुण्यपाकां मम परिपालय भक्तिधेनुमेकाम् ॥ 68 ॥ जडता पशुता कलङ्किता कुटिलचरत्वं च नास्ति मयि देव । अस्ति यदि राजमौले भवदाभरणस्य नास्मि किं पात्रम् ॥ 69 ॥ अरहसि रहसि स्वतन्त्रबुद्ध्या वरिवसितुं सुलभः प्रसन्नमूर्तिः । अगणितफलदायकः प्रभुर्मे जगदधिको हृदि राजशेखरोऽस्ति ॥ 70 ॥ आरूढभक्तिगुणकुञ्चितभावचाप- -युक्तैः शिवस्मरणबाणगणैरमोघैः । निर्जित्य किल्बिषरिपून्विजयी सुधीन्द्रः सानन्दमावहति सुस्थिरराजलक्ष्मीम् ॥ 71 ॥ ध्यानाञ्जनेन समवेक्ष्य तमःप्रदेशं भित्त्वा महाबलिभिरीश्वरनाममन्त्रैः । दिव्याश्रितं भुजगभूषणमुद्वहन्ति ये पादपद्ममिह ते शिव ते कृतार्थाः ॥ 72 ॥ भूदारतामुदवहद्यदपेक्षया श्री- -भूदार एव किमतः सुमते लभस्व । केदारमाकलितमुक्तिमहौषधीनां पादारविन्दभजनं परमेश्वरस्य ॥ 73 ॥ आशापाशक्लेशदुर्वासनादि- -भेदोद्युक्तैर्दिव्यगन्धैरमन्दैः । आशाशाटीकस्य पादारविन्दं चेतःपेटीं वासितां मे तनोतु ॥ 74 ॥ कल्याणिनं सरसचित्रगतिं सवेगं सर्वेङ्गितज्ञमनघं ध्रुवलक्षणाढ्यम् । चेतस्तुरङ्गमधिरुह्य चर स्मरारे नेतः समस्तजगतां वृषभाधिरूढ ॥ 75 ॥ भक्तिर्महेशपदपुष्करमावसन्ती कादम्बिनीव कुरुते परितोषवर्षम् । सम्पूरितो भवति यस्य मनस्तटाक- -स्तज्जन्मसस्यमखिलं सफलं च नान्यत् ॥ 76 ॥ बुद्धिः स्थिरा भवितुमीश्वरपादपद्म- -सक्ता वधूर्विरहिणीव सदा स्मरन्ती । सद्भावनास्मरणदर्शनकीर्तनादि सम्मोहितेव शिवमन्त्रजपेन विन्ते ॥ 77 ॥ सदुपचारविधिष्वनुबोधितां सविनयां सुहृदं समुपाश्रिताम् । मम समुद्धर बुद्धिमिमां प्रभो वरगुणेन नवोढवधूमिव ॥ 78 ॥ नित्यं योगिमनः सरोजदलसञ्चारक्षमस्त्वत्क्रमः शम्भो तेन कथं कठोरयमराड्वक्षःकवाटक्षतिः । अत्यन्तं मृदुलं त्वदङ्घ्रियुगलं हा मे मनश्चिन्तय- -त्येतल्लोचनगोचरं कुरु विभो हस्तेन संवाहये ॥ 79 ॥ एष्यत्येष जनिं मनोऽस्य कठिनं तस्मिन्नटानीति म- -द्रक्षायै गिरिसीम्नि कोमलपदन्यासः पुराभ्यासितः । नो चेद्दिव्यगृहान्तरेषु सुमनस्तल्पेषु वेद्यादिषु प्रायः सत्सु शिलातलेषु नटनं शम्भो किमर्थं तव ॥ 80 ॥ कञ्चित्कालमुमामहेश भवतः पादारविन्दार्चनैः कञ्चिद्ध्यानसमाधिभिश्च नतिभिः कञ्चित्कथाकर्णनैः । कञ्चित्कञ्चिदवेक्षणैश्च नुतिभिः कञ्चिद्दशामीदृशीं यः प्राप्नोति मुदा त्वदर्पितमना जीवन् स मुक्तः खलु ॥ 81 ॥ बाणत्वं वृषभत्वमर्धवपुषा भार्यात्वमार्यापते घोणित्वं सखिता मृदङ्गवहता चेत्यादि रूपं दधौ । त्वत्पादे नयनार्पणं च कृतवांस्त्वद्देहभागो हरिः पूज्यात्पूज्यतरः स एव हि न चेत्को वा तदन्योऽधिकः ॥ 82 ॥ जननमृतियुतानां सेवया देवतानां न भवति सुखलेशः संशयो नास्ति तत्र । अजनिममृतरूपं साम्बमीशं भजन्ते य इह परमसौख्यं ते हि धन्या लभन्ते ॥ 83 ॥ शिव तव परिचर्यासन्निधानाय गौर्या भव मम गुणधुर्यां बुद्धिकन्यां प्रदास्ये । सकलभुवनबन्धो सच्चिदानन्दसिन्धो सदय हृदयगेहे सर्वदा संवस त्वम् ॥ 84 ॥ जलधिमथनदक्षो नैव पातालभेदी न च वनमृगयायां नैव लुब्धः प्रवीणः । अशनकुसुमभूषावस्त्रमुख्यां सपर्यां कथय कथमहं ते कल्पयानीन्दुमौले ॥ 85 ॥ पूजाद्रव्यसमृद्धयो विरचिताः पूजां कथं कुर्महे पक्षित्वं न च वा किटित्वमपि न प्राप्तं मया दुर्लभम् । जाने मस्तकमङ्घ्रिपल्लवमुमाजाने न तेऽहं विभो न ज्ञातं हि पितामहेन हरिणा तत्त्वेन तद्रूपिणा ॥ 86 ॥ अशनं गरलं फणी कलापो वसनं चर्म च वाहनं महोक्षः । मम दास्यसि किं किमस्ति शम्भो तव पादाम्बुजभक्तिमेव देहि ॥ 87 ॥ यदा कृताम्भोनिधिसेतुबन्धनः करस्थलाधःकृतपर्वताधिपः । भवानि ते लङ्घितपद्मसम्भव- -स्तदा शिवार्चास्तवभावनक्षमः ॥ 88 ॥ नतिभिर्नुतिभिस्त्वमीश पूजा- -विधिभिर्ध्यानसमाधिभिर्न तुष्टः । धनुषा मुसलेन चाश्मभिर्वा वद ते प्रीतिकरं तथा करोमि ॥ 89 ॥ वचसा चरितं वदामि शम्भो- -रहमुद्योगविधासु तेऽप्रसक्तः । मनसाकृतिमीश्वरस्य सेवे शिरसा चैव सदाशिवं नमामि ॥ 90 ॥ आद्याविद्या हृद्गता निर्गतासी- -द्विद्या हृद्या हृद्गता त्वत्प्रसादात् । सेवे नित्यं श्रीकरं त्वत्पदाब्जं भावे मुक्तेर्भाजनं राजमौले ॥ 91 ॥ दूरीकृतानि दुरितानि दुरक्षराणि दौर्भाग्यदुःखदुरहङ्कृतिदुर्वचांसि । सारं त्वदीयचरितं नितरां पिबन्तं गौरीश मामिह समुद्धर सत्कटाक्षैः ॥ 92 ॥ सोमकलाधरमौलौ कोमलघनकन्धरे महामहसि । स्वामिनि गिरिजानाथे मामकहृदयं निरन्तरं रमताम् ॥ 93 ॥ सा रसना ते नयने तावेव करौ स एव कृतकृत्यः । या ये यौ यो भर्गं वदतीक्षेते सदार्चतः स्मरति ॥ 94 ॥ अतिमृदुलौ मम चरणा- -वतिकठिनं ते मनो भवानीश । इति विचिकित्सां सन्त्यज शिव कथमासीद्गिरौ तथा वेशः ॥ 95 ॥ धैर्याङ्कुशेन निभृतं रभसादाकृष्य भक्तिशृङ्खलया । पुरहर चरणालाने हृदयमदेभं बधान चिद्यन्त्रैः ॥ 96 ॥ प्रचरत्यभितः प्रगल्भवृत्त्या मदवानेष मनः करी गरीयान् । परिगृह्य नयेन भक्तिरज्वा परम स्थाणु पदं दृढं नयामुम् ॥ 97 ॥ सर्वालङ्कारयुक्तां सरलपदयुतां साधुवृत्तां सुवर्णां सद्भिः संस्तूयमानां सरसगुणयुतां लक्षितां लक्षणाढ्याम् । उद्यद्भूषाविशेषामुपगतविनयां द्योतमानार्थरेखां कल्याणीं देव गौरीप्रिय मम कविताकन्यकां त्वं गृहाण ॥ 98 ॥ इदं ते युक्तं वा परमशिव कारुण्यजलधे गतौ तिर्यग्रूपं तव पदशिरोदर्शनधिया । हरिब्रह्माणौ तौ दिवि भुवि चरन्तौ श्रमयुतौ कथं शम्भो स्वामिन्कथय मम वेद्योऽसि पुरतः ॥ 99 ॥ स्तोत्रेणालमहं प्रवच्मि न मृषा देवा विरिञ्चादयः स्तुत्यानां गणनाप्रसङ्गसमये त्वामग्रगण्यं विदुः । माहात्म्याग्रविचारणप्रकरणे धानातुषस्तोमव- -द्धूतास्त्वां विदुरुत्तमोत्तमफलं शम्भो भवत्सेवकाः ॥ 100 ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ शिवानन्दलहरी ॥

    Anand Lahari (आनन्द लहरि)

    आनन्द लहरि (Anand Lahari) भवानि स्तोतुं त्वां प्रभवति चतुर्भिर्न वदनैः प्रजानामीशानस्त्रिपुरमथनः पञ्चभिरपि । न षड्भिः सेनानीर्दशशतमुखैरप्यहिपतिः तदान्येषां केषां कथय कथमस्मिन्नवसरः ॥ 1॥ घृतक्षीरद्राक्षामधुमधुरिमा कैरपि पदैः विशिष्यानाख्येयो भवति रसनामात्र विषयः । तथा ते सौन्दर्यं परमशिवदृङ्मात्रविषयः कथङ्कारं ब्रूमः सकलनिगमागोचरगुणे ॥ 2॥ मुखे ते ताम्बूलं नयनयुगले कज्जलकला ललाटे काश्मीरं विलसति गले मौक्तिकलता । स्फुरत्काञ्ची शाटी पृथुकटितटे हाटकमयी भजामि त्वां गौरीं नगपतिकिशोरीमविरतम् ॥ 3॥ विराजन्मन्दारद्रुमकुसुमहारस्तनतटी नदद्वीणानादश्रवणविलसत्कुण्डलगुणा नताङ्गी मातङ्गी रुचिरगतिभङ्गी भगवती सती शम्भोरम्भोरुहचटुलचक्षुर्विजयते ॥ 4॥ नवीनार्कभ्राजन्मणिकनकभूषणपरिकरैः वृताङ्गी सारङ्गीरुचिरनयनाङ्गीकृतशिवा । तडित्पीता पीताम्बरललितमञ्जीरसुभगा ममापर्णा पूर्णा निरवधिसुखैरस्तु सुमुखी ॥ 5॥ हिमाद्रेः सम्भूता सुललितकरैः पल्लवयुता सुपुष्पा मुक्ताभिर्भ्रमरकलिता चालकभरैः । कृतस्थाणुस्थाना कुचफलनता सूक्तिसरसा रुजां हन्त्री गन्त्री विलसति चिदानन्दलतिका ॥ 6॥ सपर्णामाकीर्णां कतिपयगुणैः सादरमिह श्रयन्त्यन्ये वल्लीं मम तु मतिरेवं विलसति । अपर्णैका सेव्या जगति सकलैर्यत्परिवृतः पुराणोऽपि स्थाणुः फलति किल कैवल्यपदवीम् ॥ 7॥ विधात्री धर्माणां त्वमसि सकलाम्नायजननी त्वमर्थानां मूलं धनदनमनीयाङ्घ्रिकमले । त्वमादिः कामानां जननि कृतकन्दर्पविजये सतां मुक्तेर्बीजं त्वमसि परमब्रह्ममहिषी ॥ 8॥ प्रभूता भक्तिस्ते यदपि न ममालोलमनसः त्वया तु श्रीमत्या सदयमवलोक्योऽहमधुना । पयोदः पानीयं दिशति मधुरं चातकमुखे भृशं शङ्के कैर्वा विधिभिरनुनीता मम मतिः ॥ 9॥ कृपापाङ्गालोकं वितर तरसा साधुचरिते न ते युक्तोपेक्षा मयि शरणदीक्षामुपगते । न चेदिष्टं दद्यादनुपदमहो कल्पलतिका विशेषः सामान्यैः कथमितरवल्लीपरिकरैः ॥ 10॥ महान्तं विश्वासं तव चरणपङ्केरुहयुगे निधायान्यन्नैवाश्रितमिह मया दैवतमुमे । तथापि त्वच्चेतो यदि मयि न जायेत सदयं निरालम्बो लम्बोदरजननि कं यामि शरणम् ॥ 11॥ अयः स्पर्शे लग्नं सपदि लभते हेमपदवीं यथा रथ्यापाथः शुचि भवति गङ्गौघमिलितम् । तथा तत्तत्पापैरतिमलिनमन्तर्मम यदि त्वयि प्रेम्णासक्तं कथमिव न जायेत विमलम् ॥ 12॥ त्वदन्यस्मादिच्छाविषयफललाभे न नियमः त्वमर्थानामिच्छाधिकमपि समर्था वितरणे । इति प्राहुः प्राञ्चः कमलभवनाद्यास्त्वयि मनः त्वदासक्तं नक्तं दिवमुचितमीशानि कुरु तत् ॥ 13॥ स्फुरन्नानारत्नस्फटिकमयभित्तिप्रतिफल त्त्वदाकारं चञ्चच्छशधरकलासौधशिखरम् । मुकुन्दब्रह्मेन्द्रप्रभृतिपरिवारं विजयते तवागारं रम्यं त्रिभुवनमहाराजगृहिणि ॥ 14॥ निवासः कैलासे विधिशतमखाद्याः स्तुतिकराः कुटुम्बं त्रैलोक्यं कृतकरपुटः सिद्धिनिकरः । महेशः प्राणेशस्तदवनिधराधीशतनये न ते सौभाग्यस्य क्वचिदपि मनागस्ति तुलना ॥ 15॥ वृषो वृद्धो यानं विषमशनमाशा निवसनं श्मशानं क्रीडाभूर्भुजगनिवहो भूषणविधिः समग्रा सामग्री जगति विदितैव स्मररिपोः यदेतस्यैश्वर्यं तव जननि सौभाग्यमहिमा ॥ 16॥ अशेषब्रह्माण्डप्रलयविधिनैसर्गिकमतिः श्मशानेष्वासीनः कृतभसितलेपः पशुपतिः । दधौ कण्ठे हालाहलमखिलभूगोलकृपया भवत्याः सङ्गत्याः फलमिति च कल्याणि कलये ॥ 17॥ त्वदीयं सौन्दर्यं निरतिशयमालोक्य परया भियैवासीद्गङ्गा जलमयतनुः शैलतनये । तदेतस्यास्तस्माद्वदनकमलं वीक्ष्य कृपया प्रतिष्ठामातन्वन्निजशिरसिवासेन गिरिशः ॥ 18॥ विशालश्रीखण्डद्रवमृगमदाकीर्णघुसृण प्रसूनव्यामिश्रं भगवति तवाभ्यङ्गसलिलम् । समादाय स्रष्टा चलितपदपांसून्निजकरैः समाधत्ते सृष्टिं विबुधपुरपङ्केरुहदृशाम् ॥ 19॥ वसन्ते सानन्दे कुसुमितलताभिः परिवृते स्फुरन्नानापद्मे सरसि कलहंसालिसुभगे । सखीभिः खेलन्तीं मलयपवनान्दोलितजले स्मरेद्यस्त्वां तस्य ज्वरजनितपीडापसरति ॥ 20॥ ॥ इति श्रीमच्छङ्कराचार्यविरचिता आनन्दलहरी सम्पूर्णा ॥

    Saundary Lahari (सौन्दर्य लहरी)

    सौन्दर्य लहरी (Saundary Lahari) प्रथम भागः - आनन्द लहरि भुमौस्खलित पादानां भूमिरेवा वलम्बनम् । त्वयी जाता पराधानां त्वमेव शरणं शिवे ॥ शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं न चेदेवं देवो न खलु कुशलः स्पन्दितुमपि । अतस्त्वामाराध्यां हरिहरविरिञ्चादिभिरपि प्रणन्तुं स्तोतुं वा कथमकृतपुण्यः प्रभवति ॥ 1 ॥ तनीयांसं पांसुं तव चरणपङ्केरुहभवं विरिञ्चिस्सञ्चिन्वन् विरचयति लोकानविकलम् । वहत्येनं शौरिः कथमपि सहस्रेण शिरसां हरस्सङ्क्षुद्यैनं भजति भसितोद्धूलनविधिम् ॥ 2 ॥ अविद्यानामन्त-स्तिमिर-मिहिरद्वीपनगरी जडानां चैतन्य-स्तबक-मकरन्द-स्रुतिझरी । दरिद्राणां चिन्तामणिगुणनिका जन्मजलधौ निमग्नानां दंष्ट्रा मुररिपु-वराहस्य भवति ॥ 3 ॥ त्वदन्यः पाणिभ्यामभयवरदो दैवतगणः त्वमेका नैवासि प्रकटितवराभीत्यभिनया । भयात् त्रातुं दातुं फलमपि च वाञ्छासमधिकं शरण्ये लोकानां तव हि चरणावेव निपुणौ ॥ 4 ॥ हरिस्त्वामाराध्य प्रणतजनसौभाग्यजननीं पुरा नारी भूत्वा पुररिपुमपि क्षोभमनयत् । स्मरोऽपि त्वां नत्वा रतिनयनलेह्येन वपुषा मुनीनामप्यन्तः प्रभवति हि मोहाय महताम् ॥ 5 ॥ धनुः पौष्पं मौर्वी मधुकरमयी पञ्च विशिखाः वसन्तः सामन्तो मलयमरुदायोधनरथः । तथाप्येकः सर्वं हिमगिरिसुते कामपि कृपाम् अपाङ्गात्ते लब्ध्वा जगदिद-मनङ्गो विजयते ॥ 6 ॥ क्वणत्काञ्चीदामा करिकलभकुम्भस्तननता परिक्षीणा मध्ये परिणतशरच्चन्द्रवदना । धनुर्बाणान् पाशं सृणिमपि दधाना करतलैः पुरस्तादास्तां नः पुरमथितुराहोपुरुषिका ॥ 7 ॥ सुधासिन्धोर्मध्ये सुरविटपिवाटीपरिवृते मणिद्वीपे नीपोपवनवति चिन्तामणिगृहे । शिवाकारे मञ्चे परमशिवपर्यङ्कनिलयां भजन्ति त्वां धन्याः कतिचन चिदानन्दलहरीम् ॥ 8 ॥ महीं मूलाधारे कमपि मणिपूरे हुतवहं स्थितं स्वाधिष्ठाने हृदि मरुतमाकाशमुपरि । मनोऽपि भ्रूमध्ये सकलमपि भित्वा कुलपथं सहस्रारे पद्मे सह रहसि पत्या विहरसे ॥ 9 ॥ सुधाधारासारैश्चरणयुगलान्तर्विगलितैः प्रपञ्चं सिञ्चन्ती पुनरपि रसाम्नायमहसः । अवाप्य स्वां भूमिं भुजगनिभमध्युष्टवलयं स्वमात्मानं कृत्वा स्वपिषि कुलकुण्डे कुहरिणि ॥ 10 ॥ चतुर्भिः श्रीकण्ठैः शिवयुवतिभिः पञ्चभिरपि प्रभिन्नाभिः शम्भोर्नवभिरपि मूलप्रकृतिभिः । चतुश्चत्वारिंशद्वसुदलकलाश्रत्रिवलय- त्रिरेखाभिः सार्धं तव शरणकोणाः परिणताः ॥ 11 ॥ त्वदीयं सौन्दर्यं तुहिनगिरिकन्ये तुलयितुं कवीन्द्राः कल्पन्ते कथमपि विरिञ्चिप्रभृतयः । यदालोकौत्सुक्यादमरललना यान्ति मनसा तपोभिर्दुष्प्रापामपि गिरिशसायुज्यपदवीम् ॥ 12 ॥ नरं वर्षीयांसं नयनविरसं नर्मसु जडं तवापाङ्गालोके पतितमनुधावन्ति शतशः । गलद्वेणीबन्धाः कुचकलशविस्रस्तसिचया हठात् त्रुट्यत्काञ्च्यो विगलितदुकूला युवतयः ॥ 13 ॥ क्षितौ षट्पञ्चाशद् द्विसमधिकपञ्चाशदुदके हुताशे द्वाषष्टिश्चतुरधिकपञ्चाशदनिले । दिवि द्विष्षट्त्रिंशन्मनसि च चतुष्षष्टिरिति ये मयूखास्तेषामप्युपरि तव पादाम्बुजयुगम् ॥ 14 ॥ शरज्ज्योत्स्नाशुद्धां शशियुतजटाजूटमकुटां वरत्रासत्राणस्फटिकघटिकापुस्तककराम् । सकृन्न त्वा नत्वा कथमिव सतां सन्न्निदधते मधुक्षीरद्राक्षामधुरिमधुरीणाः भणितयः ॥ 15॥ वर् फणितयः कवीन्द्राणां चेतःकमलवनबालातपरुचिं भजन्ते ये सन्तः कतिचिदरुणामेव भवतीम् । विरिञ्चिप्रेयस्यास्तरुणतरश‍ऋङ्गारलहरी- गभीराभिर्वाग्भिर्विदधति सतां रञ्जनममी ॥ 16 ॥ सवित्रीभिर्वाचां शशिमणिशिलाभङ्गरुचिभिः वशिन्याद्याभिस्त्वां सह जननि सञ्चिन्तयति यः । स कर्ता काव्यानां भवति महतां भङ्गिरुचिभिः वचोभिर्वाग्देवीवदनकमलामोदमधुरैः ॥ 17 ॥ तनुच्छायाभिस्ते तरुणतरणिश्रीसरणिभिः दिवं सर्वामुर्वीमरुणिमनि मग्नां स्मरति यः । भवन्त्यस्य त्रस्यद्वनहरिणशालीननयनाः सहोर्वश्या वश्याः कति कति न गीर्वाणगणिकाः ॥ 18 ॥ मुखं बिन्दुं कृत्वा कुचयुगमधस्तस्य तदधो हरार्धं ध्यायेद्यो हरमहिषि ते मन्मथकलाम् । स सद्यः सङ्क्षोभं नयति वनिता इत्यतिलघु त्रिलोकीमप्याशु भ्रमयति रवीन्दुस्तनयुगाम् ॥ 19 ॥ किरन्तीमङ्गेभ्यः किरणनिकुरम्बामृतरसं हृदि त्वामाधत्ते हिमकरशिलामूर्तिमिव यः । स सर्पाणां दर्पं शमयति शकुन्ताधिप इव ज्वरप्लुष्टान् दृष्ट्या सुखयति सुधाधारसिरया ॥ 20 ॥ तटिल्लेखातन्वीं तपनशशिवैश्वानरमयीं निषण्णां षण्णामप्युपरि कमलानां तव कलाम् । महापद्माटव्यां मृदितमलमायेन मनसा महान्तः पश्यन्तो दधति परमाह्लादलहरीम् ॥ 21 ॥ भवानि त्वं दासे मयि वितर दृष्टिं सकरुणा- मिति स्तोतुं वाञ्छन् कथयति भवानि त्वमिति यः । तदैव त्वं तस्मै दिशसि निजसायुज्यपदवीं मुकुन्दब्रह्मेन्द्रस्फुटमकुटनीराजितपदाम् ॥ 22 ॥ त्वया हृत्वा वामं वपुरपरितृप्तेन मनसा शरीरार्धं शम्भोरपरमपि शङ्के हृतमभूत् । यदेतत्त्वद्रूपं सकलमरुणाभं त्रिनयनं कुचाभ्यामानम्रं कुटिलशशिचूडालमकुटम् ॥ 23 ॥ जगत्सूते धाता हरिरवति रुद्रः क्षपयते तिरस्कुर्वन्नेतत्स्वमपि वपुरीशस्तिरयति । सदापूर्वः सर्वं तदिदमनुगृह्णाति च शिव- स्तवाज्ञामालम्ब्य क्षणचलितयोर्भ्रूलतिकयोः ॥ 24 ॥ त्रयाणां देवानां त्रिगुणजनितानां तव शिवे भवेत् पूजा पूजा तव चरणयोर्या विरचिता । तथा हि त्वत्पादोद्वहनमणिपीठस्य निकटे स्थिता ह्येते शश्वन्मुकुलितकरोत्तंसमकुटाः ॥ 25 ॥ विरिञ्चिः पञ्चत्वं व्रजति हरिराप्नोति विरतिं विनाशं कीनाशो भजति धनदो याति निधनम् । वितन्द्री माहेन्द्री विततिरपि सम्मीलितदृशा महासंहारेऽस्मिन् विहरति सति त्वत्पतिरसौ ॥ 26 ॥ जपो जल्पः शिल्पं सकलमपि मुद्राविरचना गतिः प्रादक्षिण्यक्रमणमशनाद्याहुतिविधिः । प्रणामस्संवेशस्सुखमखिलमात्मार्पणदृशा सपर्यापर्यायस्तव भवतु यन्मे विलसितम् ॥ 27 ॥ सुधामप्यास्वाद्य प्रतिभयजरामृत्युहरिणीं विपद्यन्ते विश्वे विधिशतमखाद्या दिविषदः । करालं यत्क्ष्वेलं कबलितवतः कालकलना न शम्भोस्तन्मूलं तव जननि ताटङ्कमहिमा ॥ 28 ॥ किरीटं वैरिञ्चं परिहर पुरः कैटभभिदः कठोरे कोटीरे स्खलसि जहि जम्भारिमुकुटम् । प्रणम्रेष्वेतेषु प्रसभमुपयातस्य भवनं भवस्याभ्युत्थाने तव परिजनोक्तिर्विजयते ॥ 29 ॥ स्वदेहोद्भूताभिर्घृणिभिरणिमाद्याभिरभितो निषेव्ये नित्ये त्वामहमिति सदा भावयति यः । किमाश्चर्यं तस्य त्रिनयनसमृद्धिं तृणयतो महासंवर्ताग्निर्विरचयति निराजनविधिम् ॥ 30 ॥ चतुष्षष्ट्या तन्त्रैः सकलमतिसन्धाय भुवनं स्थितस्तत्तत्सिद्धिप्रसवपरतन्त्रैः पशुपतिः । पुनस्त्वन्निर्बन्धादखिलपुरुषार्थैकघटना- स्वतन्त्रं ते तन्त्रं क्षितितलमवातीतरदिदम् ॥ 31 ॥ शिवः शक्तिः कामः क्षितिरथ रविः शीतकिरणः स्मरो हंसः शक्रस्तदनु च परामारहरयः । अमी हृल्लेखाभिस्तिसृभिरवसानेषु घटिता भजन्ते वर्णास्ते तव जननि नामावयवताम् ॥ 32 ॥ स्मरं योनिं लक्ष्मीं त्रितयमिदमादौ तव मनो- र्निधायैके नित्ये निरवधिमहाभोगरसिकाः । भजन्ति त्वां चिन्तामणिगुननिबद्धाक्षवलयाः शिवाग्नौ जुह्वन्तः सुरभिघृतधाराहुतिशतैः ॥ 33 ॥ शरीरं त्वं शम्भोः शशिमिहिरवक्षोरुहयुगं तवात्मानं मन्ये भगवति नवात्मानमनघम् । अतश्शेषश्शेषीत्ययमुभयसाधारणतया स्थितः सम्बन्धो वां समरसपरानन्दपरयोः ॥ 34 ॥ मनस्त्वं व्योम त्वं मरुदसि मरुत्सारथिरसि त्वमापस्त्वं भूमिस्त्वयि परिणतायां न हि परम् । त्वमेव स्वात्मानं परिणमयितुं विश्ववपुषा चिदानन्दाकारं शिवयुवति भावेन बिभृषे ॥ 35 ॥ तवाज्ञाचक्रस्थं तपनशशिकोटिद्युतिधरं परं शम्भुं वन्दे परिमिलितपार्श्वं परचिता । यमाराध्यन् भक्त्या रविशशिशुचीनामविषये निरालोकेऽलोके निवसति हि भालोकभुवने ॥ 36 ॥ विशुद्धौ ते शुद्धस्फटिकविशदं व्योमजनकं शिवं सेवे देवीमपि शिवसमानव्यवसिताम् । ययोः कान्त्या यान्त्याः शशिकिरणसारूप्यसरणे- विधूतान्तर्ध्वान्ता विलसति चकोरीव जगती ॥ 37 ॥ समुन्मीलत् संवित् कमलमकरन्दैकरसिकं भजे हंसद्वन्द्वं किमपि महतां मानसचरम् । यदालापादष्टादशगुणितविद्यापरिणति- र्यदादत्ते दोषाद् गुणमखिलमद्भ्यः पय इव ॥ 38 ॥ तव स्वाधिष्ठाने हुतवहमधिष्ठाय निरतं तमीडे संवर्तं जननि महतीं तां च समयाम् । यदालोके लोकान् दहति महति क्रोधकलिते दयार्द्रा या दृष्टिः शिशिरमुपचारं रचयति ॥ 39 ॥ तटित्त्वन्तं शक्त्या तिमिरपरिपन्थिफुरणया स्फुरन्नानारत्नाभरणपरिणद्धेन्द्रधनुषम् । तव श्यामं मेघं कमपि मणिपूरैकशरणं निषेवे वर्षन्तं हरमिहिरतप्तं त्रिभुवनम् ॥ 40 ॥ तवाधारे मूले सह समयया लास्यपरया नवात्मानं मन्ये नवरसमहाताण्डवनटम् । उभाभ्यामेताभ्यामुदयविधिमुद्दिश्य दयया सनाथाभ्यां जज्ञे जनकजननीमज्जगदिदम् ॥ 41 ॥ द्वितीय भागः - सौन्दर्य लहरी गतैर्माणिक्यत्वं गगनमणिभिः सान्द्रघटितं किरीटं ते हैमं हिमगिरिसुते कीर्तयति यः । स नीडेयच्छायाच्छुरणशबलं चन्द्रशकलं धनुः शौनासीरं किमिति न निबध्नाति धिषणाम् ॥ 42 ॥ धुनोतु ध्वान्तं नस्तुलितदलितेन्दीवरवनं घनस्निग्धश्लक्ष्णं चिकुरनिकुरुम्बं तव शिवे । यदीयं सौरभ्यं सहजमुपलब्धुं सुमनसो वसन्त्यस्मिन् मन्ये वलमथनवाटीविटपिनाम् ॥ 43 ॥ तनोतु क्षेमं नस्तव वदनसौन्दर्यलहरी- परीवाहस्रोतःसरणिरिव सीमन्तसरणिः । वहन्ती सिन्दूरं प्रबलकबरीभारतिमिर- द्विषां बृन्दैर्बन्दीकृतमिव नवीनार्ककिरणम् ॥ 44 ॥ अरालैः स्वाभाव्यादलिकलभसश्रीभिरलकैः परीतं ते वक्त्रं परिहसति पङ्केरुहरुचिम् । दरस्मेरे यस्मिन् दशनरुचिकिञ्जल्करुचिरे सुगन्धौ माद्यन्ति स्मरदहनचक्षुर्मधुलिहः ॥ 45 ॥ ललाटं लावण्यद्युतिविमलमाभाति तव य- द्द्वितीयं तन्मन्ये मकुटघटितं चन्द्रशकलम् । विपर्यासन्यासादुभयमपि सम्भूय च मिथः सुधालेपस्यूतिः परिणमति राकाहिमकरः ॥ 46 ॥ भ्रुवौ भुग्ने किञ्चिद्भुवनभयभङ्गव्यसनिनि त्वदीये नेत्राभ्यां मधुकररुचिभ्यां धृतगुणम् । धनुर्मन्ये सव्येतरकरगृहीतं रतिपतेः प्रकोष्ठे मुष्टौ च स्थगयति निगूढान्तरमुमे ॥ 47 ॥ अहः सूते सव्यं तव नयनमर्कात्मकतया त्रियामां वामं ते सृजति रजनीनायकतया । तृतीया ते दृष्टिर्दरदलितहेमाम्बुजरुचिः समाधत्ते सन्ध्यां दिवसनिशयोरन्तरचरीम् ॥ 48 ॥ विशाला कल्याणी स्फुटरुचिरयोध्या कुवलयैः कृपाधाराधारा किमपि मधुराभोगवतिका । अवन्ती दृष्टिस्ते बहुनगरविस्तारविजया ध्रुवं तत्तन्नामव्यवहरणयोग्या विजयते ॥ 49 ॥ कवीनां सन्दर्भस्तबकमकरन्दैकरसिकं कटाक्षव्याक्षेपभ्रमरकलभौ कर्णयुगलम् । अमुञ्चन्तौ दृष्ट्वा तव नवरसास्वादतरला- वसूयासंसर्गादलिकनयनं किञ्चिदरुणम् ॥ 50 ॥ शिवे श‍ऋङ्गारार्द्रा तदितरजने कुत्सनपरा सरोषा गङ्गायां गिरिशचरिते विस्मयवती । हराहिभ्यो भीता सरसिरुहसौभाग्यजननी (जयिनी) सखीषु स्मेरा ते मयि जननी दृष्टिः सकरुणा ॥ 51 ॥ गते कर्णाभ्यर्णं गरुत इव पक्ष्माणि दधती पुरां भेत्तुश्चित्तप्रशमरसविद्रावणफले । इमे नेत्रे गोत्राधरपतिकुलोत्तंसकलिके तवाकर्णाकृष्टस्मरशरविलासं कलयतः ॥ 52 ॥ विभक्तत्रैवर्ण्यं व्यतिकरितलीलाञ्जनतया विभाति त्वन्नेत्रत्रितयमिदमीशानदयिते । पुनः स्रष्टुं देवान् द्रुहिणहरिरुद्रानुपरतान् रजः सत्त्वं बिभ्रत्तम इति गुणानां त्रयमिव ॥ 53 ॥ पवित्रीकर्तुं नः पशुपतिपराधीनहृदये दयामित्रैर्नेत्रैररुणधवलश्यामरुचिभिः । नदः शोणो गङ्गा तपनतनयेति ध्रुवममुं त्रयाणां तीर्थानामुपनयसि सम्भेदमनघम् ॥ 54 ॥ निमेषोन्मेषाभ्यां प्रलयमुदयं याति जगती तवेत्याहुः सन्तो धरणिधरराजन्यतनये । त्वदुन्मेषाज्जातं जगदिदमशेषं प्रलयतः परित्रातुं शङ्के परिहृतनिमेषास्तव दृशः ॥ 55 ॥ तवापर्णे कर्णेजपनयनपैशुन्यचकिता निलीयन्ते तोये नियतमनिमेषाः शफरिकाः । इयं च श्रीर्बद्धच्छदपुटकवाटं कुवलयम् जहाति प्रत्यूषे निशि च विघटय्य प्रविशति ॥ 56 ॥ दृशा द्राघीयस्या दरदलितनीलोत्पलरुचा दवीयांसं दीनं स्नपय कृपया मामपि शिवे । अनेनायं धन्यो भवति न च ते हानिरियता वने वा हर्म्ये वा समकरनिपातो हिमकरः ॥ 57 ॥ अरालं ते पालीयुगलमगराजन्यतनये न केषामाधत्ते कुसुमशरकोदण्डकुतुकम् । तिरश्चीनो यत्र श्रवणपथमुल्लङ्घ्य विलस- न्नपाङ्गव्यासङ्गो दिशति शरसन्धानधिषणाम् ॥ 58 ॥ स्फुरद्गण्डाभोगप्रतिफलितताटङ्कयुगलं चतुश्चक्रं मन्ये तव मुखमिदं मन्मथरथम् । यमारुह्य द्रुह्यत्यवनिरथमर्केन्दुचरणं महावीरो मारः प्रमथपतये सज्जितवते ॥ 59 ॥ सरस्वत्याः सूक्तीरमृतलहरीकौशलहरीः पिबन्त्याः शर्वाणि श्रवणचुलुकाभ्यामविरलम् । चमत्कारश्लाघाचलितशिरसः कुण्डलगणो झणत्कारैस्तारैः प्रतिवचनमाचष्ट इव ते ॥ 60 ॥ असौ नासावंशस्तुहिनगिरिवंशध्वजपटि त्वदीयो नेदीयः फलतु फलमस्माकमुचितम् । वहन्नन्तर्मुक्ताः शिशिरतरनिश्वासगलितं समृद्ध्या यत्तासां बहिरपि च मुक्तामणिधरः ॥ 61 ॥ प्रकृत्या रक्तायास्तव सुदति दन्तच्छदरुचेः प्रवक्ष्ये सादृश्यं जनयतु फलं विद्रुमलता । न बिम्बं तद्बिम्बप्रतिफलनरागादरुणितं तुलामध्यारोढुं कथमिव विलज्जेत कलया ॥ 62 ॥ स्मितज्योत्स्नाजालं तव वदनचन्द्रस्य पिबतां चकोराणामासीदतिरसतया चञ्चुजडिमा । अतस्ते शीतांशोरमृतलहरीमम्लरुचयः पिबन्ति स्वच्छन्दं निशि निशि भृशं काञ्जिकधिया ॥ 63 ॥ अविश्रान्तं पत्युर्गुणगणकथाम्रेडनजपा जपापुष्पच्छाया तव जननि जिह्वा जयति सा । यदग्रासीनायाः स्फटिकदृषदच्छच्छविमयी सरस्वत्या मूर्तिः परिणमति माणिक्यवपुषा ॥ 64 ॥ रणे जित्वा दैत्यानपहृतशिरस्त्रैः कवचिभिर्- निवृत्तैश्चण्डांशत्रिपुरहरनिर्माल्यविमुखैः । विशाखेन्द्रोपेन्द्रैः शशिविशदकर्पूरशकला विलीयन्ते मातस्तव वदनताम्बूलकबलाः ॥ 65 ॥ विपञ्च्या गायन्ती विविधमपदानं पशुपतेः त्वयारब्धे वक्तुं चलितशिरसा साधुवचने । तदीयैर्माधुर्यैरपलपिततन्त्रीकलरवां निजां वीणां वाणी निचुलयति चोलेन निभृतम् ॥ 66 ॥ कराग्रेण स्पृष्टं तुहिनगिरिणा वत्सलतया गिरीशेनोदस्तं मुहुरधरपानाकुलतया । करग्राह्यं शम्भोर्मुखमुकुरवृन्तं गिरिसुते कथङ्कारं ब्रूमस्तव चिबुकमौपम्यरहितम् ॥ 67 ॥ भुजाश्लेषान् नित्यं पुरदमयितुः कण्टकवती तव ग्रीवा धत्ते मुखकमलनालश्रियमियम् । स्वतः श्वेता कालागुरुबहुलजम्बालमलिना मृणालीलालित्यं वहति यदधो हारलतिका ॥ 68 ॥ गले रेखास्तिस्रो गतिगमकगीतैकनिपुणे विवाहव्यानद्धप्रगुणगुणसङ्ख्याप्रतिभुवः । विराजन्ते नानाविधमधुररागाकरभुवां त्रयाणां ग्रामाणां स्थितिनियमसीमान इव ते ॥ 69 ॥ मृणालीमृद्वीनां तव भुजलतानां चतसृणां चतुर्भिः सौन्दर्यं सरसिजभवः स्तौति वदनैः । नखेभ्यः सन्त्रस्यन् प्रथममथनादन्धकरिपो- श्चतुर्णां शीर्षाणां सममभयहस्तार्पणधिया ॥ 70 ॥ नखानामुद्द्योतैर्नवनलिनरागं विहसतां कराणां ते कान्तिं कथय कथयामः कथमुमे । कयाचिद्वा साम्यं भजतु कलया हन्त कमलं यदि क्रीडल्लक्ष्मीचरणतललाक्षारसछणम् ॥ 71 ॥ समं देवि स्कन्दद्विपवदनपीतं स्तनयुगं तवेदं नः खेदं हरतु सततं प्रस्नुतमुखम् । यदालोक्याशङ्काकुलितहृदयो हासजनकः स्वकुम्भौ हेरम्बः परिमृशति हस्तेन झडिति ॥ 72 ॥ अमू ते वक्षोजावमृतरसमाणिक्यकुतुपौ न सन्देहस्पन्दो नगपतिपताके मनसि नः । पिबन्तौ तौ यस्मादविदितवधूसङ्गरसिकौ कुमारावद्यापि द्विरदवदनक्रौञ्चदलनौ ॥ 73 ॥ वहत्यम्ब स्तम्बेरमदनुजकुम्भप्रकृतिभिः समारब्धां मुक्तामणिभिरमलां हारलतिकाम् । कुचाभोगो बिम्बाधररुचिभिरन्तः शबलितां प्रतापव्यामिश्रां पुरदमयितुः कीर्तिमिव ते ॥ 74 ॥ तव स्तन्यं मन्ये धरणिधरकन्ये हृदयतः पयःपारावारः परिवहति सारस्वतमिव । दयावत्या दत्तं द्रविडशिशुरास्वाद्य तव यत् कवीनां प्रौढानामजनि कमनीयः कवयिता ॥ 75 ॥ हरक्रोधज्वालावलिभिरवलीढेन वपुषा गभीरे ते नाभीसरसि कृतसङ्गो मनसिजः । समुत्तस्थौ तस्मादचलतनये धूमलतिका जनस्तां जानीते तव जननि रोमावलिरिति ॥ 76 ॥ यदेतत् कालिन्दीतनुतरतरङ्गाकृति शिवे कृशे मध्ये किञ्चिज्जननि तव यद्भाति सुधियाम् । विमर्दादन्योऽन्यं कुचकलशयोरन्तरगतं तनूभूतं व्योम प्रविशदिव नाभिं कुहरिणीम् ॥ 77 ॥ स्थिरो गङ्गावर्तः स्तनमुकुलरोमावलिलता- कलावालं कुण्डं कुसुमशरतेजोहुतभुजः । रतेर्लीलागारं किमपि तव नाभिर्गिरिसुते बिलद्वारं सिद्धेर्गिरिशनयनानां विजयते ॥ 78 ॥ निसर्गक्षीणस्य स्तनतटभरेण क्लमजुषो नमन्मूर्तेर्नारीतिलक शनकैस्त्रुट्यत इव । चिरं ते मध्यस्य त्रुटिततटिनीतीरतरुणा समावस्थास्थेम्नो भवतु कुशलं शैलतनये ॥ 79 ॥ कुचौ सद्यःस्विद्यत्तटघटितकूर्पासभिदुरौ कषन्तौ दोर्मूले कनककलशाभौ कलयता । तव त्रातुं भङ्गादलमिति वलग्नं तनुभुवा त्रिधा नद्धं देवि त्रिवलि लवलीवल्लिभिरिव ॥ 80 ॥ गुरुत्वं विस्तारं क्षितिधरपतिः पार्वति निजा- न्नितम्बादाच्छिद्य त्वयि हरणरूपेण निदधे । अतस्ते विस्तीर्णो गुरुरयमशेषां वसुमतीं नितम्बप्राग्भारः स्थगयति लघुत्वं नयति च ॥ 81 ॥ करीन्द्राणां शुण्डान् कनककदलीकाण्डपटली- मुभाभ्यामूरुभ्यामुभयमपि निर्जित्य भवती । सुवृत्ताभ्यां पत्युः प्रणतिकठिनाभ्यां गिरिसुते विधिज्ञ्ये जानुभ्यां विबुधकरिकुम्भद्वयमसि ॥ 82 ॥ पराजेतुं रुद्रं द्विगुणशरगर्भौ गिरिसुते निषङ्गौ जङ्घे ते विषमविशिखो बाढमकृत । यदग्रे दृश्यन्ते दशशरफलाः पादयुगली- नखाग्रच्छद्मानः सुरमकुटशाणैकनिशिताः ॥ 83 ॥ श्रुतीनां मूर्धानो दधति तव यौ शेखरतया ममाप्येतौ मातः शिरसि दयया धेहि चरणौ । ययोः पाद्यं पाथः पशुपतिजटाजूटतटिनी ययोर्लाक्षालक्ष्मीररुणहरिचूडामणिरुचिः ॥ 84 ॥ नमोवाकं ब्रूमो नयनरमणीयाय पदयो- स्तवास्मै द्वन्द्वाय स्फुटरुचिरसालक्तकवते । असूयत्यत्यन्तं यदभिहननाय स्पृहयते पशूनामीशानः प्रमदवनकङ्केलितरवे ॥ 85 ॥ मृषा कृत्वा गोत्रस्खलनमथ वैलक्ष्यनमितं ललाटे भर्तारं चरणकमले ताडयति ते । चिरादन्तःशल्यं दहनकृतमुन्मूलितवता तुलाकोटिक्वाणैः किलिकिलितमीशानरिपुणा ॥ 86 ॥ हिमानीहन्तव्यं हिमगिरिनिवासैकचतुरौ निशायां निद्राणं निशि चरमभागे च विशदौ । वरं लक्ष्मीपात्रं श्रियमतिसृजन्तौ समयिनां सरोजं त्वत्पादौ जननि जयतश्चित्रमिह किम् ॥ 87 ॥ पदं ते कीर्तीनां प्रपदमपदं देवि विपदां कथं नीतं सद्भिः कठिनकमठीकर्परतुलाम् । कथं वा बाहुभ्यामुपयमनकाले पुरभिदा यदादाय न्यस्तं दृषदि दयमानेन मनसा ॥ 88 ॥ नखैर्नाकस्त्रीणां करकमलसङ्कोचशशिभि- स्तरूणां दिव्यानां हसत इव ते चण्डि चरणौ । फलानि स्वःस्थेभ्यः किसलयकराग्रेण ददतां दरिद्रेभ्यो भद्रां श्रियमनिशमह्नाय ददतौ ॥ 89 ॥ ददाने दीनेभ्यः श्रियमनिशमाशानुसदृशी- ममन्दं सौन्दर्यप्रकरमकरन्दं विकिरति । तवास्मिन् मन्दारस्तबकसुभगे यातु चरणे निमज्जन्मज्जीवः करणचरणः षट्चरणताम् ॥ 90 ॥ पदन्यासक्रीडापरिचयमिवारब्धुमनसः स्खलन्तस्ते खेलं भवनकलहंसा न जहति । अतस्तेषां शिक्षां सुभगमणिमञ्जीररणित- च्छलादाचक्षाणं चरणकमलं चारुचरिते ॥ 91 ॥ गतास्ते मञ्चत्वं द्रुहिणहरिरुद्रेश्वरभृतः शिवः स्वच्छच्छायाघटितकपटप्रच्छदपटः । त्वदीयानां भासां प्रतिफलनरागारुणतया शरीरी श‍ऋङ्गारो रस इव दृशां दोग्धि कुतुकम् ॥ 92 ॥ अराला केशेषु प्रकृतिसरला मन्दहसिते शिरीषाभा चित्ते दृषदुपलशोभा कुचतटे । भृशं तन्वी मध्ये पृथुरुरसिजारोहविषये जगत्त्रातुं शम्भोर्जयति करुणा काचिदरुणा ॥ 93 ॥ कलङ्कः कस्तूरी रजनिकरबिम्बं जलमयं कलाभिः कर्पूरैर्मरकतकरण्डं निबिडितम् । अतस्त्वद्भोगेन प्रतिदिनमिदं रिक्तकुहरं विधिर्भूयो भूयो निबिडयति नूनं तव कृते ॥ 94 ॥ पुरारातेरन्तःपुरमसि ततस्त्वच्चरणयोः सपर्यामर्यादा तरलकरणानामसुलभा । तथा ह्येते नीताः शतमखमुखाः सिद्धिमतुलां तव द्वारोपान्तस्थितिभिरणिमाद्याभिरमराः ॥ 95 ॥ कलत्रं वैधात्रं कतिकति भजन्ते न कवयः श्रियो देव्याः को वा न भवति पतिः कैरपि धनैः । महादेवं हित्वा तव सति सतीनामचरमे कुचाभ्यामासङ्गः कुरवकतरोरप्यसुलभः ॥ 96 ॥ गिरामाहुर्देवीं द्रुहिणगृहिणीमागमविदो हरेः पत्नीं पद्मां हरसहचरीमद्रितनयाम् । तुरीया कापि त्वं दुरधिगमनिःसीममहिमा महामाया विश्वं भ्रमयसि परब्रह्ममहिषि ॥ 97 ॥ कदा काले मातः कथय कलितालक्तकरसं पिबेयं विद्यार्थी तव चरणनिर्णेजनजलम् । प्रकृत्या मूकानामपि च कविताकारणतया कदा धत्ते वाणीमुखकमलताम्बूलरसताम् ॥ 98 ॥ सरस्वत्या लक्ष्म्या विधिहरिसपत्नो विहरते रतेः पातिव्रत्यं शिथिलयति रम्येण वपुषा । चिरं जीवन्नेव क्षपितपशुपाशव्यतिकरः परानन्दाभिख्यं रसयति रसं त्वद्भजनवान् ॥ 99 ॥ प्रदीपज्वालाभिर्दिवसकरनीराजनविधिः सुधासूतेश्चन्द्रोपलजललवैरर्घ्यरचना । स्वकीयैरम्भोभिः सलिलनिधिसौहित्यकरणं त्वदीयाभिर्वाग्भिस्तव जननि वाचां स्तुतिरियम् ॥ 100 ॥ सौन्दर्यलहरि मुख्यस्तोत्रं संवार्तदायकम् । भगवद्पाद सन्क्लुप्तं पठेन् मुक्तौ भवेन्नरः ॥ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ सौन्दर्यलहरी सम्पूर्णा ॥ ॥ ॐ तत्सत् ॥ (अनुबन्धः) समानीतः पद्भ्यां मणिमुकुरतामम्बरमणि- र्भयादास्यादन्तःस्तिमितकिरणश्रेणिमसृणः । (पाठभेदः - भयादास्य स्निग्धस्त्मित, भयादास्यस्यान्तःस्त्मित) दधाति त्वद्वक्त्रम्प्रतिफलनमश्रान्तविकचं निरातङ्कं चन्द्रान्निजहृदयपङ्केरुहमिव ॥ 101 ॥ समुद्भूतस्थूलस्तनभरमुरश्चारु हसितं कटाक्षे कन्दर्पः कतिचन कदम्बद्युति वपुः । हरस्य त्वद्भ्रान्तिं मनसि जनयन्ति स्म विमलाः पाठभेदः - जनयामास मदनो, जनयन्तः समतुलां, जनयन्ता सुवदने भवत्या ये भक्ताः परिणतिरमीषामियमुमे ॥ 102 ॥ निधे नित्यस्मेरे निरवधिगुणे नीतिनिपुणे निराघातज्ञाने नियमपरचित्तैकनिलये । नियत्या निर्मुक्ते निखिलनिगमान्तस्तुतिपदे निरातङ्के नित्ये निगमय ममापि स्तुतिमिमाम् ॥ 103 ॥